________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मूला च गवाक्षस्था तद् दृष्ट्वा दध्यौ-या पूर्वं मम शङ्का साऽद्य प्रत्यक्षा जाता । यतोऽस्याः श्रेष्ठिना केशबन्ध: पत्नीत्वनिबन्धनम् । नेदृशी पितुः क्रिया भवति, तदियं मूलादेवोच्छेदनीया" । एवं विमृश्य मूला दुराशया तस्थौ । श्रेष्ठी च क्षणं विमृश्य बहिर्निर्जगाम। मूला च नापितमाहूय चन्दनाममुण्डयत् । पादयोः शृङ्खलं क्षिप्त्वा क्रुद्धा ताडयित्वा च गृहकोणे स्थापयित्वा कपाटं दत्त्वा परिवारमुवाच-"पृच्छतोऽपि श्रेष्ठिनो नैतत् कथनीयं केनाऽपि, अन्यथा स मम कोपभाजनं स्यात्"। एवं चन्दनाया नियन्त्रणां विधाय मूला मूलगृहं जगाम ।
श्रेष्ठी च सायंकाले समायातः क्व चन्दनेत्यपृच्छत् । मूलाभयाच्च न कोऽपि जगाद । ततः श्रेष्ठी 'सा क्वाऽपि रमते, गृहोपरि वा स्यादि'त्यबुध्यत । एवमेव स श्रेष्ठी रात्रावष्यपृच्छत् । किन्तु पूर्ववदेव कोऽपि नाऽऽख्यत् । तेन च स विशुद्धधी: श्रेष्ठी चन्दना सुप्ताऽस्तीत्येवमेवाऽबुध्यत । एवं च चन्दनां द्वितीये तृतीये च दिवसेऽपश्यन् सन्देहमुपगतः कुपितश्च परिजनमुवाच-चन्दना क्वाऽस्तीति कथय, जानन्तो न ब्रूयात् चेत् सर्वान् वो निग्रहीष्यामि"।
एवं श्रुत्वा काऽपि वृद्धा दासी दध्यौ-"अहं चिरं जीविता, मरणं मम समीपं चन्दनावृत्तान्ते मूला मम किं करिष्यति ?" एवं ध्यात्वा सा मूला-चन्दनयोर्वृत्तान्तं कथयामास । तथा सा श्रेष्ठिनश्चन्दनागृहं दर्शयामास । ततः श्रेष्ठी स्वयं द्वारमुद्घाटयामास । तत्र च मुण्डितां निगडितां क्षुत्-पिपासात साश्रुनेत्रां चन्दनां दृष्ट्वा तां 'त्वं विश्वस्ता' भवेत्याश्वास्य तद्भोज्यानयनार्थं शीघ्रं रसवतीं ययौ । तत्र च विशिष्ट भोज्यं दैवादपश्यन् श्रेष्ठी शूर्पकोणे कुल्माषानादाय
दशमं पर्व - चतुर्थः सर्गः
...८३ ददौ । तथा तावदेतान् भुत्व यावद् निगडच्छेदाय कारमानयामीत्युक्त्वा श्रेष्ठी बहिर्जगाम ।
चन्दना च तदानीं दध्यौ-"अहो ! क्व मम राजकुले जन्म, क्व चेदृश्यवस्था । अस्मिन् संसारे वस्तु क्षणादेव विपरिवर्तते, एतद् मम प्रत्यक्षम् । साम्प्रतं किं करोमि ? मम षष्ठपारणायाऽमी कुल्माषा एव सम्प्रति सन्ति । तद्यद्यतिथिः कोऽप्यायाति तस्मै निवेद्यैव भुञ्जे नाऽन्यथा" । एवं ध्यात्वा सा द्वारे इतस्ततो दृष्टिं ददौ।
तदानीमेव च वीरजिनो भिक्षार्थमितस्ततः पर्यटस्तत्राऽगात् । ततस्तादृशातिथिलाभेन स्वकर्म प्रशंसन्ती सा कुल्माषशूर्पमादाय प्रस्थिता स्वमेकं पादं देहल्या अन्तरपरं च बहिर्दत्त्वा निगडैनियन्त्रितत्वाद् बहिर्गन्तुमसमर्था तत्र स्थित्वैव भक्त्या वीरप्रभुमुवाच"प्रभो ! यद्यप्येतद् भोजनं न योग्यं तथाऽपि परोपकारी भगवान् गृहीत्वैतद् मामनुगृह्णातु" । तत: प्रभुस्तदन्नं द्रव्यादि शुद्धं स्वाभिग्रह पूर्ण च ज्ञात्वा कुल्माषभिक्षार्थं करं प्रासारयत् । चन्दना च धन्याऽहमिति चिन्तयन्ती प्रभोः करे शूर्पकोणेन कुल्माषान् ददौ । तदानीं प्रभोरभिग्रहपा देवास्तत्राऽऽययुः । तथा वसुधाराप्रभृतीनि पञ्च दिव्यानि चक्रुः ।
तथा चन्दनाया निगडानि तुत्रुटुः । तत्पदे सौवर्णानि नूपुराणि जज्ञे । मूनि केशपाशश्च पूर्ववत् जज्ञे । तथा देवैः सा चन्दना सर्वाङ्ग रत्नालङ्कृता विहिता । तथा ते उच्चैर्जगुर्ननृतुश्च । मृगावतीशतानीको नन्दा-सुगुप्तौ च दुन्दुभिध्वनि श्रुत्वा सपरिवारास्तत्राऽऽययुः। शक्रोऽपि प्रसन्नमना: शीघ्र पूर्णाभिग्रहं प्रभुं वन्दितुं तत्राऽऽययौ । चम्पावस्कन्दने आनीतो दधिवाहनस्य कञ्चुकी संपुलश्च राज्ञा तदैव मुक्तस्तत्राऽऽगतो वसुमतीं दृष्ट्वा तत्पादयोः