________________
५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः "अद्याऽस्माकमुपवासः" । ततो गोशालोऽहं भोक्ष्ये इत्युक्त्वा तत्र गत्वा भुञ्जानश्च पिशाच इवाऽतृप्तो ग्राम्यैः सर्वान्नपूर्णमपितं महत् स्थालं भोक्तुमारेभे । सर्वं तद्भक्तं भोक्तुमप्रभवतश्च तस्य शिरसि ग्राम्या: स्वाहारशक्तिमप्यजानन् मूर्त्तिमान् दुष्कालोऽसि किमित्युपहस्य भक्तस्थालं चिक्षिपुः । गोशालश्च तृप्तस्तुन्दं परिमृजन् प्रभुमुपाजगाम । प्रभुश्च जम्बूखण्डाभिधं ग्रामं गत्वा प्रतिमया स्थितवान् । गोशालश्च सदाव्रतान्नं लिप्सुः पूर्ववदेव भोजनं घर्षणं च प्राप। ____ अथ प्रभुः क्रमात् तुम्बाकं सन्निवेशनं प्राप्य बहिः प्रतिमया तस्थौ । गोशालश्च ग्राममगात् । तत्र च बहुश्रुतं वृद्धं सपरिवार पार्श्वशिष्यं नन्दिषेणमुनि गच्छचिन्तां विहाय मुनिचन्द्रवज्जिनकल्पप्रतिकर्मणयत्नं दृष्ट्वा हसित्वा च प्रभुमुपाययौ । नन्दिषेणमुनिश्च रात्रौ चतुष्के कायोत्सर्गेण स्थित आरक्षैर्दृष्टश्चौरबुद्ध्या हतः । तत्क्षणंजातावधिज्ञानो विपद्य दिवं जगाम । गोशालश्च सुरैः कृतं तन्महिमानं दृष्ट्वाऽऽगत्य तच्छिष्यान् भर्त्सनपूर्वकमाख्यत् ।। ____ अथ सगोशालो वीरप्रभुः कूपिकां सन्निवेशं प्राप्तस्तत्राऽऽरक्षैश्चरभ्रान्त्या ताडितः । तेन च लोके 'तरुणैरारक्षैर्देवार्यश्चरभ्रान्त्या निरपराधोऽपि ताड्यते' इति वार्ता प्रवृत्ता । तदानीं च तत्र प्रगल्भा-विजये पार्श्वशिष्ये त्यक्तचारित्रे जीवननिर्वाहाय परिवाट्त्वं प्रपन्ने तिष्ठतः । ते च तां वातां श्रुत्वा मा भद वीरजिन इति शङ्या तत्राऽऽगत्य तथावस्थं प्रभुं दृष्ट्वा च वन्दित्वाऽऽरक्षानूचतुः-"रे मूर्खाः! किं सिद्धार्थपुत्रं महावीरं न जानीथ ? शीघ्रमेनं मुञ्चत, शक्रश्चेद् वृत्तान्तममुं ज्ञास्यति तदा व: शिरःसु वज्रमेव मोक्ष्यति" । तच्छ्रुत्वा चकितैस्तैर्मुक्त: क्षमितश्च प्रभुर्वैशाली नगरी प्रति प्रतस्थे।
दशमं पर्व - तृतीयः सर्गः
अथ मध्ये द्वौ मार्गावभूताम् । तत्र गोशालः प्रभुमवक्-"त्वं मां हन्यमानमपि तटस्थ इवोपेक्षसे, तत्त्वया समं न यास्यामि, तवोपसर्गश्च ममाऽप्युपसर्गा भवन्ति, लोकश्च मामेवाऽऽदौ हन्ति पश्चात् त्वाम् । भोजनमपि च मम क्लेशादेव कदाचिदेव जायते । यः सेवकं प्रति सर्वदैवोदासीनस्तं को नाम सेवेत । अद्यावधि तालवृक्षसेवेव मया कृता त्वत्सेवा मोघा जाता । अतः परं तदहं न करिष्यामि" । तच्छ्रुत्वा स्वामिसक्रान्त: सिद्धार्थ उवाच-"तुभ्यं यद् रोचते तदाचर, ममैषैव रीतिर्नाऽन्यथा जातुचिदपि भाविनी" । ततः प्रभुर्वैशालीपुरीगामिना मार्गेण जगाम, गोशालश्च राजगृह गामिना मार्गेण ययौ ।
अथ गोशालः क्रमाच्चौराणां पञ्चशतीसमाकीर्णं महावनं प्रविवेश । वृक्षारूढश्चौरपुरुषश्च गृध्रवद् दूरत एव तं दृष्ट्वा चौरान् 'नग्नः कोऽप्येती'त्याख्यत् । ततश्चौरा ऊचुः-"अकिञ्चनोऽप्येष न मोक्तव्यः, चरो वा स्यात्, अस्मान् पराभूय गच्छेदितीदमपि न योग्यम्" । ततः समीपे समागतं गोशालं मातुलोऽसि भो इति वदन्तश्चौरा अध्यारुह्य तं वाहयन्ति स्म । तेषां च पृथक् पृथक् वाहनया गोशालोऽर्धमृत इव जातः । चौराश्चाऽन्यतो जग्मुः ।
अथ गोशालो दध्यौ-"आदावेव कुक्कुरेणेव प्रभुहीनेन मया दुःखं प्राप्तम् । प्रभोरुपसर्गादिकं शक्रादयो देवा निवारयन्ति, तदन्तिकस्थस्य ममाऽपि दुःखानि कथञ्चिद् व्यतियन्ति स्म । प्रभुः क्षमोऽपि निमित्तवशाद् मय्युदासीनः मन्दभाग्योऽहं कथं पुन: प्रभुं प्राप्स्यामि, तावत् तमन्वेषयामि" । एवं ध्यात्वा स तद्वनाद् निर्गत्य प्रभुमन्वेष्टुमनवरतं भ्राम्यति स्म ।