________________
चतुर्थः सर्गः अथ प्रभुर्वीरो गोशालसेवितो मगधभूमावष्टौ मासान् निरुपसर्ग विजहार । आलभिकायां नगर्यां च प्रभुश्चतुर्मासक्षपणपूर्वकं चतुर्मासी गमयामास । ततश्च पुर्या बहि: पारणं विधाय गोशालेन सह विहरन् कुण्डकग्रामं प्राप्य वासुदेवायतनस्यैकस्मिन् कोणे प्रतिमाधरस्तस्थौ । गोशालश्च स्वभावादेव निर्लज्जो विष्णुप्रतिमां दूषयन् पूजकेनाऽऽगतेन दृष्टः । पूजकश्च तं दृष्ट्वा कोऽप्ययं पिशाचो वा ग्रहगृहीतो वा भवेदिति सम्भाव्याऽऽयतने प्रविवेश । ततश्चारु निरूप्य नग्नत्वाच्छ्रमणोऽयं कोऽपीत्युपलक्ष्य "मयाऽस्य हननेऽदोषो धार्मिकोऽर्चकेन हत' इति लोकापवादः स्यात् । एवं विचिन्त्य ग्रामं गत्वा तद्दर्शनाय जनानानयति स्म । चपेटाभिर्मुष्टिभिश्च ग्राम्यबालैर्हन्यमानः स वृद्धग्रहिलममुं हत्वाऽलमिति मोचितः ।
अथ प्रभुर्मर्दनाख्यं निवेशनं गत्वा बलदेवायतने प्रतिमाधरस्तस्थौ । गोशालश्च तत्राऽपि बलदेवप्रितमां दूषयन् पूर्ववदेव ग्राम्यैः कुट्टितो मोचितश्च वृद्धैः । ततो विहृत्य च प्रभुर्बहुशालाख्यं ग्रामं प्राप्य शालवनोद्याने प्रतिमया तस्थौ । तत्र च शालार्या नाम व्यन्तरी विनैव कारणं क्रुद्ध्वा प्रभोरुपसर्गानकरोत् । श्रान्ता च शान्तकोपा सा प्रभुं पूजयामास ।
दशमं पर्व - चतुर्थः सर्गः
. ५२ प्रभुश्च ततो विहृत्य जितशत्रुनृपेण शासितं लोहार्गलपुरं प्राप । तदा च तस्य नृपस्याऽन्येन नृपेण विरोधोऽभूत् । गोशालेन सहाऽऽगच्छंश्च प्रभुर्मार्गे तत्पुरुषैर्दृष्टः पृष्टश्च प्रतिवचोऽददानो गुप्तचर इति नृपस्य समर्पितः । अस्थिकग्रामात् पूर्वमेवाऽऽगत उत्पलश्च प्रभु दृष्ट्वा वन्दित्वा च जितशत्रु निवेदयामास । ततो नृपोऽपि प्रभु भक्तितो ननाम । प्रभुश्च विहरन् पुरिमतालाख्यं नगरं प्राप । ____ अथ पुरिमताले नगरे पुरा वागुरः श्रेष्ठी तद्भार्या भद्रा चाऽऽस्ताम् । सा च वन्ध्या पुत्रार्थं दानं कुर्वती श्रान्ता । अन्यदा च तौ दम्पती शकटमुखोद्यानं गत्वा रममाणौ भ्रमन्तौ जीर्णं महदायतनं दृष्ट्वा प्रविष्टौ मल्लिनाथस्य प्रतिमां भक्त्या ववन्दाते । “यदि त्वत्प्रसादात् पुत्रः पुत्री वा भविष्यति, तदा त्वच्चैत्यमुद्धरिष्यावहे त्वद्भक्तौ च भविष्याव" इत्यूचतुश्च । ततस्तौ श्रेष्ठिनौ निजगृहं जग्मतुः । तत्राऽऽसन्नाया जिनभक्ताया व्यन्तर्याः प्रभावतश्च श्रेष्ठि विश्वासवर्धनो भद्राया गर्भोऽभवत् । वागुरश्च तत्प्रभृत्येव तद्देवकुलमुद्धा प्रारेभे । स वागुरोऽभिग्रहमादाय प्रत्यहं गत्वा त्रिसन्ध्यं मल्लिप्रतिमा पूजयामास । तं जिनभक्तं ज्ञात्वा च साधवः साध्व्यश्च विहारक्रमेणाऽऽयान्ति स्म । स वागुरोऽपि तान् पूजयति स्म । साधुसम्पर्काच्च तौ श्रेष्ठिदम्पती श्रावकत्वं जगृहतुर्विधि च बुबुधाते।
प्रभुं च तत्र नगरस्य शकटमुखोद्यानस्याऽन्तरे प्रतिमया स्थितं वन्दितुमागत ईशानेन्द्रो वागुरं मल्लिप्रतिमा पूजयितुं गच्छन्तं दृष्ट्वा "प्रत्यक्षं जिनं विहाय तत्प्रतिमार्चनाय किं यासि ? अयं हि चरमस्तीर्थकृद् वीरप्रभुर्विहरनत्र छद्मस्थः प्रतिमया तिष्ठती"त्युवाच । ततो वागुरो लज्जया सङ्कचितगात्रो मिथ्यादुष्कृतमित्युक्त्वा