Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 70
________________ ११२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नानातॄणकवलैः पुत्रप्रेम्णा तं पोषयामासुः । तापसान् वृक्षान् कलशैः सिञ्चतो निरीक्ष्य च ताननुकुर्वन् स तैः सेचनक इति नाम्नाऽऽहूतः। क्रमाच्च सर्वलक्षणयुक्तः स सेचनको गजो यौवनसूचकं मदं प्रपन्नो जलं पातुं नदीतीरं प्राप्तो यूथपं पितरं दृष्ट्वा युद्धे तं हत्वा स्वयं यूथपो भूत्वा दध्यौ-"आश्रमेऽस्मिन मायां कृत्वा मात्रा रक्षितोऽस्मि। मया च यत्पितुरकारि तदेव कोऽप्यस्मिन्नाश्रमे ममेव जातस्त्रातश्च मां मा कार्षीत्" । एवं ध्यात्वा स तं तापसाश्रमं साकल्येन भक्त्वाऽलक्ष्य संस्थानमकार्षीत् । ततः पीडितास्तपस्विनस्तद्गजवृत्तं श्रेणिकायाऽऽचख्युः । श्रेणिकोऽपि च शीघ्रं गत्वा तं गजेन्द्र बद्ध्वा समानीय स्तम्भेऽबध्नात् । ततः स गजो रोषादालिखित इव पादबन्धनरहितोऽपि नि:स्पन्दस्तस्थौ । तेन च प्रसन्नास्तापसा: समेत्याऽ"स्माभिः पोषितोऽस्मानेव प्रपीडयन् स्वकर्मफलं भुक्ष्वे"ति तं गजमाक्रोशयामासुः । ततः स गजो दध्यौ-"नूनमेभिस्तापसैरेवोपायं घटयित्वेदृशीं दशामापितोऽस्मि"। एवं विचिन्त्य क्रोधात् स्तम्भं कदलीकाण्डवद् भक्त्वा बिसतन्तुवद् बन्धनं त्रोटयित्वा च तापसान् भ्रमरानिवाऽतिदरेण विक्षिपन्नभिवनं पलायामास । ततः श्रेणिकस्तं गजमानेतुमश्वारूढैः पुत्रैः सह गत्वा परिवेष्टयति स्म । किन्तु स गजो हस्तिपकानां प्रलोभनां तर्जनां वा न गणयति स्म । किन्तु नन्दिषेणस्य वचः श्रुत्वा तं दृष्ट्वा चाऽवधिना पूर्वं जन्म जानन् शाम्यति स्म । नन्दिषेणश्च द्रुतमेव तं गजमारुरोह। तथा च गजो नन्दिषेणस्य वचसा शिक्षित इव सर्वां क्रियां कुर्वन्नालानवशोऽभूत्। तत: श्रेणिकस्तस्मै गजाय पढें ददौ प्रीतिपात्रं च चकार । तथा श्रेणिकस्य कुलपत्नीषु प्रख्यातपराक्रमाः कालाद्या बहवः पुत्रा अभूवन् । दशमं पर्व - षष्ठः सर्गः इतश्च वीरजिनो विहरन् सपरिवारो राजगृहं प्राप्य गुणशैले चैत्ये सुरविकृतं समवसरणं शिश्राय । श्रेणिकश्च प्रभुं समवसृतं ज्ञात्वा महा सपुत्रः समागत्य वन्दित्वा यथास्थानमुपविश्य भक्त्या स्तुति चकार । प्रभोधर्मदेशनां श्रुत्वा च स सम्यक्त्वमभयकुमारादयश्च श्रावकधर्म प्रपेदिरे । देशानान्ते च प्रभुं प्रणम्य पुत्रैः सह प्रसन्नः स्वस्थानं जगाम । अथ मेघकुमारो धारिणीं श्रेणिकं च रचिताञ्जलि: स्वव्रतग्रहणमनुज्ञातुं प्रार्थयामास । ततः श्रेणिको दुष्करं व्रतमिति बोधितमपि भवभीतत्वादविरमन्तं मेघकुमारमुवाच-"यद्यपि भवोद्विग्नोऽसि, तथाऽपि मम राज्यं गृहीत्वा मां सुखय" । ततस्तत्स्वीकुर्वाणं मेघं नृपो राज्ये निवेश्य भूयस्ते किं करोमीति हर्षादुवाच । ततो मेघो जगौ-"तात ! कुतोऽप्यापणाद् दीक्षाग्रहणोत्सुकाय मह्यं रजोहरण-पात्रादिकमानीयताम्" । ततो नृपो वचनबद्धोऽनिच्छन्नपि तथा चकार । मेघश्च गत्वा वीरजिनपादान्ते प्रवव्राज । अथ मेघकुमारो रात्रौ ज्येष्ठक्रमेण कृते संस्तरे प्रसुप्तो गतागतं कुर्वतो मुनेः पादैविघटितो दध्यौ-"अमी निर्धनं मां पादैर्घट्टयन्ति, सर्वत्र विभव एव पूज्यः । तत्प्रातव्रतं त्यक्ष्यामि" । एवं ध्यायन् स रात्रि कथञ्चिदतिवाह्य व्रतं त्यक्तुकामो वीरजिनमुपजगाम। प्रभुश्च केवलज्ञानेन तदाशयं ज्ञात्वा जगौ-"किं संयमभाराद् भग्नोऽसि, प्राग्भवान् न स्मरसि किम् ? त्वमितस्तृतीये भवे वैताढये मेरुप्रभाख्यो गजोऽभूः । दावाग्निपीडितश्च जलं पातुं सरसि गत: पङ्के मग्नः प्रतिगजेन हत: सप्ताहान्ते मृतः । ततो विन्ध्ये तदाख्य एव गजो जातो दावाग्नि दृष्ट्वा जातजातिस्मृतिर्वृक्षादिकमुत्पाट्य स्वयूथरक्षार्थं स्थण्डिलत्रयं चकर्थ ।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147