________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जातः । ततो विपद्यैशाने मध्यमायुर्देवो भूत्वा ततश्च्युत्वा मन्दिरग्रामेऽग्निभूतिनामा द्विजोऽभवत् । तत्राऽपि षट्पञ्चाशत्पूर्वलक्षायुष्कस्त्रिदण्डी भूत्वा विपद्य सनत्कुमारे मध्यमायुर्देवो बभूव । ततश्च्युत्वा श्वेताम्बीपुर्यां भारद्वाजनामा द्विजश्चतुश्चत्वारिंशत्पूर्वलक्षायुस्त्रिदण्डी भूत्वा विपद्य माहेन्द्रकल्पे मध्यमस्थितिर्देवो जातः । ततश्च्युत्वा भवं भ्रान्त्वा राजगृहे स्थावराख्यश्चतुस्त्रिंशत्पूर्वलक्षायुष्कस्त्रिदण्डी भूत्वा विपद्य ब्रह्मलोके मध्यमायुः सुरो भूत्वा च्युत्वा बहून् भवानाट ।
इतश्च राजगृहे विश्वनन्दीनामा नृपो बभूव । तस्य प्रियङ्ग नाम्न्यां पत्न्यां विशाखनन्दी नाम पुत्रोऽभवत् । तस्य नृपस्याऽनुजो विशाखभूतिर्युवराजोऽभूत् । तस्य च युवराजस्य धारिणी नाम पत्नी बभूव। मरीचिजीवश्च प्राक्कृतसुकृतप्रभावात् तस्य युवराजस्य तस्यां पत्न्यां विश्वभूतिनामा सुतोऽभूत् । स च प्राप्तयौवनो विश्वभूतिः पुष्पकरण्डके वने नन्दने सुरकुमार इव सान्तःपुरो रेमे । राजपुत्रो विशाखनन्दी च क्रीडेच्छया वनाद् बहिरस्थात् । दास्यश्च पुष्पाद्यर्थं तत्र गतास्तौ तथा स्थितौ ददृशुः । प्रियङ्गश्च तद्वृत्तान्तं ताभ्यो दासीभ्यो ज्ञात्वा कुपिता कोपगृहं जगाम । तदिष्टार्थं साधयितुं नृपोऽपि यात्राभेरीमवादयत् । तथा पुरुषसिंहः सामन्त उद्धत इति तत्साधनाय यास्यामीति सभायां कपटेनोवाच । तच्छ्रुत्वा च विश्वभूति: सरलमतिर्वनादेत्य नृपं प्रणम्य भक्त्या निवार्य स्वयं प्रयाणमकरोत्। गत्वा च पुरुषसिंहं निदेशवर्त्तिनं ज्ञात्वा बलित्वा पुष्पकरण्डकं वनं प्राप।
दशमं पर्व - प्रथमः सर्गः
तत्र द्वारपालेन 'विशाखनन्दी वनमध्येऽस्ती'ति निवेदितोऽचिन्तयत्-'माययाऽहं पुष्पकरण्डकादाकृष्टः' । ततः क्रुद्धः समुष्ट्या कपित्थं हत्वा तत्फलैरावृतां महीं दर्शयन् द्वा:स्थं जगाद-'भवतां सर्वेषां शिरांसि पातयामि, यदि ज्येष्ठे ताते मम भक्तिर्न भवेत् । किन्त्वीदृग्वञ्चनाप्रधानैर्भोगैर्ममाऽलमि'ति ब्रुवन् स गत्वा सम्भूतिमुनिपार्वे व्रतं गृहीतवान् । तं प्रव्रजितं श्रुत्वा नृपः सानुजो गत्वा नत्वा क्षमयित्वा च राज्याय प्रार्थयते स्म । किन्तु विश्वभूतिं निरीहं ज्ञात्वा च नृपो गृहं जगाम । स च गुरुणा सहाऽन्यत्र विजहार ।
अथ स तप:कृशो गुर्वनुज्ञयैकाकी विहरन् मथुरा नगरी प्राप। तदानीं च विशाखनन्दी मथुरानृपसुतां परिणेतुं तत्राऽऽययौ । विश्वभूतिश्च मासान्तपारणाय नगरी प्रविश्य शिबिरसमीपमागतः । विशाखनन्दी च तं द्विषमिव दृष्ट्वाऽकुप्यत् । तदानीमेव चैकया गवा प्रक्षिप्तो विश्वभूतिरपतत् । तं तथाभूतं दृष्ट्वा च विशाखनन्दी 'क्व ते कपित्थपातनबलमि'त्युपजहास । ततः कोपाद् विश्वभूतिएँ शृङ्गयोगृहीत्वा भ्रमयन् 'अस्य मृत्यवे भवान्तरेऽनेन तपसा भूयिष्ठबलो भूयासमिति निदानमकरोत् । तदनालोच्यैव च कोटिवर्षायुरतीत्य विपद्य महाशुक्रे उत्तमायुः सुरोऽभवत् ।
*** इतश्चाऽत्रैव भरते पोतनपुरे रिपुप्रतिशत्रुर्नाम नृपोऽभूत् । तस्य भद्राख्यायां पल्यां चतुःस्वप्नसूचितोऽचलो नाम बलभद्रः पुत्रो मृगावती नाम पुत्री च बभूवतुः । सा प्राप्तयौवनाऽप्रतिमरूपा पितरं प्रणन्तुं गता । नृपश्च तामवलोक्य जातानुरागस्तां निजक्रोडे कृत्वा तत्पाणिग्रहणोपायं विचिन्त्य व्यसृजत् । ततो नगरवृद्धानाहूय नृपः