Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 88
________________ १४८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ गोशालको जनश्रुत्या "शब्दालपुत्र आजीवकमतं त्यक्त्वा निर्ग्रन्थश्रमणमतं प्रपन्नवानि"ति श्रुत्वा शब्दालपुत्रकं पुनराजीवकमते स्थापयामीति विचार्याऽऽजीवकैः सह तत्राऽऽगात् । किन्तु शब्दालपुत्रस्तं न सत्कृतवान् । तत: सोऽफलमनोरथस्ततो निर्गतवान् । इतश्च वीरजिनो राजगृहे गुणशिलाख्ये चैत्ये समवससार । तन्नगरे च चुलनीपितृसमद्धिर्महाशतकनामा गृहपतिर्बभूव । तस्य च रेवत्याद्यास्त्रयोदश भार्या अभूवन् । तत्र रेवत्या अष्टौ हिरण्यकोट्यो व्रजाश्चाऽभूवन् । अन्यासां च प्रत्येकमेकास्वर्णकोटिरेको व्रजचाऽभूत् । सोऽपि च प्रभोरग्रे चुलनीपितृवद् धर्म नियमांश्चाऽग्रहीत् । ___ अथाऽन्यदा विहरन् वीरप्रभुः श्रावस्ती नगरीं प्राप्य कोष्ठकसंज्ञके उपवने समवससार । तन्नगरे चाऽऽनन्दतुल्यसमृद्धिको नन्दिनीपिता गृहपतिरभूत् । तस्य च चन्द्रस्याऽश्विनीवाऽश्विनी भार्याऽऽसीत् । स गत्वा प्रणम्य देशनां श्रुत्वा प्रभोरग्रे आनन्द इव धर्म नियमांश्च शिश्राय । तथा तत्र स आनन्दतुल्यद्धिको गृहपति र्लान्तकापिताऽपि फाल्गन्याख्यया स्वभार्यया सह प्रभोरग्रे देशनां श्रुत्वा धर्म नियमांश्चाऽग्रहीत् । तदेवं वीरप्रभोर्दृढाशया धीरा दश श्रावकचरा अभूवन् । दशमं पर्व - अष्टमः सर्गः १४९ तत्र तस्थौ । चन्दना साध्वी चोत्थानसमयं ज्ञात्वा वीरजिनं प्रणम्य सपरिच्छदा स्वां वसतिं ययौ । मृगावती तु सूर्यप्रभातेजसाऽऽगतां रात्रिमज्ञात्वा दिनभ्रमात् तत्रैव तस्थौ । चन्द्रा-सूर्ययोर्गतयोश्च रात्रि ज्ञात्वा मृगावती कालात्ययाच्चकिता प्रतिश्रयमागता । ततश्चन्दना तामुवाच-"साध्वि ! कुलीनायास्तव रात्रौ बहिरेकाकिन्याः स्थितिर्न युज्यते" । ततश्चन्दनां मुहुर्मुहुः क्षमयन्त्यास्तस्या मृगावत्या घातिकर्मक्षयाद् निर्मलं केवलमुत्पन्नम् । सा च शयानाया: साध्व्या: पार्श्वे गच्छन्तं सर्प केवलाज्ज्ञात्वा पृथिव्या बाहुमुदक्षिपत् । ततः प्रबुद्ध्या चन्दनया किं बाहुरुत्क्षिप्त इति पृष्टा महासर्प इह गच्छतीति कथयामास । ततो गाढेऽन्धकारे त्वया सर्पः कथं दृष्ट इति चन्दनया पृष्टा मया केवलज्ञानेनैतज्ज्ञातमिति मृगावत्युवाच । ततश्च चन्दनाया अपि केवल्याशातनीं मां धिगिति मुहुर्मुहुः स्वं निन्दन्त्या: केवलमुत्पेदे ।। इतश्च गौतमः प्रभुमपृच्छत्-"किं भावाः स्वभावतोऽन्यत्वं गच्छन्ति, यच्चन्द्र-सूर्ययोविमाने इहाऽऽजग्मतुः ?" तत: प्रभुरुवाच"दशाऽऽश्चर्याणि स्यु:-तत्राऽर्हतामुपसर्गाः, गर्भापहारश्चन्द्र-सूर्यविमानावतरणं, चमरोत्पातो, भव्यरहिता परिषदष्टोत्तरं शतं सिद्धा, अपरकङ्कायां कृष्णगमनमसंयतपूजा, स्त्रीतीर्थं हरिवंशकुलोत्पत्तिश्च । तस्माच्चन्द्रसूर्यविमानावतारः सङ्गत: एव" । एवमुक्त्वा ततो विहरन् प्रभुः श्रावस्ती गत्वा कोष्ठकाख्ये उद्याने समवससार । तन्नगरे च पूर्वमेवाऽऽगतस्तेजोलेश्याविनाशितविरोधकोऽष्टाङ्गनिमित्तज्ञानवशाल्लोकमनोभावज्ञाता जिनम्मन्य स्वं जिनं ख्यापयंश्च गोशालो हालाहलाकुम्भकार्या आपणे वसति स्म। अथ वीरप्रभुविहरन् कौशाम्बी पुरीं जगाम । तत्र च चरमपौरुष्यां चन्द्रा-सूर्यो स्वविमानस्थौ युगपदेव प्रभुं वन्दितुं समेयतुः । लोकश्च नभसि विमानतेजसा प्रकाशिते सति कौतुकात्

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147