________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पप्रच्छ- 'यदत्र रत्नं जायते तत् कस्येति निर्णयं कथय' । 'तवे'ति तैः कथिते स नृपस्तत्र मृगावतीं परिणेतुमानाययत् । ततस्ते सर्वे पौरा लज्जिताः स्वस्थानं जग्मुः । राजा च गान्धर्वविवाहरीत्या मृगावती स्वयं परिणिनाय ।
ततो भद्रादेवी लज्जया क्रोधेन च परीता नृपं मुक्त्वाऽचलेन सह दक्षिणापथं जगाम । तत्र चाऽचलो नवां माहेश्वरीं पुरी निर्माय मातरं च तत्र संस्थाप्य पितुरन्तिकं जगाम । तज्जनकश्च स्वप्रजायाः पुत्र्याः पतिरिति लोकैः प्रजापतिनाम्ना कथितः । ___अथ विश्वभूति: शुक्राच्च्युत्वा मृगावत्यां कुक्षौ सप्तस्वप्नसूचितवासुदेवभावोऽवातरत् । मृगावती च यथासमयं प्रथम वासुदेवं सूनुं सुषुवे । स च पृष्ठे त्रिकरण्डकसद्भावात् त्रिपृष्ठ नाम्ना ख्यातः । अशीतिधनुरुत्तुङ्गः सोऽचलेन सह क्रीडन् सकलकलाकलापज्ञो यौवनं प्रपेदे ।
अथ विशाखनन्दिजीवो भवं भ्रान्त्वा तुङ्गगिरौ सिंहभावमाप्य शङ्खपुरदेशमुपाद्रवत् । तदानीमेव च प्रतिविष्णुनाऽश्वग्रीवेण नृपेण 'मम कुतो मृत्युरि'ति पृष्टो निमित्तज्ञः प्राह-यस्तव दूतं चण्डवेगं धर्षयिष्यति, तुङ्गगिरिसिंहं च लीलया हनिष्यति, तत एव तव मृत्युः" । ततो हयग्रीवः शङ्खपुरे शालीन् वापयित्वा तद्रक्षार्थ नृपानादिशत् । तदानीमेव च प्रजापतेः पुत्रौ महावीर्याविति श्रुत्वा तस्मै केनचिद् निमित्तेन दूतं चण्डवेगं प्रेषीत् । स च सङ्गीतं कारयत: प्रजापतेः सभां प्राविशत् । राज्ञा च गीतविघ्नभूतोऽपि सोऽभ्युत्थानादिना सत्कृतः । कुमारौ च मन्त्रिसकाशाद् हयग्रीवस्याऽयं दूत इति ज्ञात्वा 'यदाऽयमितः प्रतिष्ठते, तदाऽऽवां निवेदनीयावि'ति स्वपुरुषमादिशताम् ।
दशमं पर्व - प्रथमः सर्गः
स दूतश्चाऽन्यदा नृपेण सगौरवं सत्कृत्य विसृष्टः प्रस्थितवान् । कुमारौ च तन्निजपुरुषैर्जापितौ । ततः कुमारौ गत्वा मार्गार्धे निजभटैस्तं चारु ताडयामासतुः । दूतस्य सहायकाश्च काकनाशं नष्टाः । प्रजापतिश्च तवृत्तान्तं ज्ञात्वा भीतस्तं दूतं पुनः स्वगृहमानाय्य सविशेष सत्कृत्य चोवाच-"कुमारयोर्दुविनयं स्वामिनो हयग्रीवस्य न वाच्यम्" । स च तत् स्वीकृत्य ययौ । दूतसहायकाश्चाऽग्रतो गता हयग्रीवाय सर्वमाचख्युः । दूतोऽपि च नृपं ज्ञातवृत्तान्तं ज्ञात्वा भयात् सर्वं यथातथं कथयामास ।
ततो हयग्रीवेणाऽनुशिष्य प्रेषितो दूतो गत्वा 'सिंहाच्छालीन् रक्षेति नृपाज्ञां कथयामास । ततश्च शालिरक्षार्थं प्रस्थितं नृपं निषिध्य कुमारौ स्वयं सिंहयुद्धातुरौ शङ्खपुरं जग्मतुः । तत्र च शालिरक्षकै"रिक्रमेण चतुरङ्गसेनया वप्रं कृत्वा नृपाः शालीनगोपायन्नि"ति ज्ञात्वा तान् ‘एवं शालिपाकपर्यन्तं कः स्थास्यति ? तत्सिहं दर्शयत. येनाऽधुनैव तं निहन्मी'ति त्रिपृष्ठोऽवोचत् । ततस्ते तुङ्गगिरिकन्दरलीनं तं सिंहं दर्शयामासुः । तौ चाऽचल-त्रिपृष्ठौ रथारूढौ गुहां गत्वा लोकैः कोलाहलं कारयामासतुः । तच्छ्रुत्वा च जृम्भया व्यात्ताननः सिंहो गुहाया निर्गतवान् ।
ततस्त्रिपृष्ठो 'रथारूढेन मयाऽस्य पदातेः सिंहस्य युद्धं न सममिति खड्ग-चर्मधरो रथादवरुह्य शस्त्रिणाऽशस्त्रस्य युद्धमनुचितमिति शस्त्रं तत्याज । तद् दृष्ट्वा जातिस्मरणमाप्तः सिंहो गुहागमन रथावरोहण-शस्त्रमोचनादिकं त्रिपृष्ठस्य धाष्ट्यं ज्ञात्वा कुञ्जरमिवैनं हन्मीति विचिन्त्य विवृतमुख: फालां दत्त्वोत्पत्त्य त्रिपृष्ठसमीपं प्राप्तः । त्रिपृष्ठश्चैकेन करेणो;ष्ठमपरेणाऽधरोष्ठं च धृत्वा तं सिहं जीर्णवस्त्रमिव विदारयामास । तदानीं च