Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
दशमं पर्व - द्वितीय: सर्गः तस्थौ । देवेन्द्राश्च पृष्ठे वैडूर्यदण्डान्यष्टोत्तरसहस्रशलाकानि श्वेतच्छत्राणि दधुः । शिबिकायाः पार्श्वयोश्च सौधर्मेशानेन्द्रौ धृतचामरौ तस्थतुः । ततः सहस्रबाह्यां तां शिबिकामेकतो नरा अन्यतश्च शक्राद्या उद्दध्रुः। शक्रः शिबिकां दक्षिणेनेशानेशश्चोत्तरेणोपरिष्टाज्जग्राह । चमर-बली च दक्षिणोत्तरयोरधो दधतुः । अन्ये देवाश्चाऽपि यथोचितं शिबिका
२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रार्थितवान् । प्रभुश्च भवोद्विग्नो न राज्यं स्वीचकार । तदा मन्त्रिभिनन्दिवर्धनो राजा चक्रे । ततः प्रभुश्चिरादभिलषितां प्रव्रज्यां ग्रहीतुं भ्रातरमापप्रच्छे ।
ततो नन्दिवर्धन उवाच-"पितरावद्याऽपि न विस्मृतौ, सर्वोऽपि जनोऽहमिव शोकाकुलः, तदिदानी स्ववियोगेन किं कदर्थयसि" । ततः प्रभुयेष्ठस्य भ्रातुर्युःखं मा भूदिति भावयतिः कायोत्सर्गधरो, ब्रह्मचर्यं परिपालयन् स्नानादिक्रियारहितो, विशुद्धध्यानमग्न, एषणीयप्रासुकान्नमात्रवृत्तिवर्षमेकं कथमपि गृहवासं चकार ।
___ अथ लोकान्तिकामरैस्तीर्थं प्रवर्त्तयेति प्रार्थितः प्रभुर्वार्षिक दानं ददौ । ततो देवैर्नन्दिवर्धनादिनृपैश्च वीरप्रभोर्यथाविधि दीक्षाभिषेकः कृतः । तदानीं च नन्दिवर्धनो भ्रातुर्विरहदुःखेनाऽऽकुल: स्वपुरुषान् सुवर्णवेदिकास्तम्भादियुक्तां ध्वजादिविभूषितां पञ्चाशद्धनुर्दी| षट्त्रिंशद्धनुरुन्नतां पञ्चविंशतिधनुर्विस्तृतां चन्द्रप्रभाख्यां वीरासनयोग्यां शिबिकां विधेहीत्यादिशत् । ते च शीघ्रमेव तादृशीं शिबिकां कारयामासुः । शक्राश्चाऽपि तादृशीमेवैकामन्यां शिबिकामकारयत् । ततः प्रथमायां शिबिकायां द्वितीयाशिबिका नद्यां नदीव क्षणादन्तर्बभूव । ततः प्रभुः शिबिकां प्रदक्षिणीकृत्याऽधिरुह्य च प्राङ्मुखः सपादपीठं सिंहासनमलञ्चकार ।
तदानीं च प्रभुः श्वेतवस्त्र-रत्नाभरणादिभूषितो नितरां शुशुभे । कुलमहत्तराश्च दक्षिणत: शुचिवस्त्राभरणभूषितास्तत्र निषेदुः । एका चाऽङ्गना विमलवस्त्रालङ्कारा प्रभोर्मूर्धनि छत्रं दधार । द्वे ललने च स्वर्णाभरणभूषिते प्रभोः पार्श्वयोश्चामरे धारयामासतुः । वायव्यदिशि चैका रूप्यभृङ्गारपाणिस्तस्थौ । अन्या च दक्षिणपूर्वदिशि व्यजनधरा
ततो देवाद्यैरुह्यमानया तया शिबिकया प्रभुतिखण्डवनं नामोपवनं प्राप । तदुद्यानं प्रविश्य शिबिकाया उत्तीर्य च प्रभुभूषणान्यत्यजत् । देवेन्द्रश्च प्रभोः स्कन्धे देवदूष्यं निदधे । ततः प्रभुः पञ्चभिर्मुष्टिभिः केशानुच्चखान । शक्रश्च देवदूष्ये तान् गृहीत्वा क्षीरोदधौ चिक्षेप । तत आगत्य तेन तुमुले निषिद्धे च प्रभुः सिद्धनमस्कारं कृत्वा चारित्रमग्रहीत् ।
जन्मतस्त्रिंशद्वर्षेऽतीते मार्गे मासि कृष्णपक्षे दशम्यां चित्रास्थे चन्द्रे दिवसस्याऽन्तिमे प्रहरे कृतषष्ठतपसः प्रभोश्चारित्रेण सह चतुर्थं मनःपर्ययज्ञानं समुदभवत् ॥ २ ॥
इति दशमे पर्वणि श्रीमहावीरजन्म-प्रव्रज्यावर्णनात्मको
द्वितीयः सर्गः ॥२॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147