________________
५६
दशमं पर्व - तृतीयः सर्गः कर्मनिर्जरणं धर्मध्यानं प्रावृतत् । तेन च वीरजिनस्य सर्वलोकावलोकनमवधिज्ञानमभूत् । चरमतीर्थकरस्य देवभवे सहजमवधिज्ञानमेकादशाङ्गीसूत्रार्थधारकत्वं चाऽभवत् । सा कटपूतना च रात्र्यन्ते शान्तकोपा पश्चात्तापयुता प्रभुं भक्त्या पूजयित्वा निजं स्थानं जगाम ।
प्रभुश्च दीक्षायाः षष्ठीं चतुर्मासी गमयितुं भद्रिकापुर्यां गत्वा तपःपरस्तस्थौ । गोशालश्चाऽपि तत्र षष्ठमासादनन्तरं प्रभोर्मिलितः । मुदितश्च स प्रभुं सेवमानः पूर्ववत् तस्थौ । प्रभुश्च विविधाभिग्रहपूर्वकं चतुर्मासक्षपणं कृत्वा वर्षाकालेऽतीते नगर्या बहि: पारणकं चकार
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ प्रभु-रजिनो वैशाल्यां गत्वा कर्मारशालायां जनाननुज्ञाप्य प्रतिमया तस्थौ । तत्र च तदानीं चिराद् रोगी कश्चिल्लौहकारो नीरोगतां प्राप्तः शुभे दिने स्वजनेन सहाऽऽजगाम । तत्राऽग्रे प्रभुं दृष्ट्वा च सोऽचिन्तयत्-"प्रथमदिन एव मम पाखण्डिदर्शनरूपमशकुनं जातं, तदिदमशुभमिहैव पातयामि" । एवं विचिन्त्य सोऽयोघनमुद्यम्य प्रभुं हन्तुमधावत । तदानीं च शक्रः क्व स्वामीति ज्ञातुमवधि प्रयुज्य तं लौहकारं प्रभुं जिघांसुं दृष्ट्वाऽऽगत्य स्वशक्त्या कर्मारस्य शिरस्येव तमयोघनमपातयत् । तेन च महता प्रयत्नेन रोगमक्तोऽपि स कारः पञ्चत्वं प्राप। शक्रश्च प्रभं प्रणम्य निजं धाम जगाम ।
अथ प्रभुस्ततो विहृत्य ग्रामाकसन्निवेशं प्राप्य बिभेलिकोद्याने बिभेलिकाख्ययक्षायतने कायोत्सर्गेणाऽस्थात् । पूर्वजन्मन्यवाप्तसम्यक्त्वश्च स यक्षो दिव्यैः पुष्पादिभि: प्रभुं पूजयामास । ततो विहृत्य च प्रभुः शालिशीर्षं ग्रामं प्राप्योद्याने प्रतिमया तस्थौ । तदा च माघमासः प्रावर्त्तत । तदा च ग्रामे त्रिपृष्ठजन्मनि प्रभोर्भार्या विजयवती बाणमन्तरिकाख्या कटपूतना बभूव । सा च तत्र जन्मनि सम्यक् सन्तोषमप्राप्ताऽमर्षेण मृत्वा भवान् भ्रान्त्वा मनुष्यजन्म प्राप । तत्र बालतप: कृत्वा तत्र ग्रामे व्यन्तरी जाता ।
पूर्ववैराच्च सा प्रभोः पुरस्तापसीरूपं विकृत्य जटावल्कलधारिणी तुषारजलेन शरीरमायित्वा प्रभोरुपरि स्थिता वातं विकृत्याऽङ्गानि कम्पयामास । तेन च प्रभोरुपरि दुःसहा जलबिन्दवः पेतुः । जटाग्राद् वल्कलाग्राच्च पतिता जलबिन्दवः प्रभुं पीडयामासुः । तं शीतोपसर्ग सहमानस्य प्रभोश्च विशेषत:
इति दशमे पर्वणि श्रीमहावीरप्रथमषड्वर्षछास्थविहार
वर्णनात्मकः तृतीयः सर्गः ॥३॥