Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ १०२ पुरुष-गद्यात्मकसारोद्धारः तस्यैव स स्यात्” । ततः सर्वे कुमारा यथारुचि हस्त्यादिकमादाय गृहाद् निर्ययुः । श्रेणिकस्तु भम्भामादाय निर्ययौ । नृपेण किमेतद् गृहीतमिति पृष्टश्च श्रेणिक उवाच - 'राज्ञां जयस्य प्रथमं चिन्हं भम्मा, अस्याः शब्देनैव राज्ञां विजययात्रामङ्गलं, तन्नृपैरियमेव रक्षणीया" । ततस्तन्महत्त्वाकाङ्क्षाप्रसन्नो नृपस्तस्य भम्भासार इत्यपराख्यां ददौ । तथा स नृपः प्राकृतां 'यद्गृहादग्निरुत्तिष्ठेत् स निर्वासनीय " इति घोषणां स्मृत्वा दध्यौ - यद्यहमात्मानं नाऽनुशास्मि तर्हि परेषामनुशासनं दुष्करं स्यात्" । एवं ध्यात्वा स नृपः सपरिच्छदस्तन्नगरं त्यक्त्वा क्रोशेनैकेन शिबिरं निवेशितवान् । ततो राजगृहं यास्याम इति लोकप्रसिद्धया स नृपस्तत्रैव राजगृहं नाम नगरं परिखादिमनोहरं चकार । अथ नृपोऽपरे राज्ययोग्यंमन्याः पुत्रा एनं राज्यार्हं मा ज्ञासिषुरिति श्रेणिकमवामन्यत । स हि पृथक् पृथक् कुमाराणां देशान् ददौ । किन्तु भविष्यत्काले राज्यमस्याऽस्त्विति बुद्ध्या श्रेणिकस्य न किञ्चिदपि ददौ । ततोऽभिमानी स श्रेणिकः स्वनगराद् निर्गत्य क्रमाद् वेणातटपुरं प्राप्य प्रविश्य च भद्राख्यस्य श्रेष्ठिन आपणे लाभोदयं मूर्त्तं कर्मेवोपाविशत् । तदानीं च तन्नगरे कश्चिदुत्सव: प्रावृतत् । प्रभूतैः क्रायकैर्व्यग्रं श्रेष्ठिनं बुद्ध्वा स कुमार: पुटकादिकं बद्ध्वा ददौ । कुमारप्रभावाच्च स श्रेष्ठी प्रभूतं द्रव्यमार्जयत् । अद्य कस्याऽतिथिस्त्वमिति श्रेष्ठिना पृष्टश्च श्रेणिको भवतामित्युदतरत् । ततः श्रेष्ठी दध्यौ - " मयाऽद्य रात्रौ स्वप्ने नन्दायोग्यो यो वरो दृष्टः सोऽयमेव । एवं ध्यात्वा च स उवाच - "धन्योऽहं यत् त्वं दशमं पर्व षष्ठः सर्गः १०३ ममाऽतिथिर्भवसि" । ततः स प्रासादं संवृत्य श्रेष्ठी तं कुमारं निजगृहं नीत्वा स्नपयित्वा वस्त्रे परिधाप्य च सादरमभोजयत् । एवं तद्गृहे वसन् श्रेणिकोऽन्यदा श्रेष्ठिना नन्दाख्यामिमां कन्यां परिणयेति प्रार्थितः । अज्ञातकुलशीलस्याऽपि मम कथं कन्यां दित्ससीति श्रेणिकेनोक्तश्च तव गुणैरेव कुलं ज्ञातमिति श्रेष्ठयुवाच । ततस्तदाग्रहाच्छ्रेणिकः समहोत्सवं नन्दां परिणिनाय । तया सह विषयसुखं भुञ्जानश्च तत्राऽस्थात् । अथ प्रसेनजिन्नृपश्चरैः श्रेणिकस्य तद्वृत्तं ज्ञातवान् । उग्ररोगाक्रान्तश्च निजं मरणं जानन् नृप औष्ट्रिकान् शीघ्रं श्रेणिकमानेतुमादिशत् । श्रेणिकञ्चौष्ट्रिकेभ्यः पितू रोगवार्त्ती ज्ञात्वा नन्दां सस्नेहं सम्बोध्य ततः प्रस्थितवान् । तथा राजगृहे नगरे वयं पाण्डुरकुड्या गोपाला इति निजाख्याक्षराणि ददौ । रोगग्रस्तस्य पितुरन्यो रोगो मा भूदिति स उष्ट्रीं समारुह्य शीघ्रं राजगृहनगरं ययौ । तं दृष्ट्वा प्रसन्नश्च प्रसेनजिद् हर्षाश्रूणि मुञ्चन् राज्येऽभ्यषिञ्चत् । ततो नृपः पार्श्वजिनं परमेष्ठिनमस्कारं च स्मरन् चतु: शरणमापन्न विपद्य स्वर्गं जगाम । श्रेणिश्च राज्यधुरामुवाह । तेन मुक्ता गर्भवती नन्दा च दुर्वहं गर्भं बभार । तस्याश्च गजारूढा महैश्वर्येण प्राणिनामुपकुर्वाणाऽभयदा स्यामिति दोहदो जात: । श्रेष्ठी च राजानं तद् निवेद्य दोहदं पूरयामास । पूर्णे समये च सा पुत्रं कान्तिमन्तं प्रासू । मातामहस्तस्य बालस्य दोहदानुसारेण शुभे दिनेऽभयकुमार इति नाम चकार । अथ धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो विद्या अभ्यस्यन्नष्टवर्ष एव द्वासप्ततिकलाकुशलोऽभूदभयकुमारः । कोऽपि

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147