Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पतितस्तामपि रोदयन् रुरोद । नृपेण किं रोदिषीति पृष्टश्च स उवाच"इयं धारिणी-दधिवाहनयोः पुत्री नष्टविभवा पितृभ्यां हीना दासीवदन्यगृहे वसतीति रोदिमि" । ___ततो नृप उवाच-"इयं न शोच्या, यया सम्पूर्णाभिग्रहो वीरजिन: प्रतिलाभितः" । ततो मृगावत्युवाच-"धारिणी मम स्वसा, तदियं बाला ममाऽपि दुहिता । प्रभुश्च दिनपञ्चकन्यूनषण्मासीतपःपारणं कृत्वा धनावहगृहाद् निर्जगाम । शक्रश्च शतानीकं लोभाधिक्याद् वसुधारां ग्रहीतुमुद्यतमुवाच-"नेह तव स्वामित्वम्, इयं कन्या यस्मै वसुधारां ददाति स एव लभते" । ततो नृपेण को वसुधारां गृह्णात्विति पृष्टा चन्दनोवाच-"अयं धनावहः श्रेष्ठी पालनाद् मम पिता, स एव गृहात" । ततः श्रेष्ठी तां वसुधारामाददे ।
ततः शक्रः पुन शतानीकनृपमुवाच-"विषयविरक्तेयं बाला चमरदेहा वीरस्य केवले जाते प्रथमा शिष्या भविष्यति, तदेषा प्रभोः केवलोत्पत्तिं यावत् त्वया पालनीया" । एवमुक्त्वा शक्रः प्रभु प्रणम्य स्वं धाम ययौ । शतानीकश्च चन्दनां स्वान्तःपुरं निनाय । तत्र च सा प्रभोः केवलोत्पत्तिं ध्यायन्ती तस्थौ । मूला चाऽनर्थकारिणी श्रेष्ठिना निर्वासिता दुर्थ्यांना विपद्य नरकं जगाम ।
दशमं पर्व - चतुर्थः सर्गः स्वयमेव च्छिन्नमूर्धा जातः । ततो विहरन् वीरजिनश्चम्पापुरीं प्राप्य स्वातिदत्तद्विजस्याऽग्निहोत्रशालायां द्वादशी प्रावृट्चतुर्मासीमुपोषितस्तस्थौ ।
तत्र च महर्द्धिको पूर्णभद्र-माणिभद्रौ यक्षौ प्रत्येकं रात्रिमागत्य प्रभुं पूजयतः स्म । ततः स्वातिदत्तो दध्यौ-किमसौ देवार्यः किमपि वेत्ति, यदमु प्रति रात्रि देवाः पूजयन्ति ?" एवं विचिन्त्य जिज्ञासुः स आगत्य प्रभुं पप्रच्छ-"देहे मस्तकाद्यङ्गपूर्णे को जीव उच्यते ?" ततः प्रभुरुवाच-"योऽहमिति मन्यते स जीवः" । ततो द्विजेन 'सोऽपि क' इति पृष्टः प्रभुरुवाच-"स देहभिन्नः सूक्ष्मः" । तत: 'सूक्ष्मोऽपि स क' इति द्विजेन पृष्टः प्रभुः "इन्द्रियैरग्राह्यः स" इत्युक्तः प्रभुं तत्त्वज्ञं ज्ञात्वा भक्त्या पूजयामास । प्रभुणा भव्य इति कृत्वा प्रतिबोधितः ।
चतुर्मास्यां गतायां च प्रभुजृम्भिकाग्रामं गतः । शक्रश्च नाटकं दर्शयित्वा प्रभुमुवाच-"प्रभो ! अद्य प्रभृति कतिभिरेव दिनैः केवलज्ञानं भवतो जायेत" । एवमुक्त्वा च शक्रः प्रभुं नत्वा स्वस्थानं जगाम । वीरप्रभुश्च मेण्ढकग्रामं जगाम । तत्र च चमरेन्द्रः समेत्य प्रभुं नत्वा सुखविहारं पृष्ट्वा स्वं भवनं जगाम ।।
अथ प्रभुः षण्मानि नामधेयं ग्रामं गत्वा बहि: कायोत्सर्गेण ध्यानमग्नस्तस्थौ । तदानीं च प्रभोविष्णुभवार्जितं शय्यापालकर्णयोस्तप्तत्रपुक्षेपजं वेद्यं कर्मोदीर्णम् । शय्यापालजीवश्च तत्र गोपालो जातः । प्रभोः समीपे वृषभान् मुक्त्वा सो दोहाद्यर्थं ययौ । वृषभाश्च चरन्तो वनं विविशुः । क्षणादागतो गोपालश्च वृषभानदृष्ट्वा प्रभुं पप्रच्छ । प्रभुश्च न किमप्युवाच । तेन क्रुद्धः स प्रभोः कर्णयोः काशशलाके चिक्षेप । तथा
अथ विहरन् प्रभुः सुमङ्गलं ग्रामं प्राप्तः सनत्कुमारेन्द्रेणाऽऽगत्य वन्दितः । ततश्च विहरन् प्रभुः सत्क्षेत्रसन्निवेशं गतो माहेन्द्रकल्पेन्द्रेणैत्य भक्त्या वन्दितः । ततः पालकग्रामं गतः प्रभुर्यात्रायै प्रस्थितेन भायालेन वणिजा दृष्टो-असौ भिक्षुरशकुनमित्यस्य मूर्धन्यसि क्षिपामी"ति प्रभुं हन्तुं धावित: सिद्धार्थव्यन्तरेण

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147