________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पवित्रितं, व्यसनिपौरेरस्पृष्टं तीर्थवत् पावनमस्ति । तत्र ज्ञातवंश्य इक्ष्वाकुसन्तानो धर्मपरायणः सप्ततत्त्वज्ञो न्यायपरः पितेव प्रजानां पालको दीनानामुद्धारकः शरणागतवत्सलः क्षत्रियश्रेष्ठः सिद्धार्थो नाम नृपोऽस्ति । तस्य च सतीशिरोमणिः पवित्राशयोत्तमगुणसम्पन्ना मायारहिता निसर्गसरला सुगृहीतनामधेया त्रिशला नामाऽग्रमहिषी वर्त्तते । सा चेदानी गर्भवती वर्त्तते । तद्गर्भसञ्चारणाद् देवानन्दायास्त्रिशलायाश्च गर्भपरिवर्तनं मया विधेयम्" । एवं विचार्य शक्र: शीघ्रं सेनापति नैगमेषिणमाहूय गर्भपरिवर्त्तनं कर्तुमादिदेश । नैगमेषी च शक्राज्ञया तथा चकार । ___ तदानीं च देवानन्दा शयाना पूर्वदृष्टान् चतुर्दश महास्वप्नान् मुखाद् निर्गच्छतो ददर्श । ततः सोत्थाय वक्षस्ताडयन्ती विवर्णा ज्वरपीडिता 'केनाऽपि मे गर्भो हत' इति चिरं विललाप । आश्विनकृष्णत्रयोदश्यां चित्रास्थे चन्द्रे च नैगमेषी प्रभुं त्रिशलागर्भस्थं चकार । तदानीं च त्रिशला चतुर्दशमहास्वप्नान् मुखे प्रविशतो ददर्श । प्रातश्चैन्द्रैः स्वपतिना निमित्तज्ञैश्च स्वप्नफलं ज्ञात्वा सा नितराममोदत ।
अथ तदारभ्य च प्रसन्ना त्रिशला लीलागृहेष्वपि सावधानं विहरमाणा दिव्यं गर्भ बभार । गर्भस्थे प्रभौ चेन्द्राज्ञया जृम्भकदेवाः सिद्धार्थनृपगृहे पुन: पुनर्निधानानि निदधुः । गर्भस्थप्रभुप्रभावात् सर्वमेव ज्ञातकुलं प्रचुरधन-धान्यादिसमृद्धं जातम् । सिद्धार्थनृपस्याऽरिनृपाश्च स्वयमुपायनान्यादायाऽऽगत्य प्रणेमुः । प्रभुश्च मातुर्वेदना मा भूदिति गर्भे निष्परिस्पन्दमस्थात् । तथा प्रभोनिर्व्यापार गर्भेऽवस्थानाद् गर्भोऽस्ति न वेति माताऽपि निश्चेतुं न शशाक ।
दशमं पर्व - द्वितीयः सर्गः
तेन च त्रिशला चिन्तयामास-"मम गर्भो गलित: केनाऽप्यपहृतो विनष्टः स्तम्भितो वा ? यद्येवं तर्हि जीवितेनाऽलम्" । एवमार्तध्यानवशात् सा विश्लथकेशाऽङ्गरागादिविरक्ता, करे कृतमुखपद्माऽऽभरणपरिहीणा, नि:श्वासं मुञ्चन्ती, सखीष्वपि विरतवाग्व्यापारा, भोजनं शयनं च तत्याज । तदुदन्तं विज्ञाय सिद्धार्थनृपस्तत्पुत्रो नन्दिवर्धनः, पुत्री सुदर्शना चाऽखिद्यन्त । ततः प्रभुः पित्रोस्तन्मनोदुःखं विज्ञाय गर्भज्ञानार्थमङ्गली चालयामास । ततस्त्रिशला मद्गर्भोऽक्षत इति विज्ञाय मुदिता सिद्धार्थनृपमपि गर्भस्पदनं निवेद्य मोदयामास ।
अथ गर्भस्थः प्रभुर्दथ्यौ-"अदृष्टेऽपि मयि पित्रोर्महान् स्नेहः, तद्यद्यनयोर्जीवतोतं ग्रहीष्यामि तदा नूनमेतौ स्नेहाख्यमोहादातध्यानमापन्नौ बह्वशुभं कर्मोपार्जयिष्यतः" । ततः सप्तमे मासि प्रभुः पित्रोर्जीवतोः प्रव्रज्यां न ग्रहीष्यामी'त्यभिग्रहं जग्राह ।
अथ त्रिशलादेवी सार्धाष्टमदिनाधिकेषु नवमु मासेषु व्यतीतेषु दिक्षु प्रसन्नासु ग्रहेषूच्चस्थेषु पवनेऽनुकूलं वाति जगत्यानन्दमग्ने शुभशकुनेषु सत्सु चैत्रशुक्लत्रयोदश्यां चित्रागते चन्द्रे सिंहलाञ्छनं स्वर्णवर्णं पुत्रं जनयामास । तदानीं न भोगङ्करादयः षट्पञ्चाशद्दिकुमार्यः समागत्य प्रभोस्तन्मातुश्च सूतिकर्माणि सम्पादयामासुः । शक्रोऽप्यासनकम्पेन प्रभोर्जन्म विज्ञाय सद्यः सपरिच्छदः समाजगाम । जिनं तन्मातरं च दूरत एव प्रणम्य समीपमागत्य देव्या अवस्वापनिकां दत्त्वा तत्पावें प्रभुबिम्ब निधाय पञ्चधाऽऽत्मानं विचक्रे । ततो यथा कल्पं भगवन्तमादाय मेरौ गत्वाऽतिपाण्डुकम्बलायां शिलायां प्रभुमके कृत्वा सिंहासनमधिष्ठितवान् । तथा तत्र प्रभु स्नपयितुमन्येऽपीन्द्राः समागताः ।