Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 72
________________ सप्तमः सर्गः अथ श्रेणिकश्चेल्लणया विषयसुखमनुभवंस्तस्यामत्यन्तमासक्तोऽभूत् । तत्पार्वं कदाऽपि स नाऽमुञ्चत् । एकदा च भयङ्करे शिशिरत्तौं प्रवृत्ते श्रीवीरजिनः सपरिवारो राजगृहे समवासार्षीत् । ततो नृपः श्रेणिकश्चलणया सहाऽऽगत्य वीरजिनं वन्दित्वा वलितो जलसमीपे प्रतिमास्थितं निरावरणं शीतपरिषहं सहमानं श्रमणं मुनि ददर्श । ततो वाहनादुत्तीर्य तं भक्त्या वन्दित्वा पुण्यवातां पत्न्या सह कुर्वन् गृहं ययौ । तत्र च सज्जिते रतिभवने श्रेणिकश्चलणया गाढमालिङ्गितो निशि सुष्वाप । गाढनिद्रायां च चेलणायाः करः प्रच्छदपटाद् बहिर्भूतो दुःसहशीताक्रान्तो जातः । तेन च गतनिद्रा चेल्लणा करं प्रच्छदपटान्तः कृत्वा नृपहदि निधाय निरावरणं प्रतिमास्थं तं मुनि स्मृत्वेदृशे शीते कथं स भविष्यतीत्युक्त्वा पुनर्निद्रां प्राप । नृपश्चाऽल्पनिद्रस्तद्वचसा प्रबुद्धस्तस्या वचः श्रुत्वा दध्यौ-"नूनमस्या मनस्यन्यः प्रियः कोऽप्यस्ति, यमेवं शीतपीडासम्भावनयेयं शोचति" । एवं चिन्तयन्नीjया तान्तिमनुभवन् जाग्रदेव तां निशामत्यवाहयत् । प्रातश्च चेल्लणामन्तःपुरं गन्तुमादिश्याऽभयकुमारमाहूय श्रेणिक उवाच- "अन्त:पुरं दुराचाराक्रान्तं ज्ञायते । तन्मातृमोहं त्यक्त्वा तत् सर्वं ज्वाल्यताम्" । एवमभयकुमार दशमं पर्व - सप्तमः सर्गः मादिश्य नृपो वीरजिनं वन्दितुं जगाम । इतोऽभयश्च विवेकी भयभीतो दध्यौ-मम मातरः सर्वा निसर्गत: सच्छीलाः, तासामहं रक्षकः, पितुराज्ञा च तादृशी । तथाऽपि कथञ्चित् कालक्षेपः क्रियते, तेन हि पितुः कोपनिवृत्ति सम्भाव्यते" । एवं विचार्याऽभयकुमारोऽन्तःपुरसमीपे जीर्णहस्तिशालां ज्वालयित्वाऽन्तःपुरं दग्धमिति घोषयामास । इतश्च श्रेणिकेन 'चेल्लणा किमेकपल्यनेकपत्नी वे'ति पृष्टः श्रीवीरजिनस्तां शीलवतीमशङ्कनीयामुवाच । तच्छ्रुत्वा च नृपः पश्चात्तापाक्रान्तो द्रुतं नगरं प्रतिधावमानस्तथाज्वालनं कृत्वाऽभिमुखमागच्छन्तमभयमस्मदाज्ञा पूरिता किमित्यपृच्छत् । ततोऽभयः प्रणम्य कृताञ्जलिः स्वाम्यादेशः प्रमाणमित्युवाच । ततो नृपस्त्वं मातृवधकः किं न वह्नौ पतित इत्यभयमाक्रुष्टवान् । ततोऽभय उवाच- "देव ! श्रुतजिनवचनोऽहं समये व्रतं ग्रहीष्यामि, पतङ्गमरणं नाऽर्हामि, तथाऽपि तयाऽऽज्ञया तथा कृत्वाऽपि मर्तुमुत्सहे" । ततो नृपो मद्वचसाऽपि किमकृत्यमकार्षीरिति ब्रुवन् मूर्छामाप । अभयश्च नृपं शीतोपचारेण स्वस्थीकृत्योवाच-अन्त:पुरे कुशलं, किन्तु मया भवदाज्ञा विराद्धति ममाऽपराधः । मयाऽन्तःपुरसमीपस्था जीर्णा हस्तिशाला ज्वालिता । नहि भवदाज्ञामप्यविवेकेनाऽहं पालयामि" । ततो नृपस्तमभयं प्रशस्य पारितोषिकदानेनाऽनुग्राह्याऽत्यन्तमुत्कण्ठितश्चेल्लणां द्रष्टुं तत्सदनं जगाम । प्रतिदिनं च नवनवेन प्रेम्णा चेल्लणया रेमे । अथाऽन्यदा श्रेणिको दध्यौ-"चेलणा मम प्रियतरा, तदन्यराज्ञीभ्योऽस्यां को विशेषः प्रसादः क्रियताम् ? यद्वाऽस्या एकस्तम्भं प्रासादं कारयामि, तत्रेयं विमाने सुरीव सुखं तिष्ठतु" ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147