________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुरास्त्रिपृष्ठस्योपरि पुष्पाणि ववृषुः । लोकाश्च साधु साध्विति जगुः । सिंहश्च "कथमहमद्याऽनेन कुमारेण हत" इति क्रोधात् कम्पमानो विदारितोऽपि तस्थौ ।
ततस्त्रिपृष्ठस्य सारथि विनो गणधरस्य गौतमस्य जीवस्तं सिंहमवदत्-"त्वं पशुषु सिंहोऽयं च मनुष्येषु, तदनेन त्वं मारितः, तन्मनसि माऽवज्ञां कृथाः, न हीनेन हतोऽसि" । ततस्तया वाण्या मुदितः स केसरी मृत्वा चतुर्थे नरके नारकोऽभवत् । तौ कुमारौ च तत्सिहचर्म गृहीत्वा स्वनगरं प्रति प्रस्थितौ ग्राम्यान्- "हयग्रीवस्यैतद् वृत्तं निवेद्यतां, केसरीवधाच्च विश्वस्त: तिष्ठन्तु, यथेष्टं शालीन् भुञ्जन्तु चे"त्युक्त्वा पोतनपुरं प्रापतुः । ग्राम्याश्च गत्वा हयग्रीवस्य सर्वं वृत्तान्तमाचख्युः ।
हयग्रीवश्च तज्ज्ञात्वा भीतस्तौ छलेनाऽपि जिघांसुर्दूतमनुशिष्य प्रजापतिनृपं प्रति प्रेषितवान् । इतश्च गत्वा प्रजापतिनृपमवोचत्-"निजपुत्रौ स्वामिनोऽन्तिके प्रेषय, सोऽनयोः पृथक् पृथग् राज्यं दास्यति" । ततः प्रजापतिरुवाच-"स्वामिनमहं स्वयं यास्यामि, मम पुत्राभ्यां गताभ्यामलम्" । ततो दूतोऽवोचत्-यदि त्वं पुत्रौ न प्रेषयिष्यसि, तर्हि युद्धाय सज्जीभव" । ततः कुमारी तं दूतं धर्षयित्वा निजपुराद् निरवासयत् । तेन च क्रुद्धो दूतो गत्वा हयग्रीवाय सर्वं वृत्तान्तं निवेदितवान् ।
तत: कोपादग्निरिव ज्वलितो हयग्रीवः ससैन्यः प्रस्थितवान् । त्रिपृष्ठा-ऽचलावपि युयुत्सू प्रस्थितौ रथावर्तगिरि प्रापतुः । उभयोः सैन्यानि तत्र मिथो युयुधिरे । तत्र च सैन्येषु क्षीयमाणेषु तौ सैन्ययुद्धं निषिध्य त्रिपृष्ठा-ऽश्वग्रीवौ रथारूढौ स्वयमयुध्येतात् । तत्र विफलास्त्रोऽश्वग्रीवस्त्रिपृष्ठाय चक्रं मुमोच । उर:स्थले
दशमं पर्व - प्रथमः सर्गः चक्रतुम्बेनाऽऽहतस्त्रिपृष्ठश्च वेगोद्भ्रान्तशरभवत् पर्वतशिखरे पपात । क्षणेनैवोत्थाय च स तेन चक्रेणैव कमलनालवद् हयग्रीवस्य कण्ठं चकर्त।
तदानीं च देवैदिवि पुष्पवर्षणपूर्वकमचल-त्रिपृष्ठौ प्रथमौ बलभद्र-वासुदेवावित्याघोषि । अन्ये च नृपास्तौ प्रणेमुः । तथा ताभ्यां दक्षिणभरतार्धं बलेन साधितम् । तथा त्रिपृष्ठः कोटिशिला शिलामेकेन करेणोत्पाट्य मूनि छत्रवल्लीलयैव धारयामास । ततः साधितभूमण्डलः स पोतनपुरं प्राप्तो देवैर्नृपैश्चाऽर्धचक्रिपदेऽभिषिक्तः ।
अथैकदा गायनश्रेष्ठास्तमुपाययुः । वात्रौ तेषु गायत्सु चैकदा त्रिपृष्ठो "मयि शयाने इमे विस्रष्टव्या" इति शय्यापालमुवाच । शय्यापालश्च त्रिपृष्ठे निद्रितेऽपि गीतलोभात् तान् न व्यसृजत् । त्रिपृष्ठश्च गानशब्दाद् निद्राभङ्गात् कुपित: पृष्टाच्छय्यापालाद् मया गीतलोभाद् नेमे विसृष्टा इति ज्ञात्वा प्रभाते तस्य कर्णयोस्तप्तं त्रपु न्यक्षेपयत् । तेन च शय्यापालो मृतः । त्रिपृष्ठच तेनोग्रकर्मणा वेदनीयं कर्म न्यकाचयत् । तथा सोऽन्यैरपि दुष्कर्मभिर्दुरदृष्टमबध्नात् । एवं महारम्भपरिग्रहरतो हिंसादिष्वविरत: स चतुरशीत्यब्दलक्षीं गमयामास । विपद्य च सप्तमनरकावनावुदपद्यत । अचलश्च तद्वियोगात् प्रव्रज्य विपद्य परमं पदं प्राप । त्रिपृष्ठजीव: पुनर्नरकादुवृत्त्य केसरी भूत्वा विपद्य चतुर्थ नरकं प्राप्य तिर्यङ्-मनुष्यादिभवान् भ्रान्त्वा मानुषं जन्म प्राप्यैकदा शुभं कर्मोपार्जयत् ।
* * * अथ स त्रिपृष्ठजीवोऽपरविदेहेषु मूकायां नगर्यां धनञ्जयनृपस्य पन्या धारिण्याः कुक्षाववातरत् । सा च पूर्णे समये