________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो गोशालो विलक्षो गत्वा प्रभुमुवाच-"युष्मान् निन्दन्तो मया दृष्टास्तपस्विनो 'युष्माकमयमुपाश्रयो दह्यतामिति क्रोधादाकृष्टाः । किन्तु तेषामुपाश्रयो न दग्धः, तत्र किं कारणम् ?" तच्छ्रुत्वा सिद्धार्थ उवाच-'ते पार्श्वस्वामिनः शिष्याः, तत्त्वद्वचसा तेषामुपाश्रयः कथं दहतु ?" अत्राऽन्तरे निशा प्रववृते । मुनिचन्द्रसूरयचोपाश्रयाद् बहिर्गत्वा प्रतिमयाऽस्थुः । कुलाल: कूपनयश्च पानगोष्ठ्यामागलं पीतमद्यो मत्तः समागच्छन् मुनिचन्द्रसूरं दृष्ट्वा तं चौरबुद्ध्या गले गृहीत्वा निरुच्छ्वासीचकार । स सूरिश्च वेदनां सहमानः शुभध्यानस्थोऽवधिज्ञानमाप्य विपद्य दिवं जगाम । तस्योपरि च समीपस्था व्यन्तराः पुष्पाणि वर्षन्तो महिमानं चक्रुः ।
गोशालश्च विद्युत्पङ्क्तिमिव गगने तेजस्विनी देवश्रेणिं दृष्ट्वा प्रभुमुवाच-"प्रभो ! किं त्वद्विद्विषामुपाश्रयो दह्यते ? यद् व्योमज्वालाकुलं वर्तते" । ततः सिद्धार्थो जगौ-"मैवं वोचः, मुनिचन्द्रो दिवं गतोऽस्ति, तस्य महिमानं कर्तुं तेजोरूपाः सुराः समेता एते"। गोशालश्च कौतुकात् तद् द्रष्टुं तत्र ययौ । तावच्च देवाः स्वस्थानं ययुः। तत्र च स गोशाल: पुष्पादिवृष्टिं दृष्ट्वा प्रमुदितो गत्वा प्रतिश्रये सुप्तान् मुनिचन्द्रशिष्यानुवाच-'किं यूयं शिष्यहतका मुण्डा दिने यदृच्छया भिक्षान्नं भुक्त्वा रात्रावजगरा इव सदा शेरते, एतदपि न जानीथ यत् सूरिविपन्नः । कुलीनानां युष्माकमियं गुरौ महती भक्तिः" । ततस्ते मुनयस्तच्छब्दादुत्थिता: कोऽयं पिशाचवद् वक्तीति तर्कयन् गुरुसमीपं गत्वा तं विपन्नं दृष्ट्वा चाऽऽत्मानं भृशं निनिन्दुः । गोशालोऽपि च लब्धावसरस्तान् निर्भय॑ प्रभुमुपेयाय । प्रभुश्च ततो विहृत्य चोराकनिवेशं ययौ ।
दशमं पर्व - तृतीयः सर्गः
अथ तत्र शत्रुनृपभयाश्चौरान्वेषिभिरारक्षैः सगोशालः कायोत्सर्गस्थितः प्रभुर्दृष्टः । तैः कोऽसीति पृष्टोऽपि प्रभुमौनाभिग्रहाद् न किञ्चिदवोचत् । ततस्तेऽयं कस्याऽपि गुप्तचरो यद् मौनी न किमपि वक्ती'ति सगोशालं प्रभुं जगृहुः । गोशालं च बद्ध्वा कूपे निचिक्षिपुर्घटीवन्यञ्चनोदञ्चनानि च चक्रुः । तदा च तत्र पार्श्वशिष्ये उत्पलस्य भगिन्यौ सोमा-जयन्तिके साध्व्यौ चोराकनिवेशेऽवसताम् । ते च "मुनिवेषौ नरौ जले क्षेपणादिनाऽऽरक्षैः पीडयेते" इति श्रुत्वा चरमस्तीर्थकरः स्यात् किमिति शङ्कया तत्राऽऽगत्य प्रभुं तथावस्थं दृष्ट्वाऽऽरक्षानूचतु:-"भो मूर्खा: इमं सिद्धार्थनृपपुत्रं न जानीथ किम् ?" ततस्ते भयात् प्रभुं मुक्त्वा नत्वा चाऽक्षमयन् । प्रभुश्च तत्र कतिचिद्दिनानि व्यतीत्य चतुर्थ वर्षाकालमत्येतुं पृष्ठचम्पापुरी जगाम । तत्र चतुर्मासक्षपणकृद् द्विविधप्रतिमामाश्रितश्चतुर्मासी न्यवात्सीत् । चतुर्मास्यन्तदिने च पारयित्वा प्रभुः क्वचिद् बहिर्जगाम ।
अथ तस्मिन्नगरे दरिद्रस्थविराख्या राग-द्वेषादिग्रस्ताः सपरिवारा: पाखण्डिनो वसन्ति स्म । तत्पाटकस्य मध्ये च तेषां कुलदेवताप्रतिमासनाथं महन्मन्दिरमासीत् । प्रभुश्च तन्मन्दिरस्य कोणे तत्स्तम्भ इव निष्कम्प: कायोत्सर्गेण तस्थौ । तदानीं च माघे मासि रात्रौ सुदुस्सहं शीतमासीत् । देवकुले महोत्सवश्चाऽऽसीत् । ते पाखण्डिनश्च सपरिवारास्तदायतने प्रमोदात् सम्भूय नृत्य-जागरणादिकं चक्रुः ।
ततो गोशालो हसन्नुवाच-"इमे पाखण्डिनः, यदेषां पत्न्योऽपि मद्यं पीत्वा नृत्यादिकं कुर्वन्ति" । तच्छ्रुत्वा च क्रुद्धास्ते गोशालं कण्ठे गृहीत्वा गृहात् श्वानमिव निरसारयन् । ततश्च गोशाल: शीतेन हकारवत् सङ्कुचितगात्रो दन्तपङ्क्ति वादयन्