Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ ६६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बद्धाञ्जलिरुवाच-प्रभो ! सुदुःसहान् परीषहानुपसर्गाश्चाऽसहिष्ठाः, ततस्ते शरीरं मनश्च वज्रसारं मन्ये । इदानीं तव केवलज्ञानं समीपमेव वर्त्तते" । एवमुक्त्वा स आनन्दो वीरजिनं पुनर्नत्वा स्वगृहं जगाम । अथ प्रभुस्तत्र कायोत्सर्ग पारयित्वा ततो विहृत्य श्रावस्त्यामागत्य दीक्षातो दशमं प्रावृट्कालं गमयामास । तत्र च पुराद् बहि: पारणां विधाय सानुयष्टिकं ग्रामं गत्वा वीरजिनो भद्रां प्रतिमां प्रपन्नवान् । तत्र प्रतिमायां कृतानशनः प्रभुः पूर्वं पूर्वाभिमुख एकपुद्गलविन्यस्तदृष्टिः सकलं दिनं तस्थौ । ततो रात्रौ दक्षिणाभिमुख: पुनदिने पश्चिमाभिमुखस्ततो रात्रौ उत्तराभिमुख इत्येवं षष्ठेन प्रतिमां चकार । पारणामकृत्वैव च प्रभुर्महाभद्राप्रतिमामाश्रित्य चतुरहोरात्री पूर्वादिदिशा क्रमात् तस्थौ । एवं दशमेन महाभद्राप्रतिमां चकार । ततो वीरजिनो द्वाविंशतितमेन सर्वतोभद्रां प्रतिमां प्रपेदे । तत्र प्रत्येकमप्यहोरात्रं दशसु दिशास्वपि तस्थौ । किन्तु तत्रोधिोद्रव्याण्यूाधोदिशो निर्दधौ । तदेवं तिस्रोऽपि प्रतिमा विधाय पारणार्थं प्रभुरानन्दश्रावकगृहं प्रविवेश । तदानीं च तत्र बहुलादासी भाण्डानि क्षालयन्ती पर्युषितं भक्तं त्यक्तुकामा प्रभुमागतं दृष्ट्वा कि तुभ्यं कल्पते इत्यपृच्छत् । प्रभुणा च प्रसारिते करे सा भक्त्या तदन्नं ददौ । प्रभुश्च तेनाऽन्नेन पारणं चकार । तेन प्रसन्नाश्च देवास्तत्र पञ्च दिव्यानि चक्रुः । सर्वो जनश्च मुमुदे । राज्ञा च तदैव बहुला दासीभावाद् मुक्ता । अथ प्रभुर्विहरन् म्लेच्छाकीर्णां दृढभूमिं प्राप्य तत्र पेढालग्राम समया पेढालोद्याने कृताष्टमतपा: पोलासं चैत्यं प्रविवेश । तत्र जन्तुरहिते शिलातले निनिमेषो रूक्षकद्रव्यदत्तदृष्टिरेकरात्रिक्या दशमं पर्व - चतुर्थः सर्गः महाप्रतिमया तस्थौ । तदानीं च शक्र: सुधर्मायां निजपरिजनपरिच्छदसुरैः परिवेष्टितः सङ्गीतकैः कालं नयन्नवधिज्ञानतः प्रभु तथास्थितं ज्ञात्वा यथाकल्पं नत्वा शक्रस्तवेन स्तुत्वा च सकलां सभामुद्दिश्योवाच-"समित्यादिगुणसमग्रो विषयनिःस्पृहो रूक्षकपुद्गलदत्तदृष्टिानस्थः प्रभु-रजिनस्त्रिलोक्यां कैरपि ध्यानाच्चालयितुमशक्यः " । शक्रस्य तद्वचः श्रुत्वा शक्रसामानिको देवोऽभव्यो मिथ्यादृष्टिः सङ्गमः कोपादुवाच-"मर्त्यः श्रमणकोऽयं किं वर्ण्यते ? सुराणामतुलबलप्रभावाणां यथाक्रमं सिद्धिसमग्राणां पुरः कियानयं मानव: ? एषोऽहं तं ध्यानाच्चालयिष्यामि" । एवमुक्त्वा स सङ्गमसुरः सभामण्डपादुत्थितवान् । जिना अन्यसाहाय्यादविघ्नं तपश्चरन्तीति कोऽपि मा ज्ञासीदिति शक्रस्तमुपेक्षितवान् । सङ्गमसुरश्च रौद्राकृतिर्भयङ्करो वेगाद् गत्वा वीरजिनं तथास्थितं दृष्टा प्रवृद्धमत्सरः प्रभोरुपरि पांसुवृष्टि ततान । प्रभुश्च तेन पांसुपुञ्जेन सर्वाङ्गमाच्छादितो निरुद्धसर्वेन्द्रियो निःश्वासोच्छ्वासयोरप्यसमर्थोऽपि तिलमात्रमपि ध्यानाद् न विचलितः । तत: स पांसुवृष्टि मुक्त्वा वज्रमुखाः पिपीलिका विकृत्य ताभिः प्रभोः सर्वाङ्ग पीडयामास । ततोऽपि चाऽक्षुब्धे ध्यानैकताने प्रभौ स दंशान् विचकार । दंशदंशैश्च क्षीरधारासहोदरैः स्रवद्भिरसृग्भिः प्रभुर्निझरैः पर्वतराज इव बभौ। एवमपि निष्कम्पध्यानस्थे प्रभौ स मन्दमति: सुरः प्रचण्डमुखसूच्यो घृतेलिका विचकार । ताभिविद्धोऽपि प्रभुानाद् न व्यचलत् । ततः स दुष्टो विभोर्ध्यानभङ्गार्थं कृतनिश्चयो महावृश्चिकान् विचकार । ते वृश्चिकाश्च पुच्छाङ्कुरकण्टकैर्वीरजिनशरीरं बिभिदुः । ततोऽपि वीरजिने

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147