Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 78
________________ १२८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ द्वादशेऽब्दे दिग्भ्रमात् स मुनिस्तत्राऽऽगतो लक्ष्मदर्शनात्तयोपलक्षितः । तदा श्रीमती तमाह-"देवकुले त्वं मया तदानीं वृतोऽसि, त्वमेव मम वरः । तदानीं मां मुग्धां विहाय गतोऽसि । अद्य मया पुनः प्राप्तो न गन्तुमर्हसि, प्रसीद, मां भजस्व । यदि मामवज्ञास्यसि तदाऽहं काष्ठभक्षणं करिष्यामि, तेन च तव स्त्रीहत्यापातकं स्यात्" । ततः स मुनिपेण महाजनेनाऽन्यैरपि च प्राथितो व्रतग्रहणनिषेधिकां देवताया वाचं स्मृत्वा नृपादीनामाग्रहात् तां श्रीमती परिणीतवान् । तया रममाणस्य च तस्य क्रमशः पुत्रोऽजनि। तस्मिन् क्षीरकण्ठतां विमुच्य वाचमाददाने पुत्रे च मुनिः श्रीमतीमुवाच-'अतः परं पुत्रस्ते सहायोऽस्तु, अहं दीक्षां गृह्णामि" । ततः श्रीमती पुत्रं ज्ञापयितुं तूलपूर्णिकत' चाऽऽदायाऽऽसने उपविश्य तर्कुकर्म प्रारेभे । तदा किमिदमयोग्यं कर्म करोषीति बालकेन पृष्टा च सोवाच-'वत्स ! तव पिता दीक्षार्थं गमिष्यति, तस्मिन् गते च पतिरहिताया मम तर्कुरेव गतिः" । तच्छ्रुत्वा स बालकोऽस्पष्टमधुरमुवाच-'अहं पितरं बद्ध्वा धारयिष्यामि, तहि कथं स यास्यति" । एवमुक्त्वा च स सौम्याकृतिर्बाल ऊर्णनाभो लीलयेव तर्कसूत्रेण पितुः पादौ परिवेष्ट्य मातरं "मा भेषी:, स्वस्था भव । मया बद्धपादोऽसावधुना गन्तुं न क्षमः" इच्युवाच । श्रीमतीपतिश्च तदा दध्यौ-"अस्य बालस्य स्नेहबन्धो मन्मनः पक्षिणं पाशयति । तन्मत्पदोर्यावन्तः सत्रवेष्टकाः सन्ति तावन्त्यब्दान्यहं सुतवात्सल्याद् गृहे स्थास्यामि" । ततः स पादयोादशतन्तुबन्धसद्भावात् तावन्ति वर्षाणि गृह एवाऽस्थात् । अथ प्रतिज्ञावधौ पूर्णे विरक्ताशयः स रात्रेश्चरमे प्रहरे दध्यौभवकूपाद् बहिर्गन्तुं रज्जुतुल्यं व्रतं गृहीतमपि मया त्यक्तम् । दशमं पर्व - सप्तमः सर्गः पूर्वजन्मनि मनसैव व्रतभङ्गतोऽनार्यत्वं प्राप्तोऽस्मि, अतः परं का गति यास्यामि । तदधुना प्रव्रज्य तपसाऽऽत्मानं शोधयामि" । एवं ध्यात्वा स प्रभाते भार्यां श्रीमती कथयित्वा तदनुमतिमाप्य च मुनिवेषं गृहीत्वा निर्मम: सन् गृहाद् निर्गतवान् । अथ राजगृहं प्रति प्रस्थितः स मार्गो स्वसामन्तपञ्चशती चौरकर्मपरायणां दृष्टवान् । उपलक्ष्य तैर्भक्त्या वन्दितश्च स तान् 'किमेषा युष्माभिः पापमूला जीविकोरीकृतेति भर्त्सयामास । ततस्ते ऊचुः-"यदा त्वमस्मान् वञ्चयित्वा पलायितस्तदा वयं नृपतेरात्मानं हिया दर्शयितुमक्षमास्तवाऽन्वेषणे महीं भ्राम्यन्तोऽऽगत्या चौर्यवृत्त्यैव जीवामः" । ततो मुनिः पुनस्तानुवाच-“कष्टे समापतितेऽपि धर्मानुबन्ध्येव कर्म विधेयं, मनुष्यभवो हि महापुण्यफलम् । तस्य च धर्मः स्वर्गाऽपवर्गहेतुः फलम् । तद् यूयमहिंसा-सत्या-ऽस्तेय-ब्रह्मा-ऽपरिग्रहानार्हतान् धर्मान् स्वीकुरुध्वम् । यूयं नृपभक्ताः । अहं च नृपवदेव युष्माकं स्वामी । तन्मम मार्गप्रपत्तिर्भवतां युक्तमेव" । ततस्ते ऊचु:"त्वं मम स्वाम्यधुना च गुरुरपि । त्वया धर्मं बोधिताः स्मः । तदस्मान् दीक्षादानेनाऽनुगृहाण" । ततो मुनिराककुमारस्तान् प्रव्राजयामास । अथ तैः समन्वित आर्द्रककुमारमुनिः श्रीवीरजिनं वन्दितुं राजगृहं गच्छन् सम्मुखागतं गोशालं न प्रणनाम । ततस्तेन तस्य विवादो जातः । तच्छ्रोतुं च तत्र भूचराः खेचराश्च कौतुकात् सहस्रशो मिलिताः । तत्र गोशाल उवाच-"तपोनिमित्तं कष्टं मुधा, यतो भाग्यादेव शुभा-ऽशुभफलम्" । तत आर्द्रककुमारमुनिरुवाच-यदि

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147