Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 87
________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः इतश्च काश्यां महापुर्यां जितशत्रुर्नृपो बभूव । तस्यां च महेभ्यश्चुलनीपिता गृहपतिरासीत् । तस्य च रूप-यौवनसम्पन्ना श्यामाख्या पत्न्यासीत् । तस्य च निधि-वृद्धि-व्यवहारेषु पृथक् पृथगष्टौ स्वर्णकोट्यो दशगोसहस्रसमन्विता अष्टौ व्रजाश्चाऽभवन् । प्रभुश्च वीरजिनो विहरंस्तस्यां नगर्यां कोष्ठकाख्ये उद्याने समवासरत् । तत्र च सुरा - ऽसुरा जितशत्रुनृपश्च प्रभुं नन्तुं समागता: । चुलनीपिताऽपि मण्डनमण्डितः पदातिरेवाऽऽगत्य भक्त्या प्रणम्योपविश्य धर्मदेशनां श्रुतवान् । सभायामुत्थितायां च चुलनीपिता प्रभुं प्रणम्य पप्रच्छ- "प्रभो ! लोकप्रबोधाय महीं विहरन्नयाचितमेव धर्मं ददासि । तच्छ्रावकधर्मदानेन मामनुगृहाण " । ततः स प्रभुणाऽनुज्ञातः श्रावकधर्मं जग्राह । तथा स कामदेव इव स्वर्णादीनां नियमं प्रपेदे । तत्पत्नी श्यामाऽपि च प्रभुसमीपे श्रावकव्रतं गृहीतवती । तदा गौतमः प्रणम्य प्रभुं पप्रच्छ- "अयं चुलनीपिता यतिधर्म ग्रहीष्यति न वा ?" ततो वीरजिन आह- " अयं यतिधर्मं न ग्रहीष्यति, किन्तु श्रावकव्रतं पालयन् विपद्य सौधर्मेऽरुणाभविमाने चतुः पल्योपमस्थिति: सुरो भूत्वा च्युत्वा विदेहेषूत्पद्य सेत्स्यति" । १४६ अथ तत्रैव सुरादेवो गृहपतिर्बभूव । तस्य च धन्याख्या भार्याऽऽसीत् । कामदेववदेव च हिरण्यादिकं तस्याऽऽसीत् । सोऽपि गत्वा स्वभार्यया धन्यया सह प्रभोरग्रे श्रावकव्रतं हिरण्यादिनियमांश्चाऽग्रहीत् । अथ प्रभुर्विहरन् आलभिकां नगरीं प्राप्तः शङ्खवनोद्याने समवससार । तत्र नगरे च महर्द्धया कामदेवतुल्यश्चुल्लशतिको नाम गृहपतिर्बभूव । तस्य बहुलाख्या प्रियाऽऽसीत् । स गत्वा भार्यया बहुलया सह प्रभोरग्रे गृहिधर्म नियमांश्च प्रपेदे । दशमं पर्व अष्टमः सर्गः ततश्च विहृत्य प्रभुः काम्पील्यपुरे सहस्त्राम्रवणोद्याने समवासार्षीत् । तत्र नगरे च वास्तव्यः कामदेवतुल्यर्द्धिः कुण्डगोलिको गृही स्वभार्यया शीलादिसमन्वितया पुष्पया सह प्रभोरग्रे श्रावकधर्मं नियमांश्चाऽग्रहीत् । १४७ अत: पोलाशपुरे शब्दालपुत्रः कुलालो गोशालमतादरी बभूव । तस्य भार्याऽग्निमित्राख्याऽऽसीत् । स च हिरण्य-गोव्रजादिसमृद्ध आसीत् । तन्नगराद् बहिश्च तस्य कुलालस्य पञ्च कुम्भकारापणशतान्यासन् । तं कुलालमशोकवने कश्चिद् देव उवाच"प्रातः सर्वज्ञ इहाऽऽगमिष्यति, तं फलकपीठ-संस्तरका दिना सेवेथाः” । आजीवभक्तश्च स " मम धर्मगुरुः सर्वज्ञो गोशाल इह प्रातरेष्यती" ति बुबुधे । प्रातश्च प्रभुवीरजिनस्तत्र समागत: सहस्त्राम्रवणे समवससार । ततः स कुम्भकारो गत्वा प्रभुमवन्दत । वीरजिनश्च देशनां कृत्वा तमुवाच "शब्दालपुत्र ! ह्यस्त्वामशोकवने देवः " सर्वज्ञोऽर्हन्नेष्यति, स त्वया पीठादिसमर्पणेनोपास्यइत्यवदत् । त्वं च गोशाल एष्यतीत्यचिन्तयः " । तच्छ्रुत्वा च स कुलालो दध्यौ "अहो ! अयं सर्वज्ञो महावीर आगतः, तदयं वन्दनीयः सेवनीयश्च" । एवं विचार्योत्थाय नत्वा च कृताञ्जलिः प्रभुमुवाच-" एतत्पुराद् बहिर्मम कुम्भकारापणेषु पीठाद्यादाय मामनुगृहाण" । प्रभुश्च तद्वचः प्रपन्नवान् । गोशालशिक्षावशाद् गृहीताद् नियतिवादाच्च तं युक्तिभिः प्रबोध्य न्यवर्त्तयत् । ततः स नियतिवादमपहाय पुरुषार्थं स्वीकृत्याऽऽनन्द इव प्रभोरग्रे श्रावकव्रतं नियमांश्च प्रपेदे । तद्भार्याऽग्निमित्रा चाऽपि तेन प्रतिबोधिताऽऽगत्य प्रभोरग्रे श्रावकव्रतं जग्राह । ततो वीरजिनोऽन्यत्र विजहार ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147