Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 63
________________ ९८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृष्टश्चोवाच-"सुमङ्गलकुमारेण ममैतद्रूपं हरितं, तेन मे वैराग्यं जातम्" । तच्छ्रुत्वा च सुमङ्गलनृपस्तत्र गत्वा क्षमयित्वा पारणार्थमादराद् न्यमन्त्रयत च । सोऽपि नृपायाऽऽशिषं दत्त्वा तन्निमन्त्रणं स्वीचकार । ततो नृपः स्वगृहमगात् । स तापसश्च मासक्षपणे पूर्णे नृपनिमन्त्रणं स्मरन् राजकुलं जगाम । तदानीमेव च नृपस्य शरीरास्वास्थ्यं जातम् । तेन द्वारपालो द्वारं पिहितवान् । तेन च स तपस्वी यथागतेनैव यथा निववृते । तथा मासक्षपणं निर्णीयोष्ट्रिकां ययौ । शमप्रकर्षाच्च न नृपाय मनागपि चुकोप । द्वितीयदिने स्वस्थश्च नृपस्तपस्विभक्तः सेनकतापसमुपगम्य नत्वा क्षमयित्वोवाच-"त्वं निमन्त्रितोऽपि मया न पारित एव किन्तु तदाऽन्यत्राऽपि पारणं निवारितम् । तदेवं पुण्याय मम प्रवृत्तिः पापाय सम्पन्ना । तन्ममाऽपराधं क्षमस्व । द्वितीयमासक्षपणे च कल्पपादपो नन्दनमिव मम प्राङ्गणमलङ्काः " । तथेति प्रतिपन्ने तस्मिंस्तापसे स्वगृहं गतो नृपस्तत्पारणदिनं गणयंस्तस्थौ । स तपस्वी च मासक्षपणे पूर्णे नृपगृहं जगाम । दैवाच्च नृपस्य पूर्ववदेवाऽस्वास्थ्यं जातम् । तथैव द्वारे पिहिते च स तापसो निवृत्त्य स्वोष्टिकां जगाम । स्वस्थश्च नपः पूर्ववदेव तं तापसं निमन्त्रितवान्। तृतीये मासक्षपणे पूर्णे च स तापसो नृपस्याऽस्वास्थ्यवशात् तथैव निवत्त्य जगाम । ततो नपाधिकारिणो दध्य:-"यदा यदाऽयं तपस्वी समेति तदा तदा नृपोऽस्वस्थो भवति" । तेन च ते आरक्षानाहु:"स तपस्वी मन्त्रिपुत्रः प्रविशन्नेव सर्प इव निर्वास्यः" । तैरारक्षैश्च तथा कृते कुपित: स तापसोऽहमेतस्य नृपस्य वधाय भूयासमिति निदानमकरोत् । ततो विपद्य स तापसोऽल्पद्धिानमन्तरो बभूव । नृपोऽपि च तापसो भूत्वा वानमन्तरत्वमाप । दशमं पर्व - षष्ठः सर्गः च्युत्वा च स सुमङ्गलनृप: प्रसेनजिन्नृपस्य धारिणीकुक्षिजन्मा श्रेणिको नाम पुत्रो बभूव । तत्रैव पुरे च नागनामा रथिकः प्रसेनजिन्नृपसेवकोऽभूत् । स च सदाचारी दानी कलावान् वीरो धीरश्चाऽऽसीत् । तस्य च सुलसाख्या शीलवती पुण्यात्मा गुणवती च पल्यासीत् । एकदा चाऽपुत्रो नागो दध्यौ-"कोमलकरं बालं लालयिष्यामीति मे मनोरथोऽपुत्रस्य वन्ध्यस्येवाऽफल एवाऽभूत् । यो न बाल्याद् ब्रह्मचारी न वा तारुण्ये पुत्री, तस्य जीवनं धिक्"। एवं चिन्ताचान्तस्वान्तं मलिनाननं पति सुलसा रचिताञ्जलिविनयादुवाच-'तवेयं दशा चिन्तयेत्याभाति, तत्का ते चिन्तेति मां कथय" । ततो नाग उवाच-'अहमपुत्रोऽस्मि, मम च पुत्रेच्छाऽस्ति, किन्तु कश्चिदुपायो नाऽस्ति" । तत: सुलसोवाच-"त्वमपरा बह्वीः कन्या: परिणय, तासु किमेकाऽपि पुत्रं न प्रसूयेत ?" ततो नाग: पुनरुवाच-"इह भवे त्वमेव मे पत्नी, अन्याभिर्भार्याभिः कृतं, तासु पुत्रस्य तु कथैव का? अहं त्वत्कुक्षिजमेव पुत्रमिच्छामि, तत्पुत्रार्थे यतस्व" । ततः सुलसोवाच-"अहं पुत्रार्थमर्हदाराधनां करिष्ये, सा हि सर्वेप्सितप्रदा" । ततः साऽऽचामाम्लादिभिर्दुस्तपैस्तपोभिरात्मानं पावयन्ती स्वल्पभूषणा कौसुम्भवस्त्राऽर्हदर्चनतत्परा ब्रह्म पालयन्ती समाधिना तस्थौ । अथेतः शक्रो निजसभायां श्राविकासु भरते सुलसा श्रेष्ठेति प्रशंसां चकार । तच्छ्रुत्वा विस्मितः कश्चिद्देवः सुलसाया: श्रावकत्वं परीक्षितुमागत्य देवपूजातत्पराया: सुलसाया: गृहे साधुरूपेण प्राविशत् । सुलसा च तं दृष्ट्वा प्रमुदिता भक्त्या वन्दित्वाऽऽगमनकारणं पप्रच्छ । ततः स उवाच-"वैद्येन ममाऽऽख्यातं यत्

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147