________________
पुरुष-गद्यात्मकसारोद्धारः
सभामाजगाम । शक्रश्च तं दृष्ट्वा सद्यो विमुखो भूत्वा देवानुवाच“भोः सुरा ! अयं कर्मचाण्डालः सङ्गमो द्रष्टुमनर्हः, अनेन प्रभुर्बहु कदर्थितः । भवादभीतोऽयं मदप्यभीतः । अर्हन्तो नाऽसाहाय्यात् तपः कुर्वन्ति, तेनोपसर्गकाले नाऽसौ शिक्षितो मया । अयं पापो नाऽत्र स्थातुमर्हति । तदसावस्मात् कल्पाद् निर्वासनीयः " । एवमुक्त्वा शक्रः क्रुद्धो वज्रेणाऽद्रिमिव सङ्गमं वामपादेन जघान । ततः स शक्रभटैरायुधैर्हन्यमानो देवाङ्गनाभिराक्रुश्यमानः सामानि - कैर्हस्यमानोऽवशिष्टैकसागरोपमजीवितो यानकाख्यविमानेन मेरुशिखरं जगाम । सङ्गमस्य महिष्यश्चाऽपि शक्राज्ञया तमनुगच्छन्ति स्म । तस्य सकलमन्यं परिवारं शक्रो गमनाद् न्यवारयत् ।
७२
अथ द्वितीये दिने वीरजिनः पारणार्थं तत्र गोकुले प्राविशत् । तत्रैका गोपालिका स्थविरा भक्त्या प्रभुमुषितेन परमान्नेन प्रत्यलाभयत् । तदानीं देवाश्चिराज्जातेन प्रभोः पारणेन प्रसन्नास्तत्र पञ्च दिव्यानि चक्रुः । ततो विहृत्य च प्रभुरालभिकां पुरीं गत्वा प्रतिमया तस्थौ । तत्र विद्युत्कुमारेन्द्रो हरिनामा समुपेत्य प्रभुं प्रदक्षिणीकृत्य प्रणम्य चैवमवोचत् प्रभो ! अस्माकं सोढुमप्यशक्या उपसर्गास्त्वयाऽसह्यन्त तद्वज्रादपि दृढोऽसि । अधुनाऽल्पेनैवोपसर्गेण घातिकर्मचतुष्टयं परिशाटयित्वाऽचिरादेव केवलमाप्स्यसि " । एवमुक्त्वा स विद्युत्कुमारेन्द्रः प्रभुं भक्तितः प्रणम्य स्वस्थानं जगाम ।
***
अथ प्रभुस्ततो विहृत्य श्वेतवीं पुरीं ययौ । तत्र विद्युत्कुमारेन्द्रो हरिसहः समुपेत्य प्रभुं वन्दित्वा हरिवत् कीर्त्तयित्वा च स्वं धाम जगाम । ततश्च विहृत्य प्रभुः श्रावस्त्यां गत्वा प्रतिमया तस्थौ । तस्मिन् दिने च तत्र नगरे लोकैर्महाडम्बरपूर्वकं स्कन्द
दशमं पर्व चतुर्थः सर्गः
रथयात्रामहोत्सवः प्रारब्धोऽभूत् । पौराः प्रतिमास्थं प्रभुमतिक्रम्य चैत्यपूजापात्रमादाय स्कन्दं प्रति ययुः । तत्र च स्कन्दप्रतिमां स्नपयित्वा पूजयित्वा च यथाविधि रथमध्यारोहयितुं प्रवृत्ताः ।
तदानीं च शक्रः प्रभोविहारक्रमं चिन्तयन्नवधेस्तथाविधं प्रभुं पौरांश्च ददर्श । ततः प्रभोरतिक्रमणनिमित्तं जनेभ्यः कुपित: शक्रस्तत्राऽऽजगाम । तेनाऽधिष्ठिता च स्कन्दप्रतिमा यन्त्रपुत्तलिकेव प्रभुं प्रत्यचालीत् । " अहो ! अयं स्कन्दः स्वयं रथमारोक्ष्यती 'ति वदत्स्वेव लोकेषु सा प्रतिमा प्रभुमुपेत्य त्रिः प्रदक्षिणीकृत्य नत्वा भूमौ निषद्य चोपासितुमारेभे । ततो लोका "अस्य देवस्याऽप्ययं पूज्यः, तदस्य प्रागस्माभिः कृतोऽतिक्रमोऽनुचित" इति ब्रुवन्तः सविस्मयानन्दमग्नाः प्रभोर्महिमानं चक्रुः ।
अथ प्रभुस्ततो विहृत्य कौशाम्बीं जगाम । तत्र च प्रतिमास्थं प्रभुं सूर्यश्चन्द्रश्च सविमान उपेत्य सुयात्राप्रश्नपूर्वकं भक्त्या ववन्दा । ततश्च विहृत्य प्रभुर्वाराणसीं गतः शक्रेणाऽभ्येत्य भक्त्या वन्दितः । ततो विहृत्य च प्रभुं राजगृहे गतं प्रतिमास्थमीशानेन्द्रोऽभ्येत्य भक्त्या सुयात्राप्रश्नपूर्वकं ववन्दे । ततो विहृत्य मिथिलापुर्यां गतश्च प्रभुर्जनकनृपेण धरणेन्द्रेण च कुशलप्रश्नपूर्वकं भक्त्या वन्दितः ।
अथ ततो विहृत्य वैशालीं गतस्य प्रभोर्व्रतग्रहणदिनादेकादशः प्रावृट्कालो जातः । तस्यां पुर्यां च प्रभुः समरोद्याने बलदेवचैत्ये चतुर्मासक्षपणभृत् प्रतिमया तस्थौ । तत्र च नागराजो भूतानन्दः समेत्य भक्त्या वन्दित्वा केवलज्ञानं समीपमुक्त्वा स्वं धाम जगाम । तत्र च पुरे परमश्रावको जिनदत्तो दयालुविभवहानेजीर्ण श्रेष्ठीति ख्यातो वसति स्म । तदुपवने बलदेवनिकेतने गतश्च