Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 71
________________ ११४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा च दावे ज्वलिते स्थण्डिलानि प्रतिधावमानस्त्वं पूर्वायातैमूंगादिभिः पूर्ण स्थण्डिलद्वयमतिचक्राम । तृतीयं स्थण्डिलं गतः शरीरकण्डूयनाय पादं समुदक्षिपः । मिथः प्राणिसम्मर्दस्खलितश्च शशकःस्तवाऽङ्ग्रेरधस्तात् पतितः । तथास्थं शशकमवलोक्य च जातदय उदस्तपाद एवाऽस्थाः । सार्धव्यहाद् दवे शान्ते शशकादयो जग्मुः । त्वमपि क्षुत्-तृट्परीतो जलार्थं धावमानश्चिरोद्धृतपादत्वात् खिन्नो भूमौ पतितस्त्र्यहाद् मृत्युं प्राप्य शशकदयापुण्येन राजपुत्रो जातोऽसि । तदेवं लब्धं मानुष्यं मुधा मा कार्षीः" । एवं स्वामिवचनेन मेघो व्रते स्थिरो मिथ्या दृष्कृतं कृत्वा विविधं तपस्तप्त्वा विपद्य विजये देवोऽभूत् । ततश्च्युत्वा च विदेहेषूत्पद्य सिद्धि यास्यति । दशमं पर्व - षष्ठः सर्गः भिक्षार्थं निर्गतोऽनाभोगाद् वेश्यागृहं प्रविष्टो धर्मलाभमुवाच । मम न धर्मलाभेन किन्तु द्रम्मलाभेन प्रयोजनमिति सविकारं सोपहासं च वेश्यया प्रोक्तः स रोषात् तीव्रतृणं कृष्ट्वा लब्ध्या ततो रत्नराशि पातयित्वा द्रम्मलाभोऽयं तवेत्युक्त्वा तद्गृहाद् निर्ययौ । वेश्या च ससम्भ्रमं तमनुधावमानोवाच-"सुदुष्करमिदं तपस्त्यक्त्वा मया सह भोगान् भुक्ष्व, त्वया विनाऽहमन्यथा प्राणान् त्यक्ष्यामि" । एवं तया भूयो भूयः प्रार्थित: स दोषज्ञोऽपि कर्मवशात् तद्वचः स्वीकृत्य "यदि प्रतिदिनं दशाधिकान् न बोधयिष्यामि तदा पुनर्दीक्षां ग्रहिष्यामी"ति प्रत्यज्ञासीच्च । ततः स त्यक्तमुनिलिङ्गस्तद्गृहे वसन् सदा देवताया जिनस्य च दीक्षानिषेधिकां वाचं स्मरन् तया सह भोगानभुक्त । प्रतिदिनं दश भव्यान् प्रबोध्य जिनेश्वरसमीपं प्रेषयामास च । अन्यदा च भोगफले कर्मणि क्षीणे तस्य प्रयतस्य बोधयतोऽपि नव जना अबुध्यन्त, किन्तु रङ्कजातीयो दशमो नैव बुबुधे । तस्मिन्नबुध्यमाने च समयज्ञा वेश्या नन्दिषेणाय कृतां रसवती मुहुर्मुहुराख्यत् । किन्त्वपूर्णाभिग्रहः स नोत्तस्थौ । किन्तु तं रङ्कजातीमेव विविधैर्वचोभिर्बोधयन्नस्थात् । वेश्यया बह्वाग्रहाद् भोजनार्थमुक्तश्च स नन्दिषेण उवाच-"यदि दशमो बोधितो न स्यात् तदाऽहमद्यैव पुनः प्रव्रजिष्यामि" । एवं तामुक्त्वा नन्दिषेणो भोग्यफलं भुक्तं ज्ञात्वा ततो निर्गत्य स्वामिनः पार्वे पुनर्दीक्षां ललौ । ततः स महात्मा नन्दिषेणस्तदुश्चरितमालोच्य जिनेन्द्रेण सह विहरन् तीव्र तपस्तप्यमानो व्रतं पालयन् विपद्य देवत्वमाप ॥ ६ ॥ इति दशमे पर्वणि श्रेणिकसम्यक्त्वलाभ-मेघकुमार नन्दिषेणप्रव्रज्यावर्णनात्मकः षष्ठः सर्गः ॥६॥ अन्यदा च स्वामिदेशनया प्रबुद्धो नन्दिषेणः श्रेणिकमनुज्ञातुं प्रार्थयामास । पित्राऽनुज्ञातश्च स गृहाद् दीक्षार्थं प्रस्थितो गगनस्थया देवतया प्रोक्त:-"वत्स ! दीक्षार्थं मा त्वरिष्ठाः, तव चारित्रावारकं भोगफलं कर्माऽवशिष्यते । तत्किञ्चित्कालं प्रतीक्षस्व" । तथाऽपि स दुराग्रहाद् प्रभुसमीपं गतवान् । स्वामिना वारितोऽपि च तत्पादपादान्ते प्रव्रज्यां प्रतिपन्नवान् । षष्ठा-ऽष्टमादीनि तपांसि कुर्वन् प्रभुणा सह विहरन् परीषहान् सहमानः सूत्रार्थान् भावयन् कामान् बलाद् रोर्बु स्वशरीरं भृशं क्रशयामास । इन्द्रियाणि जेतुं च श्मशानादिष्वातापनां चकार । एकदा कामेषु कर्मबलात् प्रभवत्सु च स प्रव्रज्याभङ्गभिया स्वमुद्बद्धं समारेभे । देवता चाऽस्य बन्धच्छेदं चकार । एवं मृत्योर्देवतया वार्यमाण एकाकिविहारपरिकर्मभृत् स षष्ठपारणेच्छया

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147