________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
सदयैस्तैः पुनस्तत्र प्रवेशितः । स मुहूर्त्तेन गतशीतश्च पुनस्तथैवोवाच । ततस्तैः पुनस्तथैव नि:सारितस्तथैव प्रवेशितश्च । एवं ते क्रोधाऽनुकम्पाभ्यां तस्यैवं त्रिश्चक्रुः चतुर्थवारे च गोशालस्तानुवाच“यथार्थकथनेऽपि युष्माकं कः कोप: ? निजदुराचाराय किं न कोपं कुरुथ ? पुनः पुनश्च स्पष्टवादिने मह्यं द्रुह्यथ" ।
५०
ततस्तत्कुट्टनेच्छयोत्तिष्ठतो यूनो निवारयन्तो वृद्धा ऊचुः - अयं तपोराशेर्देवार्यस्योपासकः सेवको वा, अयं स्वेच्छया ब्रवीतु, अनेन सह भाषितेनाऽलं, यदि श्रोतुं न सहध्वे तर्हि वाद्यवादनं कुरुध्वम्" । ततस्तेऽपि तथैव चक्रुः । सूर्योदये जाते च प्रभुः श्रावस्तीं गत्वा प्रतिमया तस्थौ ।
अथ भोजनावसरे प्राप्ते गोशालो भिक्षार्थं प्रभुमाजुहाव । सिद्धार्थश्च पूर्ववदेव 'वयमुपोषिता' इत्युवाच । ततो गोशालो ममाऽद्य कीदृश आहार इत्यपृच्छत् । ततः सिद्धार्थ उवाच“मनुष्यमांसं भक्षयिष्यसि” । तच्छ्रुत्वा गोशाल उवाच - “अद्याऽत्र मांसगन्धोऽपि न भवेत् तत्र भोक्ष्ये" । ततो गोशालो भिक्षार्थं श्रावस्तीं प्राविशत् । इतश्च तस्यां पुरि पितृदत्तो गृहमेध्यासीत् । तत्पत्नी श्रीभद्रा च मृतवत्सा शिवदत्तं दैवज्ञं ममाऽपत्यं कथं जीवेदित्यपृच्छत् । ततः स उवाच - "जातमृतं शिशुं सासृक्पलं पिष्ट्वा क्षीरेण सर्पिर्मधुसहितं पायसीकृत्य धूलिधूसरितपादाय सुसाधवे भोक्तुं दत्ते चेत् तवाऽपत्यानि निश्चयेन जीविष्यति । तस्मिन् साधौ भुक्त्वा गते सति त्वया गृहद्वारमन्यथा कार्यं येन भोज्यं ज्ञात्वा स तव गृहं क्रोधाद् न दहेत्" ।
ततः सा पुत्रार्थिनी स्वं मृतबालं पायसीकृत्य समागताय गोशालाय भक्त्या ददौ। स च तत्पायसं भुक्त्वा गत्वा च 'चिराद्
दशमं पर्व तृतीयः सर्गः
भ्रान्तोऽसीति प्रभुमवोचत् । ततः सिद्धार्थेन तत् पायसं यथाकृतं तद् वर्णितम् । तच्छ्रुत्वा च गोशालो मुखेऽङ्गुलिं कृत्वा तद् ववाम। तत्र च नखाद्यवयवान् दृष्ट्वा क्रुद्धस्तद् गृहमन्वेष्टुं गतः । किन्तु द्वारस्याऽन्यथाकरणात् तद् गृहं नाऽज्ञासीत् । ततः स उवाच"यदि मद्गुरोस्तपस्तेजश्च तर्ह्येष सकलोऽपि प्रदेशो दह्यताम् " । ततस्तत्रत्याः सन्निहिता व्यन्तरदेवाः प्रभोर्माहात्म्यं मा हीयतामिति तं सर्वं प्रदेशमदहन् ।
अथ प्रभुस्तत्र किञ्चित् स्थित्वा हरिद्रुकं ग्रामं गत्वा बहिर्हरिद्रवृक्षतले प्रतिमयाऽस्थात् । तदानीं च तद्वृक्षतले श्रावस्तीं नगरीं गमिष्यन् महासार्थोऽपि न्यवात्सीत् । स च रात्रौ शीतभयादग्नि प्रज्वालयामास । प्रातश्चोत्थायाऽग्रे ययौ । प्रमादाच्चाऽविध्यापितः सोऽग्निः क्रमात् प्रसरन् वीरजिनमुपागतः । तद् दृष्ट्वा च गोशालो ‘भगवन् ! पलायस्व पलायस्व, एषोऽग्निरभ्येती'ति वदन् शीघ्रं काकनाशं नंष्ट्वाऽन्यत्र जगाम । प्रभुश्च तद्वचः श्रुत्वाऽपि तमग्नि ध्यानाग्निमिव कर्मदारुदाहाय चिन्तयन्नप्रकम्पोऽस्थात् । तेनाऽग्निना च प्रभोः पादौ श्यामलीकृतौ ।
अथ तस्मिन् वह्नावुपशान्ते प्रभुर्गोशालेन सहितो लाङ्गलाख्यं ग्रामं गत्वा विष्णुमन्दिरे प्रतिमया तस्थौ । गोशालश्च क्रीडया समागतान् ग्राम्यबालान् कौतुकात् प्रेतवद् विकृतं रूपं विधाय भीषयते स्म । भयाद् ग्रामं पलायितेषु बालेषु तत्पितर आगत्य गोशालं तथारूपं दृष्ट्वा 'किं बालांस्त्रासयसी'ति निर्भर्त्स्य भृशमकुट्टयन् । वृद्धाश्च प्रभुं दृष्ट्वा मुच्यतामयं देवार्यस्य सेवकः कोऽपि सम्भाव्यते' इति तान् निवारयामासुः । ततस्तैर्मुक्तो गोशाल उवाच- “प्रभो ! वज्रवद् निष्ठुरोऽसि यद् मां हन्यमानमुपेक्षसे" ।