________________
६६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः बद्धाञ्जलिरुवाच-प्रभो ! सुदुःसहान् परीषहानुपसर्गाश्चाऽसहिष्ठाः, ततस्ते शरीरं मनश्च वज्रसारं मन्ये । इदानीं तव केवलज्ञानं समीपमेव वर्त्तते" । एवमुक्त्वा स आनन्दो वीरजिनं पुनर्नत्वा स्वगृहं जगाम ।
अथ प्रभुस्तत्र कायोत्सर्ग पारयित्वा ततो विहृत्य श्रावस्त्यामागत्य दीक्षातो दशमं प्रावृट्कालं गमयामास । तत्र च पुराद् बहि: पारणां विधाय सानुयष्टिकं ग्रामं गत्वा वीरजिनो भद्रां प्रतिमां प्रपन्नवान् । तत्र प्रतिमायां कृतानशनः प्रभुः पूर्वं पूर्वाभिमुख एकपुद्गलविन्यस्तदृष्टिः सकलं दिनं तस्थौ । ततो रात्रौ दक्षिणाभिमुख: पुनदिने पश्चिमाभिमुखस्ततो रात्रौ उत्तराभिमुख इत्येवं षष्ठेन प्रतिमां चकार । पारणामकृत्वैव च प्रभुर्महाभद्राप्रतिमामाश्रित्य चतुरहोरात्री पूर्वादिदिशा क्रमात् तस्थौ । एवं दशमेन महाभद्राप्रतिमां चकार ।
ततो वीरजिनो द्वाविंशतितमेन सर्वतोभद्रां प्रतिमां प्रपेदे । तत्र प्रत्येकमप्यहोरात्रं दशसु दिशास्वपि तस्थौ । किन्तु तत्रोधिोद्रव्याण्यूाधोदिशो निर्दधौ । तदेवं तिस्रोऽपि प्रतिमा विधाय पारणार्थं प्रभुरानन्दश्रावकगृहं प्रविवेश । तदानीं च तत्र बहुलादासी भाण्डानि क्षालयन्ती पर्युषितं भक्तं त्यक्तुकामा प्रभुमागतं दृष्ट्वा कि तुभ्यं कल्पते इत्यपृच्छत् । प्रभुणा च प्रसारिते करे सा भक्त्या तदन्नं ददौ । प्रभुश्च तेनाऽन्नेन पारणं चकार । तेन प्रसन्नाश्च देवास्तत्र पञ्च दिव्यानि चक्रुः । सर्वो जनश्च मुमुदे । राज्ञा च तदैव बहुला दासीभावाद् मुक्ता ।
अथ प्रभुर्विहरन् म्लेच्छाकीर्णां दृढभूमिं प्राप्य तत्र पेढालग्राम समया पेढालोद्याने कृताष्टमतपा: पोलासं चैत्यं प्रविवेश । तत्र जन्तुरहिते शिलातले निनिमेषो रूक्षकद्रव्यदत्तदृष्टिरेकरात्रिक्या
दशमं पर्व - चतुर्थः सर्गः महाप्रतिमया तस्थौ । तदानीं च शक्र: सुधर्मायां निजपरिजनपरिच्छदसुरैः परिवेष्टितः सङ्गीतकैः कालं नयन्नवधिज्ञानतः प्रभु तथास्थितं ज्ञात्वा यथाकल्पं नत्वा शक्रस्तवेन स्तुत्वा च सकलां सभामुद्दिश्योवाच-"समित्यादिगुणसमग्रो विषयनिःस्पृहो रूक्षकपुद्गलदत्तदृष्टिानस्थः प्रभु-रजिनस्त्रिलोक्यां कैरपि ध्यानाच्चालयितुमशक्यः " ।
शक्रस्य तद्वचः श्रुत्वा शक्रसामानिको देवोऽभव्यो मिथ्यादृष्टिः सङ्गमः कोपादुवाच-"मर्त्यः श्रमणकोऽयं किं वर्ण्यते ? सुराणामतुलबलप्रभावाणां यथाक्रमं सिद्धिसमग्राणां पुरः कियानयं मानव: ? एषोऽहं तं ध्यानाच्चालयिष्यामि" । एवमुक्त्वा स सङ्गमसुरः सभामण्डपादुत्थितवान् । जिना अन्यसाहाय्यादविघ्नं तपश्चरन्तीति कोऽपि मा ज्ञासीदिति शक्रस्तमुपेक्षितवान् । सङ्गमसुरश्च रौद्राकृतिर्भयङ्करो वेगाद् गत्वा वीरजिनं तथास्थितं दृष्टा प्रवृद्धमत्सरः प्रभोरुपरि पांसुवृष्टि ततान । प्रभुश्च तेन पांसुपुञ्जेन सर्वाङ्गमाच्छादितो निरुद्धसर्वेन्द्रियो निःश्वासोच्छ्वासयोरप्यसमर्थोऽपि तिलमात्रमपि ध्यानाद् न विचलितः ।
तत: स पांसुवृष्टि मुक्त्वा वज्रमुखाः पिपीलिका विकृत्य ताभिः प्रभोः सर्वाङ्ग पीडयामास । ततोऽपि चाऽक्षुब्धे ध्यानैकताने प्रभौ स दंशान् विचकार । दंशदंशैश्च क्षीरधारासहोदरैः स्रवद्भिरसृग्भिः प्रभुर्निझरैः पर्वतराज इव बभौ। एवमपि निष्कम्पध्यानस्थे प्रभौ स मन्दमति: सुरः प्रचण्डमुखसूच्यो घृतेलिका विचकार । ताभिविद्धोऽपि प्रभुानाद् न व्यचलत् । ततः स दुष्टो विभोर्ध्यानभङ्गार्थं कृतनिश्चयो महावृश्चिकान् विचकार । ते वृश्चिकाश्च पुच्छाङ्कुरकण्टकैर्वीरजिनशरीरं बिभिदुः । ततोऽपि वीरजिने