Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 79
________________ १३० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुखं स्वीकरोषि तर्हि तत्र पौरुषं कारणं मन्यस्व । यदि सर्वत्र नियतिरेव कारणं स्यात् तर्हि तव क्रिया अपि मुधा स्युः । भोजनाद्यर्थं प्रयत्नेन चाऽलम्, एकत्रैव नियतिमाश्रित्य किं न तिष्ठसि । तन्नियतिवत् पौरुषमपि स्वार्थसिद्धौ हेतुः । तत्राऽपि नियतेः पौरुषं ज्यायः । गगनाद्धि जलं पतति, पौरुषमाश्रित्य भूखननेनाऽपि तल्लभ्यम् । तदिष्टसिद्धौ नियतिर्बलवती, ततोऽपि पौरुषं बलवत्तरम्" । एवं निरुत्तरीकृतगोशालः स आर्द्रककुमारमुनिः सजयजयारावं भूचर-खेचराद्यैः स्तुतो हस्तितापसानामाश्रमं ययौ । तत्र च नीरसीकरणायाऽऽतपे विकीर्णैर्हस्तिमांसैर्भरितान्युटजान्यासन् । तत्रस्थास्तापसाश्चैकं गजेन्द्रं हत्वा तन्मांसं खादन्तो दिनानि गमयन्ति स्म । पुनश्च ते बहूनां मृगादीनां हनने पापमित्याहारार्थमपर एको महान् गज एव चिरमुदरपूर्तये हन्तव्य इति दयाभासमवलम्बमाना महान्तमेकं गजं मारणाय बबन्धुः । यत्र च स शृङ्खलितो गज आसीत्, तेनैव मार्गेण स आर्द्रककुमारमुनिजगाम । जनैर्वन्द्यमानं मुनिपञ्चशतीपरिवृतं तं मुनि दृष्ट्वा स गजोऽल्पकर्मा दध्यौ-"बद्धोऽहं कथमेनं वन्दे" । ततस्तस्य गजस्य तन्मुनिदर्शनाच्छृङ्खलानि स्वयमेव भग्नानि । ततो मुक्तबन्धन: स गजस्तं मुनि वन्दितुं पस्पर्श । जनस्तु व्याकुलीभूय हतो मुनिरिति वदन् पलायिष्ट । किन्तु मुनिस्तथैव तस्थौ । स करी च मस्तकं नमयित्वा तं मुनि ननाम । तत्पादौ स्पर्श स्पर्श च परमां शान्ति प्राप । तत उत्थाय भक्त्या तं मुनि पश्यन् स मतङ्गजो वनं प्राविशत् । तदद्भुतं प्रभावं दृष्ट्वा क्रुद्धास्तापसा दशमं पर्व - सप्तमः सर्गः अपि तेन मुनिनाऽऽर्द्रककुमारेण बोधिता उपजिनेश्वरं प्रेषिता गत्वा वीरजिनपादान्ते दीक्षां जगृहुः ।। अथ श्रेणिकनृपो गजमोक्षणं तापसप्रतिबोधं च श्रुत्वाऽभयकुमारेण सहाऽऽगत्याऽऽर्द्रककुमारमुनि ववन्दे । मुनिश्च धर्मलाभाशिषा तमानन्दयामास । ततो नृपो मुनि सकुशलं भूमावासीनं दृष्ट्वोवाच-"मुने ! हस्तिमोक्षणं महाश्चर्यम्" । ततो मुनिरुवाच"गजमोक्षणं न दुष्करं, किन्तु तर्कुतन्तुपाशमोक्षोऽतिदुष्करः" । ततो राज्ञा पृष्टो मुनिस्तकुँतन्तुकथां कथयामास । लोकश्च तच्छ्रुत्वा विस्मयं जगाम । तत आर्द्रककुमारमुनिरभयकुमारमुवाच-"त्वं मम निष्कारणोपकारी धर्मबान्धवोऽभूः । त्वत्प्रेषितार्हत्प्रतिमावलोकनेन प्राप्तजातिस्मृतिरहं जैनोऽभवम् । त्वयाऽहमनार्यत्वकूपादुवृतोऽस्मि । त्वबुद्ध्यैव बोधमाप्याऽऽर्यदेशं प्राप्तोऽस्मि । त्वया प्रतिबोधित एव च व्रतं प्रपन्नोऽस्मि । तत्त्वं चिरं कुशलं तिष्ठ" । ततः साभयः श्रेणिकोऽन्ये च मुनि वन्दित्वा स्वस्थानं जग्मुः । मुनिश्च राजगृहे समागतं वीरजिनं ववन्दे । तं सेवमानश्च कृतार्थः स शिवपदं जगाम ॥ ७॥ इति दशमे पर्वणि चेलणायोग्यैकस्तम्भप्रासादनिर्माणआमफलापहारकेण श्रेणिकविद्याग्रहण-दुर्गन्धाकथाआर्द्रककुमारकथावर्णनात्मकः सप्तमः सर्गः ॥७॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147