________________
दशमं पर्व - तृतीयः सर्गः कपिवत् कौतुकप्रियत्वाद् मौनिनावास्थताम् । ततः स कालहस्ती गोशालं प्रभुं च बद्ध्वा भ्रातुरार्पयत् । मेघश्च सिद्धार्थसेवकः प्रभु दृष्टपूर्वी क्षमयित्वा मुमोच ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: सिद्धार्थस्तमुवाच-'साधु निहन्यसे, तत्र च तवाऽङ्गचापलमेव निमित्तम्" ।
___ अथ प्रभुः कायोत्सर्ग पारयित्वाऽऽवर्त्तग्रामं गत्वा बलभद्रमन्दिरे प्रतिमया तस्थौ । तत्राऽपि गोशाल: पूर्ववदेव बालान् भीषयामास । तत्पितृभिश्च तथैव मत्तगर्दभवत् कुट्टितः । तेषु गतेषु चाऽपि गोशाल: स्वभावस्य दुर्जयत्वात् पुनर्बालांस्तथैव भीषयामास । तत: कुपितास्तत्पितरः समागत्य 'अस्य कुट्टनेनाऽलम्, अस्य स्वाम्येव कुट्टनीयो य एनं न निवारयती"ति मिथो विचार्योत्क्षिप्तलगुडा वीरजिनं प्रत्यधावन् । तदाऽर्हद्रक्तेन तत्रस्थेन व्यन्तरेणाऽधिष्ठितां तन्नाशाय क्रोधादुत्सीरां बलभद्रप्रतिमां दृष्ट्वा भीता विस्मिताश्च पादयोः पतित्वा स्वं निन्दन्तः प्रभुं क्षमयामासुः ।
अथ प्रभुस्ततो विहृत्य चोराकसन्निवेशनं गत्वा विजने प्रतिमया तस्थौ । गोशाले च भिक्षार्थं गन्तव्यं न वेति प्रभुं पृष्टवति सिद्धार्थ उवाच-"अस्माकमद्योपवासो वर्त्तते" । ततो गोशालो बुभुक्षितो भिक्षार्थं ग्रामं प्रविष्टो गोष्ठीभक्तं पच्यमानं दृष्ट्वा भिक्षासमयो जातो न वेति प्रच्छन्नः प्रतीक्षते स्म । तदानीं च तद्ग्रामे महच्चोरभयमभवत् । ग्राम्याश्च प्रच्छन्नं पश्यन्तं गोशालं चौरोऽयमिति सम्भाव्य भृशमकुट्टयन् । ततो गोशाले क्रुधा "मम धर्मगुरोस्तेजसा तपसा वा शीघ्रममीषामयं मण्डपो दह्यतामि"ति शापं दत्तवति प्रभुभक्तैर्व्यन्तरैः स मण्डपो दग्धः ।
अथ वीरजिन: कलम्बुकं सन्निवेशमगात् । तत्र च मेघः कालहस्ती च द्वौ भ्रातरौ शैलपती अभूताम् । तदानीं च कालहस्ती ससैन्यश्चौरमनुधावमानः सगोशालं प्रभुमागच्छन्तं दृष्ट्वा चौराविमावित्याशङ्कय कौ युवामित्यपृच्छत् । प्रभुश्च मौनित्वाद् गोशालश्च
अथ प्रभुरवधे"बहुकर्मनिर्जरणीयमवशिष्यते, सहायान् विना च तद् न शीघ्रं क्षय्यम् । आर्यदेशे च सहाया दुर्लभाः, तदनार्यदेशेषु विहरणीयमि"ति विचिन्त्य स्वभावात् क्रूरपुरुषं लाटदेशं प्रविवेश । तत्र च प्रभुं केचिद् मुण्ड इति जघ्नुः, केचिच्च गूढपुरुष इत्यधरन्, केचिच्च दस्युरयमिति बबन्धुः, केचित् कुतूहलात् स्वामिनं प्रति सारमेयान् मुमुचुः । एवं लोका: प्रभुं यथारुच्युपदुद्रुवुः । प्रभुश्च तैरुपसर्गः कर्मक्षपणादमोदत । गोशालोऽपि च प्रभुमनुसरन् बन्धनताडनादिकाः सर्वा वेदना: सेहे । एवं तत्र प्राचुर्येण कर्मनिर्जरां विधाय कृतकृत्य इव प्रभुः पुनरार्यदेशमभिजगाम ।
अथाऽऽर्यदेशं प्रति गच्छन्तं प्रभुं पूर्णकलशग्रामान्तिके लाटदेशं प्रविक्षन्तौ द्वौ चौरौ दृष्ट्वा दुःशकुनमेतदिति जिघांसयोद्यतासी अधावताम् । तदानीं च शक्रः कथमद्य स्वामी वर्त्तते इति चिन्तापरोऽवधिना प्रभुं हनिष्यन्तौ तौ तस्करौ दृष्ट्वा सद्यो वज्रेण जघान । ततः प्रभुः क्रमाद् भद्दिलपुरं गत्वा चतुर्मासोपवासेन वर्षाकालं गमयामास ।
अथ प्रभुः पारणां कृत्वा विहारक्रमतः कदलीसमागमाख्यं ग्रामं प्रापत् । तत्र चाऽथिभ्यः सदाव्रतभोजनं दीयमानं दृष्ट्वा गोशाल उवाच-"प्रभो ! अत्रैहि, भुज्यताम्" । तत: सिद्धार्थ उवाच