________________
७८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भुवं ताडयित्वा चमरमुवाच-"विश्वाभयदः प्रभुः श्रितः । मया वैरं विहाय स्वपुरं गत्वा सुखेन तिष्ठ" । एवं चमरमाश्वास्य शक्रः पुनः प्रभुं नत्वा स्वस्थानं जगाम । चमरश्च प्रभोः पादाभ्यां निर्गत्य प्रणम्य प्रभुमुवाच-"त्वमेव मम प्राणदोऽसि, त्वत्पादं प्रपन्ना भवादपि मुच्यन्ते, वज्राद् मम त्राणं कियत् । पूर्वजन्मकृतबालतप:प्रभावादसुरेन्द्रत्वमपि मेऽज्ञानानुविद्धम् । तथाऽपि मम त्वत्प्रपत्ति: श्लाघ्या । त्वत्प्राप्तिर्हि सर्वस्याः प्राप्तेः श्रेयसी" । एवं भक्त्या प्रभु स्तृत्वा नत्वा स चमरेन्द्र: स्वां चमरचञ्चापूरी जगाम। तत्र च सिंहासनासीनो लज्जानम्रमुख: सामानिकादीन् प्राह-"यथा शक्रो युष्माभिर्वर्णितः, स तथैवाऽस्ति । मया मोहात् तद् न ज्ञातम् । वीरं शरणं प्रपद्यैव तद्वज्राद् मम मुक्तिरभूत्" । एवमुक्त्वा चमरः सपरिवारः प्रभुमुपेत्य नत्वा सङ्गीतं विधाय पुनः स्वनगरं जगाम ।
अथ प्रभुः प्रातरेकरात्रिकी प्रतिमां पारयित्वा विहरन् भोगपुराख्यं नगरं प्राप । तत्र च माहेन्द्रक्षत्रियः प्रभुं दृष्ट्वा मन्दमति: खर्जूरीयष्टिमुत्पाट्य प्रजिहीर्षुर्धावमान: प्रभुदर्शनार्थमागतेन सनत्कुमारेन्द्रेण दृष्टो निर्भत्सितो ववले । स इन्द्रश्च प्रभुं नत्वा सुखविहारं पृष्ट्वा च स्वं धाम ययौ ।
___ अथ वीरजिनो विहरन् नन्दिग्रामं प्राप्तः पितृमित्रेण नन्दिना भक्त्या पूजितः । ततो विहत्य च वीरप्रभुपेंढकग्रामं प्राप्तवान् । तत्र च गोपालः केशकृतरज्जुमादाय प्रभुं हन्तुं दधावे । तदानीं च शक्रः कूर्मग्रामवदाशु तत्राऽऽगत्य गोपं निवार्य प्रभुं ननाम ।
वीरप्रभुः ततो निर्गत्य कौशाम्बी नगरी जगाम । तत्र च शतानीको नाम नृप आसीत् । चेटकनृपस्य कन्या मृगावती च
दशमं पर्व - चतुर्थः सर्गः तस्य राज्ञो महिषी जिनभक्ता श्राविकाऽऽसीत् । तथा तन्नृपमन्त्रिण: सुगुप्तस्य भार्या नन्दा श्राविका मृगावत्याः सखी बभूव । तन्नगरे धनवाहो नाम महाढ्यः श्रेष्ठी चाऽऽसीत् । तद्भार्या च गृहकर्मनिपुणा मूला नाम बभूव ।
प्रभुश्च तत्र पौषकृष्णप्रतिपत्तिथौ दुष्करमभिग्रहं जग्राह-"यदि लौहशृङ्खलबद्धपादा, मुण्डिता, कृतानशना, शोकेन रुदती, दासीत्वमापना नृपकन्या, देहल्यन्तः कृतैकपादा बहि: स्थिताऽपरपादा, सर्वेष्वेव भिक्षाचरेषु साधुप्रभृतिषु गृहात् प्रतिनिवृत्तेषु, शूर्पकोणेन मा कुल्माषान् चिरादपि दास्यति तदैवाऽहं पारयिष्यामि नाऽन्यथे"ति । एवमभिग्रहं गृहीत्वा प्रभुः प्रतिदिनं यथाकालं नानागृहेषु पारणार्थं भ्रमति स्म । पौराश्च दीयमानामपि भिक्षामभिग्रहवशात् प्रभावनाददाने स्वं निन्दन्तस्ताम्यन्ति स्म । प्रभुश्चैवं भिक्षामगृह्णन् द्वाविंशति परीषहान् सहमानश्चतुरो मासान् यामानिव व्यतीयाय ।
___ अथाऽन्यदा प्रभुभिक्षार्थं सुगुप्तमन्त्रिगृहे प्रविष्टो दूरादेव नन्दया दृष्टः । ततो नन्दा स्वं भाग्यं वर्णयन्ती हर्षात् प्रभुमभ्युदतिष्ठत् । तथा कल्प्यान्यन्न-पानादीन्यानयति स्म । प्रभुश्चाऽभिग्रहवशात् तान्यगृहीत्वैव ततो निर्गतवान् । ततो नन्दाऽपूर्णमनोरथा खिन्ना स्वं बहु निनिन्द । तां च तादृशीं दास्युवाच-"अयं देवार्यः प्रतिदिनमेव भिक्षामगृहीत्वैव गृहाद् निर्याति न पुनरद्यैव" । ततो नन्दा विशिष्टाभिग्रहवशात् प्रभुभिक्षां नाऽऽदत्ते इत्यनुममौ । ततः प्रभोरभिग्रहः कथं ज्ञेय इति चिन्तया सा म्लानवदना तस्थौ ।
सुगुप्तश्च तां तथावस्थां दृष्ट्वा कारणं पप्रच्छ । नन्दा च विशेषाभिग्रहवशात् प्रभुभिक्षामगृहीत्वैव गृहाद् निर्याति, तत्तस्य