________________
७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स जिनदत्तो वीरजिनं प्रतिमास्थं दृष्ट्वा 'छद्मस्थ एव सर्वज्ञोऽस्ती'ति निश्चित्य च भक्त्या वन्दित्वा दध्यौ-"प्रभुरद्योपोषितः प्रतिमया स्थितोऽस्ति, श्वो मद्गृहे पारणं कर्ता चेत् तदा सुन्दरम्"। एवमाशया स प्रभुं चतुर्मासी यावद् नित्यं सेवयामास । चतुर्मास्यन्तिमदिने च स प्रभुं निमन्त्र्य स्वगृहं जगाम ।
पूर्वं स्वनिमित्तं सम्पादितानि प्रासुकान्येषणीयानि च चिन्तयित्वा स जिनदत्तः प्राङ्गणे जिनागमनं प्रतीक्षमाणः स्थित एतानि भोज्यानि स्वामिने दास्यामीत्यचिन्तयत्। धन्योऽहं यद् मद्गृहे जिनः पारणं करिष्यति, तमागच्छन्तं समभिगत्य त्रिः प्रदक्षिणपूर्वकं वन्दिष्ये, तदिदं ममाऽपुनर्भवाय भविष्यतीत्येवमादि च चिन्तयन् सशुचिमानस्तस्थौ । प्रभुश्च तावदभिनवश्रेष्ठिनो गृहं जगाम । धनमदमत्तश्च स श्रेष्ठी मिथ्यादृष्टिश्चेटी भिक्षादानायाऽदिशत् । दारुदर्वीकरा च सा कुल्माषानानीय प्रभोः प्रसारिते करपात्रे क्षिप्तवती । तदानीं च देवैर्दुन्दुभिर्वादिता, वस्त्रोत्क्षेपश्च कृतः, पञ्चदिव्यानि च कृतानि । लोकैः पृष्टश्चाऽभिनवश्रेष्ठी माययोवाच"मया स्वयं पायसेन प्रभुः पारणं कारितः" । अहो ! दानं सुदानमिति देवशब्दं श्रुत्वा च जना नृपाश्चाऽभिनवश्रेष्ठिनं मुहुर्मुहुः प्रशशंसुः ।
जीर्णश्रेष्ठी च स्वाम्यागमनं चिन्तयन् स्थितो देवदुन्दुभिध्वनि श्रुत्वा दध्यौ-"मां मन्दभाग्यं धिक्, मम मनोरथो विफलः। कथमन्यथा प्रभुर्मम गृहं विहायाऽन्यत्र पारणं चकार । प्रभुश्च पारणं कृत्वाऽन्यत्र जगाम ।
अनन्तरं च तत्रोद्याने केवली पार्श्वशिष्यः समाजगाम । नृपो जनाश्च गत्वा तं पप्रच्छु:-"नगर्यामस्यां कः पुण्यशाली जन: ?" जीर्णश्रेष्ठीति तेन कथिते च लोको जगौ-"तर्हि कथमसौ स्वामिनं
दशमं पर्व - चतुर्थः सर्गः न पारितवान्" अभिनवश्च पारितवान् । वसुधाराऽप्यभिनवश्रेष्ठिगहेऽभूत । तत्कथं न स पृण्यशाली" | ततः केवल्यवाच"जिनदत्तेन जिनो भावत: पारितः, तेन चाऽग्रे जन्मनि सोऽच्युतकल्पं गन्ता । यदि पारणकालेऽसौ तादृग्भाव: स्यात् तदा दुन्दुभिध्वनि नाऽऽकर्णयिष्यद् ध्यानवशात् केवलं च प्राप्स्यत् । अभिनवश्रेष्ठिना च शुद्धभावं विना जिन: पारितः । तेनैहिकं वसुधारारूपं फलं प्राप्तम्" । तच्छ्रुत्वा च स्मितो जनः स्वं स्वं धाम जगाम ।
अथ वीरजिनो ग्रामादिषु विहरन् सुंसुमारपुरं गत्वाऽशोकखण्डोद्यानेऽशोकवृक्षस्याऽधः शिलातले कृताष्टम एकरात्रिक्या प्रतिमया तस्थौ ।
अर्थतोऽत्र भरते विन्ध्यपादतलस्थे बिभेले सन्निवेशे पूरणो नाम धनाढ्यो गृहपतिर्बभूव । स एकदाऽर्धरात्रे दध्यौ मया पूर्वभवे नूनं महत् तप: कृतम् । येनेदृशी श्रीः सम्मानं च ममाऽस्ति । पूर्वकर्मणामेवाऽत्र फलं लभ्यते । ततो गृहवासं परित्यज्य स्वजनान् प्रतिबोध्य भविष्यद्भवे फलप्राप्त्यै तपश्चरिष्यामि । अष्टभिर्मासैर्वयसाऽऽयुषा च तत् कर्त्तव्यं येनाऽन्ते सुखमेधते" । एवं ध्यात्वा स प्रात: स्वजनान् भोजयित्वाऽऽपृच्छ्य च व्रतार्थं स्वस्थाने पुत्रं न्यस्य नाम्ना प्राणामं तापसव्रतं गृहीत्वा चतुःपुटं दारुमयं भिक्षापात्रमग्रहीत् ।
तद्दिनात् प्रभृत्येव च स सदा षष्ठान्यकरोत् । आतापनया चाऽन्वहमात्मानं तनूचकार । पारणादिने च स तच्चतुःपुटं पात्रमादाय मध्याह्ने भिक्षार्थं ययौ । प्रथमे पुटे क्षिप्तां भिक्षां पान्थादिभ्यो द्वितीयपुटक्षिप्तां काकादिभ्यस्तृतीयपुटस्थां जलचरादिभ्यश्च दत्त्वा चतुर्थपुटस्थां भिक्षां स राग-द्वेषौ विना स्वयमादत् । एवं स द्वादश