Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 73
________________ ११८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एवं विचार्य नृपोऽभयं चेलणार्थमेकस्तम्भप्रासादनिर्माणमादिशत् । ततोऽभयेन स्तम्भार्हदारुनिमित्तमादिष्टो वर्धकिर्वनं गतः सर्वलक्षणलक्षितं वृक्षमेकं ददर्श । ततोऽयं वृक्षराजः साधिदैवत एव भवितुमहतीति ध्यात्वा देवतां प्रसादयितुं तपसि कृतनिश्चय उपोष्य गन्धधूप-माल्यादिभिर्वृक्षमध्यवासयत् । तदानीं च तवृक्षाधिष्ठो व्यन्तरोऽभयकुमारमुवाच-'वर्धकि निवारय, ममाऽऽश्रयो वृक्षो न च्छेदनीयः । अहमेवैकस्तम्भं प्रासादं करिष्यामि तथा तत्समीपे नन्दनमिवोद्यानं च करिष्यामि" । ततोऽभयकुमारो न: समीहितं सिद्धमित्युक्त्वा वर्धकि वनात् निवर्त्तयामास । व्यन्तरश्च यथाप्रतिपन्नमेकस्तम्भं प्रासादमुद्यानं च व्यधात् । अभयेन तद्दर्शितश्च प्रसन्नो नृपस्तं प्रशस्य चेलणां तत्र मुक्त्वा स्वयमपि तया सह तत्रैवोवास। चेलणा च तत्र तदुद्यानसम्भवैः पुष्पैनित्यमर्हन्तं पूजयामास । पत्यर्थं मालां जग्रन्थ । तथा तदुपवने सा श्रेणिकं प्रीत्या रमयामास । अथाऽन्यदा सिद्धविद्यस्य तत्पुरवासिनो मातङ्गपतेः स्त्रिया माकन्दफलदोहदो जज्ञे । तया निवेदितश्चाऽसमये आम्रफलं कुत इति चिन्तयन् तयैव चेलणोद्याने तदिति विज्ञाय स मातङ्गपतिस्तत्राऽऽगत्य सदा फलान् चूतान् दृष्टवान् । ततो रात्रौ समागत्याऽवनामन्या विद्ययाऽऽम्रशाखां नमयित्वाऽऽम्राणि गृह्णाति स्म । प्रातश्च चेलणा लूनफलामानवाटिकां दृष्ट्वा राज्ञे न्यवेदयत् । राजाऽप्यभयमाम्रचौरगवेषणार्थमादिशत् । अभयश्च चौरान्वेषणं प्रतिज्ञाय तत्प्रभृति तस्य तस्करस्य दिदृक्षयाऽहर्निशं नगरेऽभ्राम्यत् । एकदा च पौरैः कार्यमाणे सङ्गीतके दशमं पर्व - सप्तमः सर्गः गतः सोऽभयस्तैर्दत्ते आसने आसीन उवाच-यावद् नटा नाऽऽयान्ति तावत् कथां श्रृणुत । वसन्तपुरेऽतिनिर्धन एको जीर्णश्रेष्ठ्यभूत् । तस्य च वरयोग्या कुमारीकन्यकाऽभूत् । सा च वरार्थं कामदेवपूजनाय क्वाऽप्युद्यानेऽन्वहं चौर्येण पुष्पाण्यवचिनोति स्म । तत उद्यानपाल: पुष्पचौरमहमद्य धरिष्ये इति सङ्कल्प्य निलीय तस्थौ । किन्तु पूर्ववदागत्य निःशङ्ख पुष्पाण्यवचिन्वतीं तां रूपवती दृष्ट्वा क्षुब्धोऽपि तां बाहुना धृत्वा सकम्पो विस्मृतकोपश्चोवाच'सुन्दरि ! मां कामार्तं रमयस्व, अन्यथा त्वां न मोक्ष्यामि, त्वं हि मया पुष्पक्रीत्यसि" । ततः सोवाच-"मां मा स्पृश, अहमद्याऽपि कुमार्येवाऽस्मि" । ततः स उद्यानपालो जगौ-"तर्हि त्वयोढमात्रयेदं शरीरमादौ ममैव सम्भोगपात्रीकर्त्तव्यमि"ति प्रतिजानीहि । तथेति प्रतिपद्यमाना सा तेन मुक्ता स्वगृहं ययौ । अन्यदा च परिणीता सा रात्रौ वासगृहं गता पतिमुवाच"आर्यपुत्र ! मया मालाकारस्य मयोढमात्रया तस्यैव प्रथमाभिगमः प्रतिज्ञातोऽस्ति, तन्मामनुजानीहि, येन वचनबद्धाऽहं तं यामि, पश्चात्तु त्वदधीनैव भविष्यामि" । ततश्च सत्यप्रतिज्ञेयमिति सविस्मयं पत्याऽनुज्ञाता सा वासगृहाद् निरीय गच्छन्ती रत्नाभरणलुब्धैर्दस्युभिर्निरुद्धा । तदा मालिकवार्तामाख्याय निवर्तमानाया ममाऽऽभरणानि गह्णीध्वमित्युक्त्वा विमुक्ताऽग्रे जगाम । तदा क्षुधार्तेन राक्षसेन रुद्धा यथाख्यातवृत्तज्ञेन तेनाऽपि वलितामेतां भक्षयिष्यामीति मुक्ता च मालिकं प्राप्य साऽहं पुष्पलावी नवोढा त्वामुपागताऽस्मीत्युवाच । ततो मालिकस्तां सत्यप्रतिज्ञां महासतीयमिति मातृवद् नत्वा मुमोच । पश्चाद् निवर्तमाना च कथितया मालिकाद् मुक्तिकथया तुष्टेन रक्षसाऽपि मुक्ता चौरैरपि तत्सतीत्वप्रभावाभिभूतैर्मुक्ता गृहं प्राप्य

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147