________________
७६
७७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वर्षाणि बालतपो विधाय बिभेलसन्निवेशस्यैशान्यामनशनं प्रपद्य मासान्ते विपद्य बालतपःप्रभावाच्चमरचञ्चायां चमरेन्द्रो बभूव । ____ अथ जातमात्रस्तत्राऽवधिना भुवनान्तराणि पश्यन्नूक् सौधर्मेन्द्र वज्रभृतं सौधर्मावतंसे विमाने स्थितं महद्धि दृष्ट्वा जातकोप: स्वानवोचत्-"कोऽयमप्रार्थितप्रार्थको दुरात्मा निर्लज्जः, सुराधमो मम शिरसि स्थितः" । कृताञ्जलिभिः सामानिकाद्यैः सुरैर्महाबलश्चण्डाज्ञः सौधर्मकल्पेन्द्रोऽयमिति ज्ञात्वा चाऽत्यन्तं क्रुद्धश्चमर उवाच'मदीयपराक्रममविज्ञाय यूयं तं प्रशंसथ, तस्य पातनात् स्वबलं दर्शयिष्यामि । नहि कोऽप्युच्चस्थानस्थितिमात्रेण प्रभुर्भवति" । ततः सामानिका ऊचु:-'अयं पूर्वोपार्जितपुण्यैर्महर्द्धिविक्रमोऽस्ति देवेन्द्रः । त्वं च स्वपुण्यमात्रभिरस्माकं प्रभुर्जातोऽसि । पुण्यवशे विभवे ईर्ण्ययाऽलम् । देवेन्द्रे तव विक्रमव्यापारो हासाय पाताय च स्यात् । तच्छान्तिमेहि, स्वपुण्यफलं भुक्ष्व" । ___ ततश्चमरस्तानुवाच-"भीता भवन्तोऽत्रैव तिष्ठन्तु, अहमेकोऽपि तेन युद्धाय यास्यामि । सुरा-ऽसुराणां सोऽहमेव चेन्द्रः स्याम् । नोकस्मिन् कोशे खड्गद्वयं युगपत् तिष्ठति" । एवं स्वं विकत्थमान: स समुत्पतिष्णुरचिन्तयत्-"एते सामानिका मम हिता: सत्यवाचोऽपि स्युः । दैवात् पराजितस्य मम कः शरणं स्यात् ?"
__ एवं विमृश्याऽवधि प्रयुज्य सुंसुमारपुरे वीरप्रभुं प्रतिमास्थं दृष्ट्वा तमेव शरणं निश्चित्योत्थाय चमरस्तुम्बालयाख्यामायुधशालां जगाम । तत्र स परिघं गृहीत्वा चमरचञ्चया नगर्या निर्गत्य वीरजिनमुपनम्य परिघं मुक्त्वा नत्वोवाच-"प्रभो ! त्वत्प्रभावेण शक्रं जेष्यामि, उपरि स्थितः स मां बाधते" । ततः पुनः परिघमादायैशान्यां गत्वा लक्षयोजनमानं तनुं विकृत्य भयङ्कर
दशमं पर्व - चतुर्थः सर्गः विशालाकृतिर्गत् सौधर्मेन्द्रं प्रति समुत्पपात । क्षणाच्छक्रमण्डलं प्राप्य त्रस्तैः पलायितैः कुपितैर्विस्मितैश्च सुरैर्दृश्यमानश्चमर एकं पादं पद्मवेद्यामपरं सुधर्मायां च निधाय परिघेणेन्द्रकीलं त्रिस्ताडयित्वा भ्रकुटीकुटिलाननः शक्रमुवाच-"विटानामिवैषां देवानां समूहेन गर्वितस्त्वं किं ममोपरि वससि ? अधुनैव त्वामधः पातयामि । कि चमरेन्द्रं मामप्रतिमबलं न जानासि?"
शक्रश्च तादृशवचनमश्रुतपूर्वो विस्मित: स्मयते स्म । अवधेश्च शक्रस्तं चमरं ज्ञात्वा रे ! पलायस्वेति ब्रुवन् विकटभ्रुकुटिर्वज्रमुत्पाट्य चिक्षेप । चमरश्च वज्रमागच्छन्तं सूर्यमुलूक इव द्रष्टुमप्यक्षमः शिरसि पादौ कृत्वेव वीरजिनं शरणं प्रपित्सुः पलायामास । क्षणेन च तादृङ् महातनुर्लघुदेहो जातः । वज्रश्च तमनुययौ ।
इतश्च शक्रो वज्रं मुक्त्वा सद्यश्चिन्तयामास-"असुराणामिह स्वतः समागमने न शक्तिः । तदसौ जिनं तच्चैत्यं मुनि वा कथमपि ध्यात्वा प्राप्तशक्तिरिहाऽऽगतः स्यात्" । एवं विमृश्याऽवधि प्रयुज्य वीरप्रभावादागतचमरं वीरजिनं प्रति गच्छन्तं ज्ञात्वा हा हा हतोऽस्मीति क्रन्दन् वज्रमार्गेण लघु धावमानो ययौ । तत्राऽग्रतश्चमरस्तत्पृष्ठतो वगं तत्पृष्ठतश्च शक्रो ययौ । पश्चात् प्रस्थितोऽपि चेन्द्रो बलवत्त्वाद् वेगेन तयोः समीपस्थो जातः । चमरश्च वज्ररनुस्रियमाणो वीरजिनं प्रतिमास्थं शरणं शरणमिति पूत्कुर्वन् प्राप्य कुन्थुवत् सूक्ष्मो भूत्वा तत्पादयोः प्राविशत् ।
शक्रश्च वीरजिनपादयोश्चतुरङ्गुलमस्पृष्टं तं वज्रं गारुडिकः सर्पमिव मुष्ट्याऽग्रहीत् । तथा वीरप्रभु त्रिःप्रदक्षिणीकृत्य नत्वा कृताञ्जलिर्जातं वृत्तं निवेद्यैशान्यां स्थित्वा क्रोधनाशाय वामपादेन