________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
इतश्च चम्पा-राजगृहयोर्मध्ये समृद्धो गोबरग्रामो बभूव । तत्र चाऽऽभीराधिपो गोशङ्खी गृहमेध्यासीत् । तस्य चाऽतिप्रिया बन्धवती नाम भार्या वन्ध्याऽऽसीत् । तस्य ग्रामस्य समीप एव खेटकाख्यो ग्रामो दस्युभिर्हतो बन्दाश्च गृहीताः । तदा च तत्र वेशिका नाम स्त्री सुतं प्रासूत । दस्युभिश्च पति हत्वा सुरूपा साऽपहृता । सा च नवप्रसवपीडिता बालमादाय गन्तुं न शशाक । तदा चौरास्तामूचुः - "यदि त्वं जीवितमिच्छसि तदा बालकं त्यज " । सा च भयाद् बालं वृक्षतले मुक्त्वा चौरैः सह जगाम । प्रातश्च गोभिः सह तत्राऽऽगतो गोशङ्खी तं सुरूपं बालकं दृष्ट्वा गृहीत्वा पुत्रत्वेन निजपत्न्याः समर्पितवान् । तथा स छागं हत्वा बालकं रक्तेन लिप्तं कृत्वा पत्न्याऽपि सूतिकावेषं ग्राहयामास । लोके च "मद्भार्या गूढगर्भाऽधुना पुत्रं सुषुवे" इति वदन् महोत्सवं चकार ।
६२
वेशिका च चौरेश्चम्पापुर्यां चतुष्पथे विक्रेतुं स्थापिता वेश्यया क्रीता गणिकाव्यवहारं शिक्षिता च प्रसिद्धगणिका जाता । गोशङ्खिकसुतश्च क्रमेण तारुण्यं प्राप्तो घृतशकटं विक्रेतुं मित्रेण सह चम्पापुरीं गतः । तत्र रमणीभिर्विलासपरान् तरुणान् दृष्ट्वा रिरंसुर्गणिकापाटकं गत्वा वेश्यामध्ये वेशिकां दृष्ट्वा तावैच्छत् । तदैव च स तस्या ग्रहणकाख्यं रतिभाटकमदापयत् । रात्रौ च कृतस्नान- विलेपनस्तद्गृहाय प्रतस्थे । मार्गे च पुरीषे मग्नं पादं स्मरातुरः स नाऽज्ञासीत् । तत्कुलदेवता च तं प्रबोधयितुं तत्क्षणमेव गां वत्सं च विकृत्य तन्मार्गमध्ये तस्थौ । यावच्च स पुरीषापाकरणाय पादेन वत्समघर्षयत् तावत् स वत्सो गां मानुष्या वाचोवाच-“मातः ! पश्य, अयं निर्लज्जः पापी पुरीषलिप्तं पादं
दशमं पर्व चतुर्थः सर्गः
मत्तनौ घर्षति । ततो गौरुवाच - " मा खिद्यस्व, अस्य न किमप्यकार्यम्। यतोऽयं कामातुरो निजां मातरमेव रन्तुं त्वरते" ।
तच्छ्रुत्वा च स दध्यौ - " गावः कथं मनुष्यवाचा वदन्ति ? एतस्या वेश्यायाश्च कथमहं पुत्रः ? तां वेश्यामेव पृच्छामि " । एवं ध्यात्वा स तद्गृहं गतस्तया वेश्ययाऽभ्युत्थानादिना कृतादरः कामक्रीडां विहाय गोवाचा साशङ्कः क्षणं स्थित्वा तां पप्रच्छ - "निजं पूर्ववृत्तादिकं कथय” । सा च तदनाकर्णितकं कृत्वा हावभावान् दर्शयति स्म । ततः सोऽवोचत् - " तव कथितद्विगुणं धनं दास्यामि, तव स्वपित्रोः शपथ:, त्वं स्वकीयं यथार्थं वृत्तं ब्रूहि" । एवं पुनः पुनस्तेन पृष्टा सा यथायथं स्ववृत्तमाख्यातवती ।
ततः स साशङ्क उत्थाय स्वग्रामं गत्वा पितरौ पृच्छति स्म - 'किमहं युवयोरङ्गजोऽस्मि क्रीतो वाऽन्यथा वा प्राप्तः, मम यथार्थं कथ्यताम् । ताभ्यां चाऽऽवयोरङ्गजोऽसीति कथितश्च स तयोरयथार्थकथनखिन्नोऽभुक्त्वैव तस्थौ । ततः पितरौ तस्य यथार्थ - माख्यातवन्तौ । तेन च स वेशिकां वेश्यां निजमातरमज्ञासीत् । ततः स चम्पां गत्वा वेशिकायाः स्ववृत्तान्तं कथयामास । साऽपि च तं स्वपुत्रं ज्ञात्वा लज्जानम्रमुखी रुरोद । ततः स द्रव्यं दत्त्वा कुट्टिन्याः स्वमातरं मोचयित्वा ग्रामं नीत्वा धर्ममार्गेऽस्थापयत् । वेशिकापुत्र इति स ग्रामे वैशिकायन इति ख्यातो विषयविरक्तस्तापसव्रतमग्रहीत् ।
शास्त्राभ्यासपरो धर्मनिपुणः स क्रमात् कूर्मग्राममाजगाम । तद्ग्रामाद् बहिश्च स ऊर्ध्वबाहुः सूर्यमण्डलन्यस्तदृष्टिर्जटामण्डितः स्थिरो विनयी दयादिगुणसम्पन्नो धर्मध्यानस्थितो मध्याह्ने