________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आभियोगिकदेवैश्च तीर्थादिजलान्यानिन्यिरे । एतावज्जलराशि प्रभुः कथं सहिष्यते ! इति शक्रशङ्कानिरासाय च प्रभुमिपादाङ्गुष्ठेन मेरुं लीलयाऽपीडयत् । तेन च मेरोः शिखराणि प्रभुं नन्तुमिवाऽनमन्, कुलपर्वताश्चाऽकम्पन्त, समुद्रा उच्चैरुच्छलन्ति स्म, पृथिवी च चकम्पे । ततश्च किमेतदिति चकितः शक्रः प्रभोर्लीलामवधिप्रयोगतो जानाति स्म । तेन च "प्रभो ! तवाऽसाधारणं माहात्म्यं मादृशः साधारणो जनः कथं जानातु, तन्मया यदन्यथा चिन्तितं तन्मिथ्यादुष्कृतं भूयादि"ति ब्रुवन् प्रभुं ननाम ।
अनन्तरं च देवेन्द्रैः पवित्रैस्तीर्थोदकैः प्रभोः समहोत्सवं स्नात्रं चक्रुः । सौधर्मेन्द्रोऽपि पश्चात् प्रभुमीशानेन्द्राङ्के निधाय स्नपयित्वा पूजयित्वाऽऽरात्रिकं विदधे । ततो भक्त्या स्तुत्वा च प्रभुमादाय मातुः पार्श्वे निधाय बिम्बमवस्वापनिकां च संहृत्य प्रभोरुपरि क्षौमं वास: कुण्डले श्रीदामगण्डकं च कृत्वा स्वस्थानं जगाम । शक्रादिष्टकुबेरप्रेरिता जृम्भकदेवाश्च सिद्धार्थनृपगृहे स्वर्णादिवसुधारा ववृषुः । नृपश्च पुत्रजन्मोत्सवे लोकान् कारागृहतोऽमोचयत् । तृतीये दिवसे च पितरौ पुत्रस्य चन्द्र-सूर्यबिम्बदर्शनं कारयामासतुः । षष्ठे दिवसे च सधवाभिः कुलाङ्गनाभिर्वेष-भाषारुचिराभिर्नृपो राज्ञी च रात्रिजागरणोत्सवं कारितौ । __अथैकादशेऽह्नि राजा राज्ञी च जातकर्म कृत्वा द्वादशेऽह्नि सर्वान् ज्ञातिबान्धवानाहूय सत्कृतवन्तौ । ततः सिद्धार्थनृपस्तानुवाच"गर्भस्थेऽस्मिन् मम पुत्रे गृहे नगरे देशे च धन-धान्यादिसमृद्धियंवर्धत, तेनाऽस्य वर्धमान इति नामाऽस्तु । तेऽपि चैवमस्त्विति प्रत्यूचुः । शक्रश्च महोपसगैरप्यकम्प्योऽयमिति प्रभोर्महावीर इति नाम चकार ।
दशमं पर्व - द्वितीयः सर्गः
अथ प्रभुभक्तैः सुरा-ऽसुरैः सेव्यमानोऽष्टोत्तरसहस्रलक्षणोपलक्षितः स्वभावतो गुणवृद्धः क्रमाद् वयसाऽपि वृद्धिमाप । एकदा चाऽपूर्णाष्टमवर्षः प्रभुर्वयस्यै राजपुत्रैः क्रीडितुं निर्गतः । तदानीं च शक्रोऽवधिना ज्ञात्वा धीरेषु महावीरः श्रेष्ठ इति प्रभुमवर्णयत् । तदसहिष्णुः कोऽपि सुरो वीरमहं क्षोभयिष्यामीति ध्यात्वा प्रभुक्रीडास्थानमाजगाम ।
राजपुत्रैरामलकी क्रीडां कुर्वाणे प्रभौ च सोऽमरो मायया सीभूय तरोरधस्तात् तस्थौ । ततश्च राजपुत्रेषु त्रसित्वेतस्ततः पलायमानेषु प्रभुः स्मित्वा रज्जुमिव तं सर्पमुत्क्षिप्य भूमौ चिक्षेप । ततः कुमारा: सलज्जा: पुनस्तत्र क्रीडितुमाययुः । सोऽमरोऽपि कुमारीभूय तत्राऽऽययौ । सर्वे च तरुमारुरुहतुः । प्रभुश्चाऽन्यकुमारेभ्य: प्रागेव तरुशिखरं प्राप । तत्र च प्रभुर्मेरुशिखरे सूर्य इव शुशुभे । अन्यकुमाराश्च शाखासु लम्बमानाः कपय इव बभुः । तत्र च क्रीडायां प्रभुजितवान् । 'य इह जयेत् सोऽन्यान् पृष्ठमारुह्य वाहयेदि'ति पणवशाच्च प्रभुः कुमारान् पृष्ठमारुह्याऽवाहयत् । तथा प्रभुस्तस्य सुरस्याऽपि पृष्ठमारुरोह । तत: सोऽमरो भयङ्करं वेतालरूपं विकृत्य पर्वतमपि नीचैः कुर्वन्नवर्धिष्ट । तं च भयङ्करं वर्धनादविरमन्तं प्रभुर्मुष्टिना तत्पृष्टे हत्वा तं वामनमकरोत् । ततः सोऽमरः शक्रवणितां धीरता परीक्ष्य स्वस्वरूपेण प्रभुं नत्वा निजं धाम जगाम ।
अथ पित्रा साधिकाष्टवर्षस्य प्रभोरध्यापने समारब्धे शक्रस्याऽऽसनमकम्पत । ततः शक्रोऽवधिज्ञानतस्तज्ज्ञात्वा जिनस्य शिष्यत्वमयुक्तमिति ध्यात्वा तत्राऽऽगत्योपाध्यायासने प्रभुमुपवेश्य प्रणनाम । प्रभुश्च शक्रप्रार्थनया शब्दपारायणं प्रोवाच । भगवतेन्द्राय