________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
त्कटिकादिभिरासनैश्च समाधिस्थो मुक्त इवाऽस्थात् । पुर्या बहिश्च द्वितीयं द्विमासक्षपणपारणं कृत्वा प्रभुर्गोशालेन सह कोल्लाकसन्निवेशनमगात् । तत्र च रात्रौ प्रभुः शून्ये गृहे प्रतिमया तस्थौ । गोशालस्तु तद्द्वारे कपिरिव चञ्चलो विलीय तस्थौ ।
४६
तदानीं च तत्र नवयौवनो ग्रामणीपुत्रः सिंहो विद्युन्मत्या दास्या सह रिरंसुरागत्याऽवोचत् - " योऽत्र श्रमणो द्विजो वा पान्थो वाऽस्ति स वक्तु, येन वयमन्यत्र यामः " । किन्तु प्रभुः कायोत्सर्गस्थितत्वाद् मौन्येवाऽभूत् । गोशालश्च तच्छ्रुत्वाऽपि च्छलादुत्तरं न ददौ । सिंहश्च प्रतिवचोऽप्राप्य तत्र तया दास्या सह चिरं रन्त्वा क्षणं स्थित्वा च तद्गृहाद् निर्गन्तुं प्रावृतत् । द्वारदेशस्थो गोशालश्च स्वभावतो दुष्टधीश्चञ्चलश्च निर्गच्छन्तीं विद्युन्मतीं दासीं पाणिनाऽ स्पृशत् । ततस्तया 'स्वामिन् केनाऽपि स्पृष्टाऽस्मीत्युक्तः सिंहो गोशालं धूत्वोवाच- ' रे ! त्वं किं छद्मना प्रच्छन्नो भूत्वाऽऽवयोश्चरित्रमद्राक्षीः, भाषितोऽपि चोत्तरं नाऽदाः' । एवमुक्त्वा तं कुट्टयित्वा सिंहः स्वस्थानं ययौ ।
गोशालश्च प्रभुमाह- "तव पश्यत एवाऽहं हतोऽस्मि' । ततः प्रभुसङ्क्रान्तः सिद्धार्थोऽवादीत् - "शीलं किं न ममेव पालयसि ? एवं द्वारस्थश्चाञ्चल्यमाश्रयन् किं न कुट्टितः स्याः” । ततः प्रभुस्ततो निर्गत्य पत्रकालाख्यं ग्रामं गत्वा तत्र रात्रौ शून्यगृहे प्रतिमयाऽस्थात् । गोशालश्च भयात् कोणे निलीय तत्र तस्थौ ।
अथ तत्र तदा ग्रामणीपुत्रः स्कन्दो दन्तिलया दास्या सह रन्तुं तत्राऽऽगतः सिंहवदेवोवाच न च कोऽपि तस्योत्तरं ददौ । ततः स्कन्दो रन्त्वा निरगात् । गोशालश्चोच्चैर्जहास । तेन च क्रुद्धः
दशमं पर्व तृतीयः सर्गः
स्कन्दः 'पिशाचवत् प्रच्छन्नः स्थित्वा कोऽयमुच्चैर्हसती 'ति ब्रुवन् गोशालं कुट्टयित्वा स्वगृहमगात् । ततो गोशालः प्रभुमुपालेभे" किमेष स्वामिधर्मो यद् निर्दोषं हन्यमानं मां न त्रायसे" । ततः सिद्धार्थः पुनरुवाच - "भो मूर्ख ! त्वं स्वमुखदोषेणैव तित्तिरिरिव ताडनमाप्नोषि" । ततो भगवान् वीरस्ततो विहृत्य कुमारसन्निवेशं गत्वा चम्पकरमणीयोद्याने प्रतिमया तस्थौ ।
तत्र
अथ तत्र धनाढ्यः कुम्भकारः कूपनयो नाम मद्यकीटवदेव मद्यप्रिय आसीत् । तथा तदा तच्छालायां पार्श्वनाथशिष्यो बहुश्रुत मुनिचन्द्राचार्यः शिष्यगणैः सहितः स्थित आसीत् । स सूरिश्च शिष्यं गणे स्थापयित्वा स्वयं वर्धनाख्यमतिदुष्करं जिनकल्पप्रतिकर्म चकार । स एकदा साम्यभेदानां तपः सत्त्व- सूत्र - कत्व- बलानां मध्ये सत्त्वेन स्वं भावयन् समाधिस्थोऽस्थात् । इतश्च गोशालः प्रभुमुवाच- 'मध्याह्नो जात:, तद्भिक्षायै ग्रामं यामि" । ततः सिद्धार्थ उवाच- 'अहमद्योपोषितोऽस्मि' । ततो गोशालो बुभुक्षितो भिक्षार्थं ग्रामं प्रविवेश । च विचित्रवस्त्रान् पार्श्वशिष्यान् दृष्ट्वा के यूयं पात्रादिधारिण' इत्यपृच्छत् । ते च 'वयं निर्ग्रन्थाः पार्श्वशिष्या' इत्यूचुः । ततो गोशालो हसन्नुवाच - " मिथ्यावाचो वो धिक्, वस्त्रादिग्रन्थधारिणोऽपि यूयं कथं निर्ग्रन्थाः ? तदियं युष्माकं जीविकार्थं पाखण्डकल्पनैव । मम धर्माचार्यो यथा वस्त्रादिसङ्गरहितो वपुष्यपि निःस्नेहः, तथैव निर्ग्रन्था भवन्ति । ततस्ते वीरजिनमजानन्तः प्रत्यूचुः - " यादृशो भवान् तव धर्माचार्योऽपि तादृगेव गृहीतलिङ्गः किमु" । तेन च क्रुद्धो गोशालः शशाप - "मम धर्मगुरोस्तपस्तेजसा वोऽयमुपाश्रयो दह्यताम् । ततस्ते ऊचु:"तव वचनाद् वयं न दग्धाः स्याम" ।