________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सारमेय इव प्रतिगृहं बभ्राम । कुत्राऽपि किञ्चिदप्राप्तः श्रान्तः सोऽपराह्ने केनाऽपि कर्मकरेण स्वगृहे नीत्वा धान्याम्लकोद्रवकूरैभजितो दक्षिणायामेकं कूटं रूपकं च प्राप्तवान् । रूपकं परीक्ष्य कूटमिति ज्ञात्वा च लज्जितो यद् भावि तद् भवतीति नियतिवादमग्रहीत् ।
४४
अथ प्रभुक्षातो द्वितीयं वर्षाकालमतीत्य नालन्दाया निर्गत्य कोल्लाकसन्निवेशनमगात् । तदा च बहुलो नाम विप्रः स्वगृहे महादरेण विप्रानभोजयत् । प्रभुश्चाऽपि भिक्षार्थं तत्राऽऽययौ । ततः स सशर्कराघृतपायसेन प्रभुं प्रत्यलाभयत् । तदा देवास्तद्गृहे वसुधारादीनि पञ्च दिव्यानि चक्रुः । एवं प्रभुश्चतुर्थमासक्षपणपारणं
चकार ।
इतश्च गोशालः सन्ध्याकाले लज्जया शनैः प्रविशन् प्रभुं च तत्राऽनवलोक्य क्व प्रभुरिति लोकान् पप्रच्छ । कुतोऽपि च प्रभोर्वृत्तमलभमानः स तमन्वेष्टुं नालन्दासन्निवेशने चिरं बभ्राम । पुनरेकाकी जातोऽस्मीति ध्यात्वा च स शिरो मुण्डयित्वा वस्त्रं च त्यक्त्वा ततो निरीय कोल्लाकं गतोऽश्रौषीत्- “धन्योऽयं बहुलो द्विज:, यस्य गृहे मुनये दानाद् देवै रत्नवृष्टिः कृता" । तच्छ्रुत्वा च सदध्यौ - " अयं प्रभावो मद्गुरोरेव, नाऽन्यस्य कस्यचित् । तस्मात् स नूनमत्रैवाऽस्ति" ।
एवं विचार्य स मृगयमाण एकत्र कायोत्सर्गस्थं प्रभुं दृष्ट्वा प्रणम्योवाच - " पुराऽहं दीक्षायोग्यो न भवामि, सम्प्रति च वस्त्रादित्यागादसङ्गो जातोऽस्मि, मां शिष्यं कुरु, मम यावज्जीवं गुरुर्भव, त्वां विना मनागपि स्थातुं न प्रभवामि । यद्यपि त्वं गतरागस्तथाऽपि
दशमं पर्व - तृतीयः सर्गः
मम मानसं त्वामेवाऽऽ श्रयति" । ततः प्रभुस्तस्य भव्यत्वाय तद्भावं च जानन् तद्वचोऽनुमेने । ततः प्रभुर्गोशालेन सह स्वर्णखलं प्रति
चचाल ।
अथ मार्गे गोपैः पच्यमानं पायसं प्रेक्ष्य गोशाल उवाच"अहं क्षुधितोऽस्मि, तदत्राऽऽवां पायसभोजनं कुर्वः” । ततः प्रभुसङ्क्रान्तः सिद्धार्थ आह- "इदं पायसं न निष्पत्स्यते" । ततो गोशालो मन्दमतिः समेत्य गोपालानुवाच - " अयं त्रिकालज्ञो देवार्यो वदति यदिदं पात्रमपक्वभाण्डवदर्धस्विन्नपायसमेव स्फुटिष्यति” । ततो भीता गोपालास्तां स्थालीं वंशपर्णैर्बबन्धुः । किन्तु भूयिष्ठेषु क्षिप्तेषु तण्डुलेषु विक्लिद्यमानेषु सा स्थाली पुस्फोट । ततो गोपाः कर्परेषु पायसमादाय स्वयं बुभुजिरे । गोशालश्च तदलाभाद् दृढं नियतिवादमग्रहीत् ।
अथ प्रभुस्ततो ब्राह्मणग्राममगात् । तत्र च द्वौ पाटकावास्ताम्। तयोश्च भ्रातरौ नन्द उपनन्दश्चाऽऽस्ताम् । तत्र षष्ठपारणार्थं नन्दपाटके प्रविष्टः प्रभुर्नन्देन दधिकूरेण प्रतिलम्भितः । गोशालश्चाऽन्यस्मिन् पाटके प्रविष्टो विशालमुपनन्दस्य गृहं दृष्ट्वाऽऽदरात् तत्र भिक्षार्थं प्रविष्टवान् । उपनन्दस्य निदेशेन च दासी तस्योषितं कूरं ददौ । तदनादाय स दुष्टमतिरुपनन्दं शशाप । तत उपनन्द उवाच - " यद्ययं भक्तं न गृह्णाति तदाऽस्य शिरसि तत् क्षिप" । साऽपि तथैव चकार । ततः कुपितो गोशाल उवाच - "यदि मद्गुरोस्तपस्तेजो वाऽस्ति तर्हि सद्य एवाऽस्य गृहं दह्यताम् " । ततो व्यन्तरास्तत्रस्था: प्रभुनामग्रहणाच्छापो मोघो मा भूदिति तद्गृहं तृणपूलवदधाक्षुः ।
अथ प्रभुर्विहृत्य चम्पां प्राप्तवान् । तत्र च तृतीयं वर्षाकालं द्विमासक्षपणद्वयं प्रतिज्ञायोवास । तत्र च प्रभुः कायोत्सर्गेणो