________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चतुर्दशमहास्वप्नसूचितचक्रिभावं शुभलक्षणोपेतं पुत्रं सुषुवे । तस्य च बालस्य पितरौ प्रियमित्र इति नाम चक्रतुः । तथा स धात्रीभिबल्यमानः क्रमेण वृद्धिमाप ।
अथ धनञ्जयनृपः संसाराद् निर्वेदमाप्य प्रियमित्रं राज्येऽभिषिच्य स्वयं व्रतं गृहीतवान् । प्रियामिव पृथिवीं पालयत: प्रियमित्रस्य च क्रमाच्चतुर्दशमहारत्नानि समजायन्त । तत: स षट्खण्डं भरतक्षेत्रं साधयितुं चक्रमनुसरन् पूर्वदिशं गत्वा मागधं तीर्थं प्राप्याऽष्टमतपः कृत्वा चतुर्थान्ते रथमारुरोह । ततस्स किञ्चिद् गत्वा धनुर्गृहीत्वा मागधकुमारमुद्दिश्य स्वनामाङ्कितं बाणं मुमोच । द्वादशयोजनान्यतिक्रम्य स बाणो मागधेशस्य पुरोऽपतत् । तेन कुपितोऽपि मागधेशस्तत्र बाणे चक्रिनामाङ्कितं विलोक्य शान्त उपहारानादाय प्रियमित्रमुपागम्य तवाऽऽदेशकरोऽस्मीति गगनस्थो ब्रुवन् पूजयामास । चक्री च तं सत्कृत्य विसृज्य च वलित्वा पारणं विधाय मागधेशस्याऽष्टाह्निकोत्सवं चकार ।
तत: प्रस्थाय दक्षिणस्यां वरदामेशं पूर्ववत् साधयित्वा प्रतीच्या गत्वा प्रभासतीर्थेशं साधयित्वा सिन्धुं जगाम । तत्र तदष्टमतपसा सिन्धुः प्रत्यक्षीभूय तस्मै दिव्ये द्वे रत्न-भद्रासने भूषणानि च ददौ । ततः स सिन्धुं सत्कृत्य विसृज्य च चक्रमनुसरन् वैताढ्यं प्राप्याऽष्टमतपो विधाय वैताढ्यकुमारं वशगं विधाय ततः प्रस्थाय तमिस्त्रां गुहां गत्वाऽष्टमतपो व्यघात् सः । तत्र कृतमाल: स्त्रीरत्नयोग्यमाभरणमुपायने चक्रिणे ददौ । चक्रिनिदेशाच्च सेनानीरत्नं चर्मरत्नेन सिन्धुं ती| प्रथमनिष्कुटं साधयित्वाऽऽगत्य चक्रिशासनादष्टमतपो विधाय दण्डरत्नघातात् तमिस्रागुहामुदघाटयत् । ततश्चक्री गजरत्नमारुह्य तत्कुम्भे प्रकाशाय मणिरत्नं
दशमं पर्व - प्रथमः सर्गः स्थापयित्वा तमिस्रां प्रविश्य काकिणीरत्नेन पार्श्वयोर्गुहाप्रकाशाय मण्डलान्यालिखत् । ततो वार्धकिरत्नेन बद्धया पद्यया चोन्मग्ननिमग्नाख्ये नद्यावुत्तीर्य स्वयमुद्धटितेनोत्तरद्वारेण ततो गुहातो निरीयाऽऽपातनाम्न: किरातानजैषीत् । सेनानीरत्नेन च द्वितीयं सिन्धुनिष्कुटमसाधयत् । ___ ततो निवृत्त्य चक्रानुगश्चक्री वैताढ्यमागत्य द्वयोः श्रेण्योर्विद्याधरान् वशगान् विधाय सेनापतिनाऽष्टमतपः कृत्वा गङ्गाप्रथमनिष्कुटं चाऽसाधयत् । तथा स चक्री कृताष्टमतपो गङ्गां साधयित्वा सेनापतिनोद्घाटितकपाटया खण्डप्रपातगुहां कृत्वा वैताढ्यानेनिर्गतवान् । तथा विहिताष्टमतपसस्तस्य चक्रिणो नैसर्पप्रमुखा नवाऽपि निधयो वशगा अभूवन् । तथा स सेनान्या गङ्गाया द्वितीयं निष्कुटं साधयित्वा वशीकृतषटखण्डभरतो निजां मूकां पुरीमागतवान् । ततस्तस्य देवैनरैश्च समहोत्सवं द्वादशवार्षिकश्चक्रित्वाभिषेकश्चक्रे । तथा स नीत्या प्रजाः पालयामास ।
अथैकदा पोट्टिलाचार्य उद्याने समवासरत् । तत्समीपे च स चक्री धर्मं श्रुत्वा विरक्तो राज्ये सुतं न्यस्य प्रव्रज्य कोटिवर्षं यावद् दुष्करं तपस्तेपे । पूर्वलक्षचतुरशीत्यायुः स विपद्य शुक्रे सर्वार्थसिद्धविमाने सुरोऽभवत् ।
अथ ततश्च्युत्वा स प्रियमित्रजीवो भरते छत्रायां नगर्या जितशत्रुनृपस्य पल्या भद्रादेव्या: कुक्षितो नन्दनो नाम पुत्रो बभूव। जितशत्रुश्च प्राप्तयौवनं तं नन्दनं राज्ये न्यस्य विरक्तः प्राव्राजीत् । नन्दनश्च प्रजा: पालयन् जन्मतश्चतुरशीतिवर्षलक्षीमतीत्य