Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तेन तथा ते शलाके ताडिते यथा ते मिलिते अखण्डैकशलाकत्वं प्रापतुः । एतौ कीलको कोऽपि मा कृषदिति स मन्दधीस्तत्कीलक बहिरंशं छित्त्वा जगाम। प्रभुश्च कर्णयोः पीडितोऽपि शुभध्यानादचलितो धर्मध्यानं प्राप। पारणार्थं च प्रभुः सिद्धार्थवणिग्गेहं प्राप्तस्तेन भक्त्या प्रतिलाभितः । तत्र सिद्धार्थस्य मित्रं पूर्वायातो वैद्यः खरकः प्रभुं दृष्ट्वोवाच-"अहो ! प्रभोः समग्रलक्षणा मूर्तिम्ानत्वेन शल्यवती लक्ष्यते । ततः सम्भ्रमात् सिद्धार्थे भगवतो देहे क्व शल्यमिति सम्यङ् निरूपये"त्युक्तः स वैद्यः सम्यक् पश्यन् प्रभोः कर्णयोः कीलौ ददर्श । सिद्धार्थस्याऽपि तददर्शयच्च । ततः सिद्धार्थ उवाच-"केनाऽपि क्रूरेणेदं कर्म कृतं, तच्छल्योद्धाराय यत्नं कुरु । प्रभोः कर्णयोः पीडा हि ममैव पीडेति मन्ये'। ततो वैद्य उवाच-"प्रभुः कर्मक्षयायैवाऽपकारिणमुपैक्षिष्ट नाऽशक्त्या । अयं च देहेऽपि निर्ममः कथं चिकित्स्यः, य: पीडां कर्मनिर्जरार्थमिष्टां मन्यते ?" तत: सिद्धार्थः पुनरुवाच-"नाऽयं विवादावसरः, चिकित्सैव खलु कर्त्तव्या । तयोरेवं वदतोश्च प्रभुनिरपेक्षत्वात् ततो गत्वा बहिरुद्याने शुभध्यानमग्नस्तस्थौ । तौ च सिद्धार्थ-खरको भेषजादिकं गृहीत्वा तदुद्याने भगवन्तमुपजग्मतुः । ___ततस्तौ प्रभुं तैलद्रोण्यामुपवेश्य तैलेनाऽभ्यज्य च बलवद्भिः संवाहकैरमर्दयताम् । तन्मर्दनात् सन्धिषु श्लथेषु सत्सु तौ संदंशाभ्यां युगपत् कर्णकीलकावकृष्येताम् । ततोऽवशिष्टं वेदनीयं कर्मेव प्रभोः कर्णविवरयोः सरुधिरं कीलद्वयं निर्ययौ । कीलकर्षणेन च तथा वेदना जाता यथा प्रभुर्वजाहतपर्वत इव भीषणारावं ररास । ततस्तौ सिद्धार्थ दशमं पर्व - चतुर्थः सर्गः ८७ खरको संरोपणभेषजेन को रोपयित्वा प्रभुं प्रणम्य क्षमयित्वा च स्वगृहं जग्मतुः । एवं प्रभोर्वेदनाकरावपि तौ देवश्रीभाजनमभूताम् । दु(ोपालश्च स्वामिवेदनानिमित्तं सप्तमनरकदुःखभाजनमभूत् । प्रभोभैरवारावाच्च तदुद्यानं महाभैरवमिति प्रथितम् । लोकाश्च तत्र देवकुलं विदधुः। तदेवं प्रभोः सर्वेषूपसर्गेषु सर्वजघन्यषूत्कृष्टं कटपूतनाशीतं, मध्यमं कालचक्रं, शलाकोद्धरणं चोत्कृष्टम् । गोपारब्धाश्चोपसर्गा गोपेनैव पर्यवसिताः । तथा प्रभोश्चतुर्मासक्षपणानि नव, द्विमासिकानि षट्, मासक्षपणानि द्वादश, अर्धमासक्षपणानि द्विसप्ततिः, एकं षण्मासीक्षपणं, त्रिमासिकं द्वयं, सार्धमासिकं द्वयं, सार्धद्विमासिकं द्वयं, भद्रादिप्रतिमात्रयं चाऽभूवन् । तथैकमभिग्रहयुक्तं दिनपञ्चकन्यून षाण्मासिकं क्षपणमभूत् । चरमायां रात्रौ कायोत्सर्गयुक्ता अष्टमभक्तत एकरात्रिक्यो द्वादश प्रतिमाः, एकोनत्रिंशदधिके द्वे षष्ठशते च प्रभोरभूवन् । नित्यभक्तं चतुर्थं च कदाऽपि नाऽभूत् । तथैकोनपञ्चाशं पारणादिनं शतत्रयमभूत् । एवं प्रभोव्रतदिनात् सपक्षिका सार्द्धा द्वादशाब्द्यभूत् । एवं प्रभुर्जलरहितं सर्वं तपश्छद्मस्थो विधायोपसर्ग सहमानो विहरन् ऋजुपालिकया महत्या नद्या शोभितं जृम्भकसन्निवेशं जगाम ॥ ४॥ इति दशमे पर्वणि श्रीमहावीरद्वितीयषड्वर्षछास्थविहार वर्णनात्मकः चतुर्थः सर्गः ॥४॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147