________________
८०
mean८१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कोऽभिग्रह इति बुद्ध्या जानाहीत्युवाच । ततः प्रभोरभिग्रहज्ञानार्थ प्रयतिष्ये इति सुगुप्तो जगाद । तदैव च तत्राऽऽगता मृगावत्या वेत्रिणी विजया तयोरालापं श्रुत्वा देव्याः कथयामास । तज्ज्ञात्वा च खिन्नया मृगावत्या वीरप्रभोभिक्षानादानं ज्ञात्वा तामाश्वास्य शतानीको मन्त्रिणमाहूय-"प्रभोरभिग्रहं जानीहि, येन तं पूरयित्वा प्रभुं पारयामी"त्युवाच । ततो मन्त्र्युवाच-प्रभोरभिग्रहो न ज्ञायते, तेनाऽहमपि खिये।
ततो नृपस्तथ्यवादिनमुपाध्यायं धर्मशास्त्रज्ञं वीरप्रभोरभिग्रह पप्रच्छ । द्रव्यादिभेदाद् बहवोऽभिग्रहाः शास्त्रे विहिताः । तत्र प्रभोः कोऽभिग्रह इति विशिष्टज्ञानं विना न ज्ञेयमित्युपाध्यायोक्तं श्रुत्वा च नृपः पुर्यामघोषयत्-"भिक्षार्थमागतस्य प्रभोर्गृहीताभिग्रहस्याऽनेकविधा भिक्षोपनेतव्या" । पौराश्च नृपाज्ञया श्रद्धया च तथा चक्रुः । वीरप्रभुश्चाऽपूर्णाभिग्रहः क्वचिदपि भिक्षां न जग्राह । ततः पौरैः खिन्नैर्लज्जितैश्चाऽवलोक्यमानः प्रभुभिक्षाया अलाभेऽपि प्रफुल्लवदनस्तस्थौ ।
इतश्च पुरा शतानीक एकस्यां रात्रौ नौसैन्येन चम्पापुरीं रुणद्धि स्म । ततश्च चम्पापुरेशो दधिवाहन: पलायिष्ट । शतानीकस्याऽऽज्ञया च तद्भटास्तां पुरीं स्वेच्छया मुमुषुः । तत्र च कोऽप्यौष्ट्रिको दधिवाहनस्य प्रियां धारिणी तत्पुत्री वसुमती च जग्राह । शतानीकश्च कृतकृत्यः सैन्यैः सह कौशाम्बीमाजगाम । औष्ट्रिकश्च धारिण्या रूपेण मोहितो मार्गे गच्छन् जनानुच्चैरुवाच-"इयं प्रौढा रूपवती च मम भार्या भविष्यति । एतां कन्यकां च पुर्याश्चतुष्पथे नीत्वा विक्रेष्ये" ।
दशमं पर्व - चतुर्थः सर्गः
तच्छ्रुत्वा च धारिणी मनसि दध्यौ-"शुद्धवंशजाऽहं कुलीनस्य दधिवाहनस्य पत्नी जिनभक्ता चेमं शब्दं श्रुत्वाऽपि जीवामि, मां धिक्, तद्बलादपि प्राणांस्त्यजामि" । एवमुद्विग्नायास्तस्याः शोकमग्नहृदयायाः प्राणाः क्षणादपि गताः । औष्ट्रिकश्च तां मृतां दृष्ट्वा स्वदुर्वचनं मुहुनिनिन्द । कन्याऽप्येवं मा म्रियतामिति विमृश्य च स तां साम्नाऽऽलपन् पुरीमानीय विक्रेतुं राजमार्गे स्थापयामास।
धनावहः श्रेष्ठी च दैवात् तत्राऽऽगतस्तां दृष्ट्वा कुलीनामनुमाय च नैषा हीनहस्ते पतत्विति विचार्य चेप्सितं मूल्यं ददौ । ततस्स सानुकम्पो वसुमतीं स्वगृहं नीत्वा पृच्छति स्म-'कस्य सुताऽसि, कस्तव स्वजनः, मा भैषीः । त्वं मम सुतेवाऽसि । सा च महत्त्वेन स्वकुलं वक्तुमक्षमा न किञ्चिदुवाच । नम्रमुखी च तस्थौ । ततः श्रेष्ठी मूलामुवाच-"असावावयोर्दुहिता, तदियं यत्नतो लाल्या पाल्या च" |
अथ सा बाला वसुमती धनावहश्रेष्ठिगृहे स्वगृहवदेव तस्थौ। तस्या विनयादिभिश्च चन्दनवद् रञ्जितः श्रेष्ठी तां परिजनैः सह चन्दनेत्याचख्यौ । क्रमाच्च प्राप्तयौवनां श्रेष्ठिनो हर्षदां निसर्गसुन्दरी चन्दनां दृष्ट्वा मूला सेा दध्यौ-"एतां पुत्रीवत् स्वीकृत्याऽपि रूपमोहितः श्रेष्ठी योनां परिणयेत् तमुहं जीवन्त्यपि मृतैव" । एवं हृदि ताम्यन्ती सा मूला दुराशयाद् दिवानिशं चिन्ता मग्ना तस्थौ । एकदा च घर्तिः श्रेष्ठी गृहमापणादाजगाम । तदानीं च दैवात् प्रादप्रक्षालकेऽनुपस्थिते विनयवती चन्दना श्रेष्ठिना निषिद्धाऽप्युत्थाय पितुरिव तस्य पादौ क्षालयितुं प्रवृत्ता । तदानीं च तस्याः केशपाशोऽङ्गवलनेन जलार्द्रभूमौ परिस्रस्तः । ततः श्रेष्ठी वात्सल्याल्लीलायष्ट्या तमुद्धृत्याऽऽदराद् बबन्ध ।