________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आतापनामकरोत् । सूर्यकिरणतापेन भुवि निपतिता यूका: स दयालुरवचित्य पुनर्मूनि क्षिपति स्म । ____ गोशालश्च तं दृष्ट्वा समीपमेत्य तमुवाच-"त्वं किं तत्त्वं जानासि अथवा यूकाशय्यातरोऽसि, कस्त्वमसि नरो वा नारी वा? न सम्यग् विज्ञायसे" । एवं सहासं पृष्टोऽपि स तापस: क्षमावान् न किमप्युवाच । भूयो भूयश्च गोशालप्रश्नतः क्रुद्धः स तापसस्तेजोलेश्यां विसृष्टवान् । ततो भीतो गोशाल: पलाय्य प्रभुसमीपं ययौ । प्रभुश्च गोशालकं तेजोलेश्याया रक्षितुं शीतलेश्यां विससर्ज । तया च जलेनाऽग्निरिव तेजोलेश्योपशान्ता । वैशिकायनश्च प्रभोस्तामृद्धि दृष्ट्वा विस्मितो वीरजिनमुपेत्य सविनयमुवाच"प्रभो ! तवैष शिष्य इति मया न ज्ञातः, तन्मम विरुद्धाचरणं क्षन्तुमर्हसि" ।
एवमुक्त्वा तस्मिन् गते च गोशालकः प्रभुं पप्रच्छ-"कथं तेजोलेश्या लब्धिर्जायते" । तदा वीरप्रभुर्जगौ-"यो यमी सर्वदा षष्ठं विदध्यात्, सतुषकुल्माषधान्यमुष्ट्या जलचुलुकेन च पारणं विदध्यात्, तस्य षण्मासान्तेऽप्रतिहता शत्रुभयङ्करोत्तमा तेजोलेश्योत्पद्यते" ।
अथ प्रभुः कूर्मग्रामाद् गोशालेन सह प्रस्थाय सिद्धार्थपुरं नगरं प्रति विजहार । तत्तिलस्तम्बदेशे प्राप्ते च गोशालकोऽवोचत्"भवता कथितोऽसौ तिलस्तम्बो न निष्पन्नः" । ततो वीरजिनो जगौ"निष्पन्नः स तिलस्तम्बोऽत्र वर्त्तते" । अश्रद्धालुश्च गोशालस्तत्र तिलशिम्बां व्यदारयत् । तत्र च सप्त तिलानवलोकमानो गोशालोऽवक्-"जन्तवः परावृत्त्य पुनस्तत्रैवाऽङ्गे जायन्ते" ।
दशमं पर्व - चतुर्थः सर्गः
अथाऽन्यदा स प्रभुणाऽऽख्यातां तेजोलेश्यां साधयितुं प्रभु त्यक्त्वा श्रावस्ती नगरौं जगाम । तत्र च स कुम्भकारशालायां स्थित: प्रभुकथितविधानेन षाण्मासिकं तपोऽकरोत् । तेजोलेश्या च तस्याऽसेधीत् । ततः स तेजोलेश्यापरीक्षार्थं कूपतटे गत्वा स्वस्य क्रोधाविर्भावाय कर्करेण दास्या घटमनाशयत् । सा च तमाक्रोष्टमारेभे।
ततश्च गोशालेन मुक्ता तेजोलेश्या क्षणादेव पतिता विद्युदिव दासीमधाक्षीत् । तेन च जातविश्वास: कौतुकी स गोशालो लोकैः परिवृतो विजहार । क्रमाच्च तस्य त्यक्तव्रता अष्टाङ्गनिमित्तज्ञाः षट् पार्श्वशिष्याः शोण-कलिन्द-कर्णिकारा-ऽच्छिद्रा-ऽग्निवेशानाऽर्जुना मिलिताः । सोह्रदाच्च तस्य तेऽष्टाङ्गमहानिमित्तमुपदिदिशुः । ततः स गोशालस्तेजोलेश्या-ऽष्टाङ्गमहानिमित्तज्ञानगर्वितोऽहं जिनोऽस्मीति वदन् पृथिवीं विजहार ।
इतश्च प्रभुः सिद्धार्थपुराद् वैशाली नगरी गतः स्वपितृमित्रेण गणराजशङ्खन पूजितः । ततः प्रस्थाय च वीरजिनो वाणिजकं ग्रामं प्रति प्रस्थितो मार्गे मण्डिकिकाख्यां नदी नावाऽतारीत् । उत्तीर्णमात्र एव च प्रभु विकैर्नधुतारणद्रव्यार्थिभिस्तप्ते सैकते धृतः । तदानीमेव च शङ्खनृपजामेयश्चित्राख्यो नौसैन्येन तत्राऽऽगतः प्रभुं दृष्ट्वा नाविकान् भर्त्सयित्वा मोचयित्वा भक्त्या पूजयित्वा च स्वपुरं जगाम ।
अथ प्रभुर्विहरन् वाणिजकग्रामं प्राप्य ग्रामाद् बहिरेव प्रतिमया धर्मध्यानस्थस्तस्थौ । तदानीं च तत्र ग्रामे षष्ठतपःपरायणो नित्यमातापनालीनोऽवधिज्ञानवानानन्दश्रावकः प्रभुं वन्दित्वा