________________
७०
७१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मायां मन्यमानो ध्यानं न मुमोच । ततः स देवः किरीट-हारादिविभूषितो विमानस्थः पुरोभूय प्रभुमुवाच-"महामुने ! तव प्राणेष्वप्यनपेक्षया दृढप्रतिज्ञया तपसा बलेन सत्त्वेन च प्रसन्नोऽस्मि । यथेष्टं याचस्व, त्वां स्वर्ग मोक्षं वा प्रापयामि, चक्रित्वं वा ते यच्छामि" ।
एवं प्रलोभनावाक्यैरदत्तप्रतिवचस्यक्षुब्धे प्रभौ सोऽमरः पुनर्दध्यौ-"अनेन मम सर्वं बलाम्बरं विफलीकृतम्, इदानीं कामशासनमेवाऽमोघं यदि स्यात् । कामिनीकटाक्षताडिता महापुरुषा अपि व्रतं त्यजन्ति" । एवं विचार्य च स देवो मनसा देवाङ्गना आदिष्टवान् । कामसहायान् षड्ऋतूनपि प्रेरयामास । ऋतुषु प्रादुर्भूतेषु च तत्र देवाङ्गनाः प्रादुर्भूय प्रभोः पुरः सङ्कीतकं चक्रुः । प्रभु क्षोभयितुं च विविधहावभावं प्रदर्शयामासुः । काश्चिच्च मदनपीडिता इव त्यक्तं कामयाचनां चक्रुः" । किन्तु प्रभुः कथमपि क्षोभं न जगाम । स देव उक्तरीत्या कायोत्सर्गस्थे प्रभौ विंशतिमुपसर्गान् चकार ।
अथ प्रातः सङ्गमसुरो दध्यौ-"अहो ? असौ मर्यादायाः सागर इव ध्यानाद् मनागपि न चचाल । तदभ्रष्टवाक कि स्वर्ग यामि ? तदहं चिरं स्थित्वाऽमुमुपसर्गः क्षोभयिष्यामि" । भगवान् वीरश्च सूर्योदये जाते वालुकाख्यं ग्राम प्रति विजहार । सङ्गमसुरश्च मार्गे चौराणां पञ्चशतीं प्रोचैर्वालुकां च विचकार । ते चौराश्च मातुल ! मातुल ! इति जल्पन्तः प्रभुं तथाऽऽश्लिष्यन्ति स्म यथाऽद्रिरपि पिष्टः स्यात् । प्रभुश्च वालुकायां जानुदघ्नं मज्जत्पादोऽपि वालुकाग्रामं जगाम । स दुर्बुद्धिर्देवश्च पुरे ग्रामे वनेऽन्यत्राऽपि
दशमं पर्व - चतुर्थः सर्गः चेत्थमुपसर्गांश्चकार । एवमुपसर्गं कुर्वतः सङ्गमसुरस्य षण्मासा व्यतीयुः ।
अथ वीरजिनो गोकुलं जगाम । तदानीं च तत्रोत्सव आसीत् । वीरप्रभुश्च तान् षण्मासानुपोषितोऽतीत्य पारणार्थं गोकुलं प्राविशत् । ज्ञानोपयोगेन च तं देवमुपसर्गनिवृत्तं ज्ञात्वा प्रभुभिक्षाया निवृत्त्य बहिः प्रतिमया तस्थौ । ततो देवोऽवधि प्रयुज्य प्रभुमक्षुब्धं ज्ञात्वा दध्यौ-"षण्मासी यावदविरतं कृतैरुपसर्गर्न चलितोऽसौ । दीर्घकालेनाऽप्ययं ध्यानात् क्षोभं नैष्यति । तत्पर्वतभेदने गजस्येव मम प्रक्रमो वृथा जातः । स्वर्गं त्यक्त्वा भूमिष्ठस्य मम कियच्चिरं भ्रमितव्यम् ?"
एवं विचार्य स देव: प्रभुं प्रणम्य बद्धाञ्जलिर्दीनमुखो लज्जितश्चोवाच-"सभायां शक्रेण यथा वर्णितस्तथैवाऽसि, तद्वचस्यश्रद्धया च मयैवमुपद्रुतोऽसि, त्वं सत्यप्रतिज्ञोऽहं च भ्रष्टप्रतिज्ञः । मया साधु न कृतम् । दयालो ! तत् क्षमस्व । अहमुपसर्गं विहाय स्वर्गं यास्यामि । त्वमपि ग्रामादिषु निःशङ्ख विहर । भिक्षार्थं ग्राम प्रविश । अदूषितमाहारं च भुक्ष्व । मयैव पुरा भिक्षादोषा विहिताः" । ततः प्रभुरुवाच-"सङ्गमदेव ! मम चिन्तां त्यज । वयं स्वेच्छयैव विहरामः" । ततः स देवः प्रभुं प्रणम्य पश्चात्तापतप्तो दिवं ययौ ।
इतश्च सौधर्मवासिनो देवास्तावन्तं कालं हर्षोत्साहविधुरा उद्विग्नास्तस्थुः । शक्रोऽपि दुःखितस्त्यक्तविनोदव्यापारो दध्यौ"प्रभोरेतावतामुपसर्गाणामहमेव हेतुरभवम् । मया कृतायां स्वामिवर्णनायां स सुरोऽकुप्यत्" । तावच्च म्लानमुखो नष्टश्रीको भ्रष्टप्रतिज्ञो लज्जाकूणितनेत्रः सङ्गमसुरः शक्राधिष्ठितां सुधर्मा