Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 68
________________ षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः ततो गत्वा दास्या प्रार्थितोऽभय उवाच - " त्वत्स्वामिन्या अभिलषितमाश्वेव पूरयिष्यामि, सुरङ्गां खानयित्वा तया तमानेष्यामि, त्वत्स्वामिन्याऽपि तद्रथोऽधिरोहणीयः । त्वत्स्वामिनी चित्रदृष्टरूपसाम्याच्छ्रेणिकं समागतं दृष्ट्वा हर्षमेष्यति । एवमुक्त्वा च स श्रेणिकागमने स्थान - दिन- मुहूर्त्तादिसङ्केतमप्यदात् । दासी च सुज्येष्ठायै तद् निवेद्याऽऽगत्य त्वद्वचः प्रमाणमित्यभयमुक्त्वा पुनरन्तःपुरं ययौ । अभयश्च गत्वा श्रेणिकाय सङ्केताद्युदन्तं सर्वमाख्यत् । सुज्येष्ठा च तदारभ्य कामार्त्ता श्रेणिकमेव स्मरन्ती कदाऽपि निर्वृत्तिं नाऽऽप । १०८ च निर्णीते दिने च श्रेणिको द्वात्रिंशता सुलसासुतैः सह सुरङ्गाद्वारं प्राप्य तत्र तैः सह प्रविष्टवान् । सुरङ्गानिर्गतं श्रेणिकं सुज्येष्ठा च चित्रसम्वादादुपलक्ष्य नितरां मुदिता चिल्लणां सर्वं वृत्तमाख्यायाऽऽपप्रच्छे। त्वां विना न स्थास्यामीति चिल्लणाप्रतिज्ञां च ज्ञात्वा सुज्येष्ठा तां रथमारोप्य स्वयं रत्नकरण्डिकामानेतुं गता । शत्रुगृहे चिरं स्थातुं न युक्तमिति सुलसापुत्रैः प्रेरितश्च नृपश्चिलणामेवाssदाय यथा गतेन पथा जगाम । समागता सुज्येष्ठा च श्रेणिकमदृष्ट्वाऽसफलमनोरथत्वात् स्वसुरपहाराच्च "मुषिताऽस्मि, हा चिल्लणाऽपह्नियते" इति पूच्चकार । शीघ्रं सन्निधीभवन्तं चेटकं निवार्य च वीरङ्गकः सज्जीभूय सुरङ्गाद्वारमागत्यैकेनैव बाणेन गच्छतः सुलसासुतानवधीत् । यावच्च स सुरङ्गायास्तद्रथानाकर्षति तावच्छ्रेणिको दूरं जगाम । ततो वीरङ्गकस्तद्वृत्तं चेटकाय न्यवेदयत् । चेटकश्च रथिकानां वधात् तुष्टोऽपि कन्याहरणाद् रुष्टो बभूव । सुज्येष्ठा च विफलमनोरथा विषयेच्छां निन्दन्ती विरज्य चेटकमापृच्छ्य दशमं पर्व षष्ठः सर्गः चन्दनार्यायाः समीपे दीक्षामुपाददे । अथ श्रेणिकोऽजानन् तत्र स्थितां चिल्लणां सुज्येष्ठे सम्बोधयामास । ततः सुज्येष्ठायाः कनिष्ठाऽहं चिल्लणेति तयोश्च श्रेणिक आह-"मम प्रयासो न व्यर्थः । त्वं सुज्येष्ठाया अन्यूना सुज्येष्ठेवाऽसि” । चिल्लणा च पतिलाभेन स्वसृवञ्चनेन च युगपद्धर्ष - शोकाक्रान्ता जाता । श्रेणिकच जविना रथेन शीघ्रमेव स्वनगरं प्राप । अभयोऽपि तमनुसरंस्तत्र प्राप । ततः श्रेणिकश्चिलणां परिणीय गत्वा सुलसा-नागयोः सुतमरणवृत्तान्तं कथयामास । तौ च तदाकर्ण्य शोकसन्तप्तौ तारस्वरं रुदन्तावभयकुमारो बोधयामास । तौ बोधयित्वा च श्रेणिको गृहं गत्वा चिल्लणया सह पुरन्दरः शच्येव विषयान् यथेच्छं बुभुजे । १०९ अथोष्ट्रिकाक्षपको व्यन्तरायः समाप्य पुत्रत्वेन चिल्लणाया: कुक्षाववततार । गर्भदोषेण च चिल्लणायाः पतिमांसभक्षणदुर्दोहदो जात: । पतिव्रता च सा तं दोहदं कस्याऽप्यनाख्याय दिने दिने कृष्णचन्द्रवत् क्षीयते स्म । दुर्दोहदविरक्तया तया च पात्यमानोऽपि स गर्भो नाऽपतत् । राज्ञा च प्रेम्णा कृशाङ्गी सा साग्रहं पृष्टा तद्दोहदं कथञ्चिदाख्यत् । नृपश्च तव दोहदं पूरयिष्यामीति तामाश्वास्य कथमस्या दोहदः पूरणीय इत्यभयं पृष्टवान् । ततोऽभयः श्रेणिकस्योदरे शशकस्य मांसं तच्चर्मावृतं निधाय तमुत्तानशाययत् । श्रेणिकानुज्ञया च चिल्लणा रहसि तन्मांसं भक्षयामास । छलाद् मूर्च्छिते नृपे च मांसं भक्षयन्ती सा क्षणाद् हृदयेन दूयते स्म क्षणाच्च गर्भप्रभावाद् हृष्यति स्म । एवं बुद्धया पूर्णदोहदा चिल्लणा पतिघ्न्यहमिति मुमोह । राज्ञा स्वमव्रणं दर्शिता च साऽहृष्यच्च ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147