________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
प्रोक्तं च तच्छब्दानुशासनमुपाध्यायः श्रुत्वा लोकेष्वैन्द्रमिदं शब्दानुशासनमिति कथयामास ।
२०
अथ प्रभुः क्रमात् सप्तहस्तोन्नतशरीरो यौवनं प्राप । भगवतश्चाऽद्भुतं रूपं त्रिजगत्प्रभुत्वं नवं यौवनं चाऽपि विकाराय न प्राभवन् । इतश्च समरवीरो नृपो वर्धमानाय प्रदातुं निजां यशोदां नाम कन्यां मन्त्रिभिः सह प्रेषितवान् । मन्त्रिणश्चाऽऽगत्य नत्वा सिद्धार्थनृपमूचुः'समरवीरो नः स्वामी वर्धमानाय प्रदातुं निजां कन्यां प्राहिणोत् मम स्वामी भवतो भृत्यः, तदनेन सम्बन्धेन तमनुगृहाण' । ततः सिद्धार्थनृप उवाच- 'कुमारोद्वाहाय मम त्रिशलायाश्च भूयान् मनोरथोऽस्ति, परन्तु कुमारो जन्मतः संसारविरक्तो विवाहार्थं वक्तुमपि न शक्यते, तथाऽपि युष्माकमनुरोधात् तन्मित्रमुखेन विवाहार्थं कथयामि । एवमुक्त्वा स त्रिशलादेवीमापृच्छ्य वर्धमानं प्रतिबुद्धिशालिनस्तत्सुहृदः प्रेषयामास । ते च गत्वा नत्वा वर्धमानाय सिद्धार्थनृपाज्ञां सविनयमूचुः ।
ततः प्रभुरुवाच- 'यूयं मम सखायो विषयविरक्तं मम मनोभावं जानीथैव' । ततस्ते ऊचु: - ' भवतो भवोद्विग्नं मनो जानीमः, तथा पित्रोराज्ञाऽलङ्घ्येत्यपि जानीमः अस्माकं प्रार्थनया चाऽप्येतत् स्वीकुरु' । ततः प्रभुरुवाच- 'अयमाग्रहो भवतो न युक्तः, यतो दारादिपरिग्रहो भवबाहुल्यहेतुः पित्रोर्दुःखं मा भूदित्यधुनैव न प्रव्रजामि' । अत्राऽवसरे च नृपाज्ञया त्रिशलादेवी स्वयं तत्रा - ऽऽजगाम । प्रभुश्चाऽभ्युत्थाय स्वमातरं रत्नसिंहासन उपवेश्योवाच'मातर्दिष्ट्या त्वमागम:, आगमनकारणं ब्रूहि, आहूतः सन्नहं स्वयमेव तवाऽन्तिकमायामि' । ततस्त्रिशलोवाच- 'मम गृहे तवाऽवतारो
दशमं पर्व द्वितीयः सर्गः
नोऽनल्पपुण्यादेव । त्वद्दर्शनं जगतां मुदे, किम्पुनरस्माकम् ? त्वं संसारविरक्तोऽप्यस्मास्वनुकम्पया गृहे तिष्ठसि स्वमनोवृत्तिनिरोधात्मकं तवैतत् कर्म सुदुष्करं न चैतावतैवाऽस्माकं तृप्तिः । त्वां वधूयुक्तं द्रष्टुमिच्छामि तद्यशोदां परिणीय नो मनोरथान् पूरय, त्वत्पितुरप्येषोत्कण्ठा, “तदावयोराग्रहादेतदनुमन्यस्व” ।
ततः प्रभुर्दध्यौ -"अद्यैतत् किं जातम् ? इतः पित्रोराग्रह इतश्च भवभ्रमणभयं, गर्भेऽपि मातुर्दुःखं मा भूदिति गृहवासे स्थास्यामीत्यभिग्रहोऽपि गृहीतः, भोगफलं कर्म चाऽवशिष्यते, पितरौ च मान्यौ " । एवं विमृश्य प्रभुर्मातुराज्ञामनुमेने । तेन च प्रमुदिता त्रिशला सद्यो गत्वा नृपाय तद्वृत्तमाख्यत् । ततो नृपः समहोत्सव शुभे दिने यशोदा - महावीरयोर्विवाहं कारयामास । तद्वधू-वरं पश्यन्तौ च त्रिशला - सिद्धार्थौ नितरां मुमुदाते । प्रभुश्चाऽनासक्तो यशोदया सह वैषयिकं सुखमन्वभूत् ।
अथ कियत्यपि काले गते प्रभोर्यशोदायां प्रियदर्शना नाम सुरूपा कन्या जाता । तां च प्राप्तयौवनां राजपुत्रो जमालिः परिणिनाय । प्रभोर्जन्मतोऽष्टाविंशे वर्षे पितरौ कृतानशनौ विपद्याऽच्युतकल्पं जग्मतुः । तयोर्जीवौ च ततश्च्युत्वाऽपरविदेहे परमं पदं
प्राप्स्यतः ।
* * *
अथ पित्रोरौर्ध्वदैहिके कर्मणि जाते शोकमग्नं नन्दिवर्धनं प्रभुरुवाच- 'मृत्युः सदा सन्निहितो, जीवितमस्थिरं तदस्मिन्नवसरे शोकेनाऽलम् । इदानीं धैर्यमालम्ब्य धर्मानुष्ठानमेव युज्यते' । प्रभुणैवं बोधितो नन्दिवर्धनः स्वस्थो भूत्वा प्रभुं राज्यग्रहणाय