________________
१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः संसारनिविण्णः पोट्टिलाचार्यसमीपे प्रव्रज्यामुपादाय मासोपवासैस्तप उत्कर्षयन् गुरुणा सह विजहार ।
अनतिचारं चारित्रं पालयंश्च स नन्दनमुनिर्वर्षलक्षं तपो विधायाऽर्हद्भक्त्यादिकैविंशतिस्थानकैस्तीर्थकृन्नामकर्मोपार्जयामास । अन्ते च कृतषोढाराधनः पञ्चनमस्कारं स्मरन् षष्टि दिनान्यनशनं विधाय पूर्णपञ्चविंशतिवर्षलक्षायुर्विपद्य प्राणते पुष्पोत्तरनाम्नि विमाने उपपेदे । तत्र चाऽन्तर्मुहूर्ताद् देवो निष्पन्नः स देवदूष्यमपनीयोपविष्टो विमानं देवसमूहं देवर्द्धि च विलोक्य विस्मित: 'केन तपसा मयेदं प्राप्तमि'त्यचिन्तयत् । अवधेश्च पूर्वभवं व्रतपालनं च ज्ञात्वाऽर्हद्धर्मस्यैव प्रभाव इति निश्चिकाय ।
अत्राऽवसरे च देवास्तं बद्धाञ्जलयः प्रोचुः-"स्वामिन् ! चिरं जय, त्वं नः स्वामी, इदं विमानं तव, वयं तवाऽऽदेशधराः, एता देवर्लीरुपभुक्ष्व" । ततः सकलशकरैर्देवैदिव्येन जलेनाऽभिषिक्तोऽलड्कृतश्च व्यवसायसभां गत्वा पुस्तकं वाचयित्वा पुष्पादिकमादाय सिद्धायतनं जगाम । तत्राऽष्टोत्तरशतमहत्प्रतिमा: स्नपयित्वा पूजयित्वा वन्दित्वा समाहितः स्तुत्वा सुधर्मां गत्वा सङ्गीतमकारयत् । एवं तत्र विमाने भोगान् भुञ्जानो यथासुखं विजहार । स जिनकल्याणकेषु विदेहादिषु गत्वा जिनान् ववन्दे । एवं स तत्र विंशतिसागरोपममायुःपर्यन्तेऽपि श्रिया दीप्यमानोऽपूरयत् ॥ १ ॥
द्वितीयः सर्गः अथाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामाख्यो ब्राह्मणसन्निवेशोऽस्ति । तत्र कौडालसकुलोद्भव ऋषभदत्तनामा ब्राह्मणोऽभूत् । तस्य जालन्धरकुलोद्भवा देवानन्दाख्या भार्याऽऽसीत् । नन्दनजीवश्च्युत्वाऽऽषाढशुक्लषष्ठयां चित्रास्थे चन्द्रे तत्कुक्षाववातरत् । सुखं शयाना देवानन्दा च तदानीं चतुर्दश महास्वप्नान् दृष्ट्वा प्रातः पत्ये समाख्यत् । ततः स विचार्याऽवोचत्"वेदपारगः परमनैष्ठिकः पुत्रस्तव भविष्यतीतीमे स्वप्नाः सूचयन्ति"। ततो देवानन्दाकुक्षौ प्रभाववतीर्णे सति द्विजस्य महती समृद्धिर्जाता।
अथ तस्या गर्भ प्रभोळेयशीतिदिवसे जाते सौधर्मेशस्याऽऽसनमकम्पत । तत: सोऽवधिना प्रभुं देवानन्दागर्भगतं ज्ञात्वा सिंहासनात् सद्य उत्थाय नत्वा शक्रो दध्यौ-"लोकगुरवो जिनास्तुच्छ कुले दीनकुले भिक्षुककुले वा न जायन्ते, किन्तु मौक्तिकानि शुक्त्यादिष्विव तीर्थकरा इक्ष्वाकुप्रभृतिक्षत्रियवंशेष्वेवाऽवतरन्ति । तदिदं कर्मप्रभावादहतो नीचकुले जन्म । मरीचिभवे प्रभुणा कुलमदं कुर्वता नीचैर्गोत्राख्यं कर्मोपार्जितम् । कर्मप्रभावाद् नीचकुले जातानपि जिनानुत्तमकुले निवेशितुं मम सर्वदाऽधिकारोऽस्ति ।
अधुना भरते महीमहेलातिलकभूतं मत्पुरमिव क्षत्रियकुण्डग्रामाख्यं नगरं नानाचैत्यशोभितं, धर्माधारभूतमनाचारविहीनं, मुनिभिः
इति दशमे पर्वणि महावीरप्रभुपूर्वभववर्णनात्मकः
प्रथमः सर्गः ॥१॥