________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वामिने नाभिपुत्राय समर्पयामास । एवमुक्तप्रकाराचारः स मरीचिः प्रभुणा सह विजहार । प्रभुश्च पुनर्विनीतायां पुरि समवासार्षीत् ।
अथ तत्र समवसरणे भरतचक्रवर्तिना स नतिपृष्टः प्रभुरादिनाथो भविष्यतो जिनान् चक्रिणो वासुदेवान् प्रतिवासुदेवान् बलभद्रांश्च समाख्यत् । ततो भरतः पुन: पप्रच्छ-"प्रभो ! किमत्र समवसरणे वर्तमानः कश्चिदिह भरतक्षेत्रे भवानिव जिनो भावी ?" ततः प्रभुमरीचिं दर्शयन्नुवाच-"अयं तव पुत्रोऽन्तिमो वीरनामा जिनो भावी । स मरीचिः पोतनपुरे त्रिपृष्ठाख्यो वासुदेवो, विदेहेषु मूकापुर्यां प्रियमित्रनामा चक्री च भविष्यति । ततो भरतः प्रभुमापृच्छ्य मरीचि त्रि: प्रदक्षिणीकृत्य वन्दित्वा 'यद्यपि ते साधुत्वं न वन्दनीयं तथाऽपि वासुदेवश्चक्रयहँश्च त्वं भावीति वन्द्यसे' इत्युक्त्वाऽऽदिनाथं प्रणम्य मुदितः स्वां पुरीं प्रविवेश ।
अथ मरीचिः स्वामिनोक्तं श्रुत्वा मोदात् त्रिपदी त्रिरास्फोटयन्नुवाच-'यद्यहं भावी वासुदेवश्चक्री जिनश्च, अलमन्येन । अहं विष्णूनां, मम पिता चक्रिणां, पितामहश्चाऽर्हतामाद्य इत्यहो ममोत्तम कुलम्' । एवं जातिमदं कुर्वन् भुजावास्फोटयन् स मरीचिर्नीचगोत्राख्यं कर्मोपार्जितवान् । स ऋषभप्रभुनिर्वाणानन्तरं मुनिभिः सह विहरन् भव्यान् प्रबोध्य साधुसमीपं प्रेषितवान् ।
अन्यदा च स मरीचिर्व्याधिभिराक्रान्तोऽनाचारीति साधुभिररक्ष्यमाण: खिन्नोऽचिन्तयत्-अहो ! अमी मुनयो निर्दयाः, स्वार्थपरायणा, लोकाचारविमुखा, दाक्षिण्यशून्याश्च । यतो मां गुरुभ्रातरं विनीतं स्निग्धं परिचितं चाऽपि नाऽवलोकन्ते तदा पालनस्य कथा तु दूरापास्ता । अथवा ममेदं दुर्व्यानं, यतोऽमी स्वदेहेऽपि निर्मोहाः,
दशमं पर्व - प्रथमः सर्गः तन्मम दुश्चारित्रस्य पालनं कथं कुर्वन्तु ? तस्माद् व्याधिमुक्तः स्वसेवकं कञ्चित् स्वलिङ्गेनाऽनेनैव शिष्यं करिष्यामि । एवं चिन्तयन् स कर्मवशाल्लब्धस्वास्थ्योऽभवत् ।
अथाऽन्यदा तस्य मरीचेर्धर्मार्थी कपिलाख्यः कुलपुत्रको मिलितः । स च मरीचिनाऽऽर्हतं धर्मं ज्ञापितः । ततः स्वयं कि न करोषीति पृष्टो मरीचिरवदत्-"अहमेनं धर्मं चरितुं न शक्तः" । ततः कपिल: पुन: पप्रच्छ-"किं त्वन्मार्गे धर्मो न विद्यते ?" ततो मरीचिस्तं जिनधर्मे मन्दादरं ज्ञात्वा शिष्यं कर्तुमिच्छन्नुवाच-जैने मम मार्गेऽपि च धर्मो विद्यते' । ततः कपिलस्तच्छिष्योऽभूत् ।
मरीचिश्च मिथ्याधर्मोपदेशहेतुकमब्धिकोटिकोटीभवमुपार्जितवान् । तदनालोच्यैव कृतानशनो मरीचिर्विपद्य ब्रह्मलोके दश सागरोपमायुर्देवोऽभवत् । कपिलश्चाऽप्यासुरिप्रभृतीन् शिष्यान् विधाय निजाचारानुपदिश्य च विपद्य ब्रह्मलोके सुरोऽभूत् । स मरीचिश्चाऽवधेः प्राग्जन्म ज्ञात्वा मोहाद् भुवमागत्याऽऽसुर्यादीन् स्वयं कृतं साङ्ख्यमतं प्रबोधितवान् । सुखसाध्यत्वाच्चाऽत्र लोके तदारभ्य साङ्ख्यं दर्शनं प्रावर्त्तत । ____ अथ मरीचिजीवश्च्युत्वा कोल्लाकग्रामे कौशिकनामा पूर्वलक्षाशीतिजीवितो द्विजोऽभूत् । तत्र स सर्वदा विषयी द्रव्योपार्जनपरायणो हिंसादिष्वनिवृत्तः कालं गमयामास । अन्ते च त्रिदण्डी भूत्वा विपद्य बहून् भवान् भ्रान्त्वा स्थूणाख्ये ग्रामे पुष्यमित्राख्यो द्विजोऽभूत् । तत्राऽपि त्रिदण्डी भूत्वा पूर्वलक्षद्वासप्ततिप्रमाणमायुरतीत्य च स सौधर्मे मध्यमस्थिति: सुरोऽभवत् । ततश्च्युत्वा स चैत्यग्रामेऽग्न्युद्योताख्यः पूर्वलक्षचतुष्षष्ट्यायुष्को द्विजस्त्रिदण्डी