________________
६०
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
त्रिः प्रदक्षिणीकृत्य प्रभुं वीरं भक्त्या ववन्दे । तत ईशानेन्द्रो वागुरश्च निजं स्थानं जग्मतुः ।
अथ वीरप्रभुरुष्णाकसन्निवेशमगात् । गच्छतश्च प्रभोस्तत्कालजातविवाहौ विकृताकारौ वधू-वरौ सम्मुखमागतौ । गोशालकश्च तौ प्रेक्ष्य “द्वयोर्विकृताकारयोर्वधू-वरयोः समो योग” इति तयोः पुरोभूय भूयो भूयो ब्रुवन् विदूषक इव जहास । तेन क्रुद्धा वधूवरपक्षाः पुरुषास्तं कुट्टयित्वा चौरमिव मयूरबन्धेन बद्ध्वा वंशगह्वरे चिक्षुपुः । ततो गोशाल उवाच - "प्रभो ! अन्यत्राऽपि दयालुस्त्वं किं मां बद्धं सेवकमुपेक्षसे ?” ततः सिद्धार्थ उवाच - " तव निजदुश्चरितैरेवैषा विपत्" । प्रभुश्चाऽदूर एव गत्वा गोशालं प्रतीक्षमाणस्तस्थौ । वधू-वरपक्षाश्च तं दृष्ट्वा चिन्तयन्ति स्म - " असौ देवार्यस्य सेवकः स्यात्, यतोऽमुमेष प्रतीक्षते " । एवं निश्चित्य च ते गोशालममुञ्चन् ।
ततस्तेन सह विहरन् प्रभुर्गोभूमिं प्राप्तवान् । तत्र गोशालो गोपालान् पप्रच्छ-“म्लेच्छा बीभत्साकारा व्रजशूरा ! एष मार्गः क्व याती"ति वदन्तु । ततो गोपालाः प्रत्यूचुः- “भो ! विना कारणं किमस्मानाक्रोशसि, न त्वमस्माकं श्यालः” । ततो गोशाल प्रत्युवाच“भो ! दासीपुत्राः ! यदि न सहिष्यध्वे तदाऽधिकमाक्रोक्ष्यामि, मया नाऽऽक्रोशः कृतः, एष हि वः स्वभावः " तेन च क्रुद्धास्ते गोशालं कुट्टयित्वा बद्ध्वा च वंशगह्वरेऽक्षिपन् । दयालवोऽध्वन्याश्च तममोचयन् ।
अथ प्रभू राजगृहं गत्वा चतुर्मासक्षपणभृद् विविधाभिग्रहपूर्वकं चतुर्मासीं गमयामास । अन्ते च पुर्या बहिः पारणं विधाय प्रचुरं कर्म निर्जरणीयं ध्यात्वा तन्निर्जरणाय गोशालेन सह
दशमं पर्व चतुर्थः सर्गः
वज्रभूमि - शुद्धभूमि - लाटादिम्लेच्छदेशं जगाम । तत्र च म्लेच्छा नानाविधैरुपसर्गैः प्रभुमुपदुद्रुवुः । प्रभुस्तु तैरुपसर्गेः कृत्वा कर्मनिर्जरणसहायांस्तान् म्लेच्छान् बन्धूनिव मेने ।
अहो ! यस्य पादाङ्गुष्ठप्रेरणमात्रेण मेरुरपि चकम्पे स एव वीरः स्वकर्मभिः पीडितो न मनागपि क्षोभं जगाम । उपसर्गनिवारणाय शक्रेण नियुक्तः सिद्धार्थाख्योऽमरोऽपि गोशालविषय एव शूरोऽभूद्, नाऽन्यदा । प्रभुश्च जगत्पालन-नाशनक्षमं स्वबलमपि तदुपसर्गनिवारणाय कर्मवृद्धिभयाद् न शिश्रिये । शीतघर्मादिभ्यस्त्राणार्थं वसतिमप्यप्राप्नुवन् प्रभुः षण्मासान् यावद् धर्मजागरिकया जाग्रदवतस्थे । तत्र हि प्रभुः शून्यगृहे तरुतले वा धर्मध्यानपरो नवमं वर्षाकालं गमयामास ।
अथ प्रभुस्ततो विहृत्य सिद्धार्थपुरमाजगाम । ततोऽपि च गोशालेन सह कूर्मग्रामं प्रति विजहार । मार्गे च तिलस्तम्बं दृष्ट्वा "अयं निपत्स्यते नवे "ति गोशालः प्रभुं पप्रच्छ । प्रभुश्चाऽपि भवितव्यतावशाद् मौनं त्यक्त्वा जगौ - “भद्र ! निपत्स्यतेऽयं तिलस्तम्बः, किन्त्वस्मिन् सप्ताऽपि पुष्पजीवा अवस्थिताः सन्ति, अस्यां शिम्ब्यां तावन्तस्तिला भविष्यन्ति" । प्रभुवचस्य श्रद्धया च गोशाल उत्खन्य समृदं तं तिलस्तम्बं क्वचिदन्यत्र क्षिप्तवान् । प्रभुवचोऽसत्यं मा जनीति सन्निहितैः सुरैस्तदानीं जलवृष्टिर्विचक्रे । तेन च तिलस्तम्बस्तत्र न तान्तः । तत्प्रदेशेनैव गच्छन्त्या गोः खुरेणाऽऽक्रान्तश्च स तिलस्तम्बः क्लिन्नभूमौ मूलेन प्रविष्टो रोपितोऽभवत् । क्रमात् प्ररूढमूले उद्गताङ्करे च तस्मिन् तिलस्तम्बे तानि पुष्पाणि वर्धन्ते स्म । प्रभुश्च मन्दमतिना गोशालेनाऽनुस्त्रियमाणः कूर्मग्रामं जगाम ।