Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ ७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भुवं ताडयित्वा चमरमुवाच-"विश्वाभयदः प्रभुः श्रितः । मया वैरं विहाय स्वपुरं गत्वा सुखेन तिष्ठ" । एवं चमरमाश्वास्य शक्रः पुनः प्रभुं नत्वा स्वस्थानं जगाम । चमरश्च प्रभोः पादाभ्यां निर्गत्य प्रणम्य प्रभुमुवाच-"त्वमेव मम प्राणदोऽसि, त्वत्पादं प्रपन्ना भवादपि मुच्यन्ते, वज्राद् मम त्राणं कियत् । पूर्वजन्मकृतबालतप:प्रभावादसुरेन्द्रत्वमपि मेऽज्ञानानुविद्धम् । तथाऽपि मम त्वत्प्रपत्ति: श्लाघ्या । त्वत्प्राप्तिर्हि सर्वस्याः प्राप्तेः श्रेयसी" । एवं भक्त्या प्रभु स्तृत्वा नत्वा स चमरेन्द्र: स्वां चमरचञ्चापूरी जगाम। तत्र च सिंहासनासीनो लज्जानम्रमुख: सामानिकादीन् प्राह-"यथा शक्रो युष्माभिर्वर्णितः, स तथैवाऽस्ति । मया मोहात् तद् न ज्ञातम् । वीरं शरणं प्रपद्यैव तद्वज्राद् मम मुक्तिरभूत्" । एवमुक्त्वा चमरः सपरिवारः प्रभुमुपेत्य नत्वा सङ्गीतं विधाय पुनः स्वनगरं जगाम । अथ प्रभुः प्रातरेकरात्रिकी प्रतिमां पारयित्वा विहरन् भोगपुराख्यं नगरं प्राप । तत्र च माहेन्द्रक्षत्रियः प्रभुं दृष्ट्वा मन्दमति: खर्जूरीयष्टिमुत्पाट्य प्रजिहीर्षुर्धावमान: प्रभुदर्शनार्थमागतेन सनत्कुमारेन्द्रेण दृष्टो निर्भत्सितो ववले । स इन्द्रश्च प्रभुं नत्वा सुखविहारं पृष्ट्वा च स्वं धाम ययौ । ___ अथ वीरजिनो विहरन् नन्दिग्रामं प्राप्तः पितृमित्रेण नन्दिना भक्त्या पूजितः । ततो विहत्य च वीरप्रभुपेंढकग्रामं प्राप्तवान् । तत्र च गोपालः केशकृतरज्जुमादाय प्रभुं हन्तुं दधावे । तदानीं च शक्रः कूर्मग्रामवदाशु तत्राऽऽगत्य गोपं निवार्य प्रभुं ननाम । वीरप्रभुः ततो निर्गत्य कौशाम्बी नगरी जगाम । तत्र च शतानीको नाम नृप आसीत् । चेटकनृपस्य कन्या मृगावती च दशमं पर्व - चतुर्थः सर्गः तस्य राज्ञो महिषी जिनभक्ता श्राविकाऽऽसीत् । तथा तन्नृपमन्त्रिण: सुगुप्तस्य भार्या नन्दा श्राविका मृगावत्याः सखी बभूव । तन्नगरे धनवाहो नाम महाढ्यः श्रेष्ठी चाऽऽसीत् । तद्भार्या च गृहकर्मनिपुणा मूला नाम बभूव । प्रभुश्च तत्र पौषकृष्णप्रतिपत्तिथौ दुष्करमभिग्रहं जग्राह-"यदि लौहशृङ्खलबद्धपादा, मुण्डिता, कृतानशना, शोकेन रुदती, दासीत्वमापना नृपकन्या, देहल्यन्तः कृतैकपादा बहि: स्थिताऽपरपादा, सर्वेष्वेव भिक्षाचरेषु साधुप्रभृतिषु गृहात् प्रतिनिवृत्तेषु, शूर्पकोणेन मा कुल्माषान् चिरादपि दास्यति तदैवाऽहं पारयिष्यामि नाऽन्यथे"ति । एवमभिग्रहं गृहीत्वा प्रभुः प्रतिदिनं यथाकालं नानागृहेषु पारणार्थं भ्रमति स्म । पौराश्च दीयमानामपि भिक्षामभिग्रहवशात् प्रभावनाददाने स्वं निन्दन्तस्ताम्यन्ति स्म । प्रभुश्चैवं भिक्षामगृह्णन् द्वाविंशति परीषहान् सहमानश्चतुरो मासान् यामानिव व्यतीयाय । ___ अथाऽन्यदा प्रभुभिक्षार्थं सुगुप्तमन्त्रिगृहे प्रविष्टो दूरादेव नन्दया दृष्टः । ततो नन्दा स्वं भाग्यं वर्णयन्ती हर्षात् प्रभुमभ्युदतिष्ठत् । तथा कल्प्यान्यन्न-पानादीन्यानयति स्म । प्रभुश्चाऽभिग्रहवशात् तान्यगृहीत्वैव ततो निर्गतवान् । ततो नन्दाऽपूर्णमनोरथा खिन्ना स्वं बहु निनिन्द । तां च तादृशीं दास्युवाच-"अयं देवार्यः प्रतिदिनमेव भिक्षामगृहीत्वैव गृहाद् निर्याति न पुनरद्यैव" । ततो नन्दा विशिष्टाभिग्रहवशात् प्रभुभिक्षां नाऽऽदत्ते इत्यनुममौ । ततः प्रभोरभिग्रहः कथं ज्ञेय इति चिन्तया सा म्लानवदना तस्थौ । सुगुप्तश्च तां तथावस्थां दृष्ट्वा कारणं पप्रच्छ । नन्दा च विशेषाभिग्रहवशात् प्रभुभिक्षामगृहीत्वैव गृहाद् निर्याति, तत्तस्य

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147