________________
६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पूर्ववदेवाऽक्षुब्धे स्थिते स दुरभिसन्धिः सुरस्तीक्ष्णदंष्ट्रान् नकुलान् विचकार । ते नकुलाश्च खिखीतिशब्दायन्तो दशनैर्विदार्य प्रभुशरीराद् मांसखण्डानकृन्तन् । तथा सत्यपि ध्यानादचलिते प्रभौ मोघश्रमः स सुरः प्रभुमापादमस्तकं विकृतैर्भयङ्करैर्दीर्घभोगैर्भोगिभिरवेष्टयत् ।
तेषु सर्वेष्वपि श्रान्तेषु स कुबुद्धिर्देवो वज्रदन्तान् मूषकान् विचकार । ते मूषकाश्च प्रभोरङ्गानि नखदन्तादिभिर्ददंशुः। क्षते मूत्रणेन कृत्वा क्षारं निचिक्षिपुश्च । ततोऽपि विफलमनोरथः स सुराधमो भयङ्करं गजरूपं विकृत्याऽधावत । प्रभुं शुण्डाग्रेण गृहीत्वा च स प्रमत्तो गजः प्रभुं नभसि चिरमुल्लालयित्वा"ऽसौ विशीर्यकणशो भवत्वि"ति दुराशयेन दन्तावुत्क्षिप्य नभस: पतन्तं प्रतीच्छति स्म । भूमौ पतितं च प्रभुं स दन्ताघातेन मुहुर्मुहुविध्यति स्म । एवमपि स्थिरध्यानस्थे प्रभौ स करिणीं विचकार । सा च प्रभुं दन्ताभ्यां विभिद्य विषेणेव स्वशरीरजलेन सिषेच ।
पुनश्च स सुरः करेणुद्रव्यादेव विकृताकारं ज्वालाजालभीषणं विवृतास्यं पिशाचं विचकार । स पिशाचश्च कृताट्टहासश्चर्मवस्त्रकत्रिकाधरः प्रभुमुपाद्रवत् । तस्मिन्नप्युपशान्ते च स देवः क्रोधाध्मातो व्याघ्ररूपं विचकार । स च व्याघ्रः पुच्छं चालयन् बूत्कारदारुणो दंष्ट्राभिर्नखैश्च प्रभुशरीरं पीडयामास । तस्मिन् व्याघ्रऽपि विफले स देवहतक: सिद्धार्थनृपरूपं विचकार । "भवता किमेतदतिदुष्करमारब्धं, प्रव्रज्यां त्यज, अस्माकं प्रार्थनां न मोघां कुरु, मां वार्धकेऽशरणं नन्दिवर्धनस्तत्याजे"त्युवाच च । तेन सुरेण विकृता त्रिशलाऽप्येवं मुहुर्मुहुर्विललाप । तयोविलापैरप्यचलिते प्रभौ स दुर्धीः सुरः स्कन्धावारं विकृतवान् । तत्र च पाचक ओदनपाकार्थं चुल्लीस्थाने शिलां विहाय प्रभोः पादौ कृत्वा
दशमं पर्व - चतुर्थः सर्गः पाकस्थाली न्यवेशयत् । तथा तेन तत्क्षणं ज्वालितोऽग्निः प्रभोः पादमूले प्रजज्वाल । तेन तप्तस्याऽपि प्रभोः स्वर्णस्येव न श्रीहानिर्जाता ।
ततः स देवहतको घोरारावं चाण्डालं विचकार । स चाण्डालश्च वीरजिनस्य कण्ठे कर्णयोर्भुजयो वयोश्च लघुपक्षिपञ्जराणि लम्बयामास । तेन च प्रभोः शरीरं लम्बितपक्षिचञ्चु-नखाघातैविदीर्णं पञ्जरमिव छिद्रशतसङ्कलं जातम् । तेनोपसर्गेणाऽप्यक्षुब्धे प्रभौ स देवो महोत्पातकरं तीव्रवेगं झज्झावातं विचकार । स वातश्च वृक्षानुन्मूल्य नभसि क्षिपन् पांसुभिावापृथिव्यौ पूरयन् प्रभुमुत्पाट्योत्पाट्य पातयति स्म । प्रभुश्च तथाऽपि ध्यानाद् न चचाल ।
ततः स सुर आवर्तिमहाव्रातं विकृत्य चक्रस्थमृत्पिण्डमिव प्रभुं भ्रमयामास । तेनाऽपि च प्रभुन चकम्पे । तत: स सुराधमो दध्यौ-"अयं वज्रवदृढमना: कथमपि न क्षुभ्यति, अहं च भग्नवाक् कथं सुधर्मां यामि । अस्य प्राणनाशेनैव ध्यानं भक्ष्यति नाऽन्यथा" । एवं ध्यात्वा स सङ्गमसुरः कालचक्रं विकृत्य लौहभारसहस्रघटितं रावण: कैलासमिवोद्धृत्य प्रभोरुपरि चिक्षेप । तच्चक्रं च ज्वालाजालैर्भयङ्करं समुद्रे वडवानल इव प्रभोरुपरि पपात । तच्चक्रप्रहारतश्च प्रभुराजानु पृथिव्यामन्तर्मग्नवान् । एवं स्थितोऽपि प्रभुस्तस्येदं कर्म शुशोच ।
अथ सुरो दध्यौ-"अयं कालचक्रहतोऽपि न विपन्नवान् । तदसौ न शस्त्रास्त्रसाध्यः । कदाचिदनुकूलैरुपसर्गः क्षुभ्येत्" । एवं विचार्य च देवोऽनुकूलानुपसर्गाश्चकार । स दुष्टमतिर्देवस्तत्क्षणं प्रकाशमानदिशं पक्षिरवमनोहरं प्रातःकालं विचकार । प्रभुश्च तां दैवीं