________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो नयसारः 'क्षुत्-तृषार्तोऽतिथिर्मोजनीय' इतीतस्ततोऽवलोकयामास । तदानीमेव च क्षुधा-तृष्णाकुला: क्लान्ताः सार्थानन्वेषयन्तो धर्मप्रतिमूर्त्तय इव साधवः समाययुः । ततो ग्रामणीः स 'साध्विमेऽतिथयोऽत्र मे समागता' इति तान् प्रणम्याऽब्रवीत्'तत्रभवन्तो भगवन्तः कथमत्र गहने वने प्राप्ताः, शस्त्रिणोऽप्येकाकिनोऽत्र न भ्रमन्ति' । ततस्ते ऊचु:-'वयं स्थानात् सार्थेन सह प्रस्थिताः । किन्त्वस्मासु भिक्षार्थं ग्रामे प्रविष्टेषु सार्थो जगाम । तस्माद् वयं भिक्षामगृहीत्वैव सार्थस्याऽनुपदं प्रस्थिता अस्मिन् कान्तारे संनिपतिताः' । ततो नयसारः पुनरब्रवीत्-'अहो ! सार्थोऽतिनिर्दयो यत् सह प्रस्थितान् सार्थविश्वस्ताननागमय्यैव निजकार्यातुरो जगाम । यूयं मत्सुकृतैरिहाऽऽगता ममाऽतिथयः' ।
एवमाभाष्य स तान् भोजनस्थानमुपनीय स्वार्थं कल्पितैरन्नपानाद्यैः प्रत्यलाभयत् । ते मुनयश्चाऽप्यन्यत्र गत्वा विधिपूर्वकमभुञ्जन्त । ग्रामरक्षकश्चाऽपि स्वयं भुक्त्वा तानुपगम्य प्रणम्योवाचभवन्तः प्रतिष्ठन्तु, युष्माकं ग्राममार्ग दर्शयिष्यामि ।
ततस्ते तेन सह प्रस्थिताः पूर्मार्ग प्राप्य वृक्षतले समुपविश्य तस्य नयसारस्य धर्मं जगुः । स च तेन सम्यक्त्वं प्रतिपद्य कृतकृत्यं मन्यस्तान् नत्वा वलित्वा नृपाय काष्ठानि प्रेष्य स्वयं ग्राममगात् । तत्र च तदारभ्य स मनस्वी नयसारो धर्ममाचरन् सप्त तत्त्वानि चिन्तयन् सम्यक्त्वं पालयन् कालं गमयामास । अन्ते च पञ्चनमस्कारं स्मरन् विपद्य सौधर्मे कल्पे पल्योपमायुः सुरो बभूव ।
दशमं पर्व - प्रथमः सर्गः नयसारजीव: सौधर्माच्च्युत्वा मरीचिविकरणाद् मरीचिरिति ख्यातः पुत्रो बभूव । स च ऋषभस्वामिन आद्ये समवसरणे पितृ-भ्रात्रादिभिः सह गतः । तत्र सरैः प्रभोः क्रियमाणं महिमानं प्रेक्ष्य धर्मं श्रत्वा सम्यक्त्वं प्रपद्य व्रतं ललौ । ततः प्राप्तमुनिधर्मः, स्वदेहेऽपि नि:स्पृहः, पञ्चसमितस्त्रिगुप्त, एकादशाङ्गानि पठन् प्रभुणा सह चिरं विजहार ।
___ अथाऽन्यदा स ग्रीष्मत्तौ तीव्रातपे तप्तधूलिके स्वेदामलिनवस्त्रयुगस्तृषार्त्तश्चारित्रमोहनीयोदयाद् दुर्मतिश्चिन्तयामास-"भवाभिनन्दी दुर्गुणोऽहं दुर्वहान् साध्वाचारान् वोढुं न शक्तः, व्रतत्यागे च लोकलज्जा । अथवाऽयमुपायो येन खेदो न स्यात्-अमी श्रमणास्त्रिदण्डविरताः, मम दण्डग्लानस्य त्रिदण्डलाञ्छनमस्तु, अमी केशलुञ्चनाद् मुण्डा अहं क्षुरमुण्डः शिखावान् स्याम्, अमी महाव्रतधरा ममाऽणुव्रतमस्तु, अमी निष्परिग्रहा मम मुद्रादिकं परिग्रहमस्तु, अमी निर्मोहा मोहावृतस्य मम छत्रमावरणमस्त. अमी विनोपानहं चरन्ति मम पादत्राणार्थमुपानही स्ताम्, अमी शीलेन सुगन्धयः शीलेन दुर्गन्धस्य मे सौगन्ध्याय श्रीखण्डतिलकाद्यस्तु, अमी शुक्लवस्त्रा निष्कषाया मम कषायवशस्य काषायाणि वासांसि भवन्तु, अमी जीवहिंसानिवृत्ता जलारम्भं त्यजन्ति मम चाऽल्पेन जलेन स्नानाद्यस्तु" ।
एवं मुनिलिङ्गनिहाय स स्वबुद्ध्या बहु विकल्प्य क्लेशभीरु: साधुभावं प्रपन्नवान् । तं च तथालिङ्गं दृष्ट्वा सर्वो जनो धर्ममपृच्छत् । सोऽपि जिनोदितं धर्ममुपादिदेश । 'स्वयं किमेतद् नाऽऽचरसी'ति लोकैः पृष्टश्च मेरुभारतुल्यमिमं धर्म वोढुमशक्तोऽस्मी'ति जगाद । तथा धर्मोपदेशप्राप्तप्रतिबोधान् भव्यान् शिष्यान्
इतश्चाऽत्रैव भरते पुरा सुरैर्युगादिनाथस्य कृतायां विनीतायां नगयाँ श्रीऋषभस्वामिपुत्रस्य नवनिधीश्वरस्य चक्रिणो भरतस्य स