Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ चतुर्थः सर्गः अथ प्रभुर्वीरो गोशालसेवितो मगधभूमावष्टौ मासान् निरुपसर्ग विजहार । आलभिकायां नगर्यां च प्रभुश्चतुर्मासक्षपणपूर्वकं चतुर्मासी गमयामास । ततश्च पुर्या बहि: पारणं विधाय गोशालेन सह विहरन् कुण्डकग्रामं प्राप्य वासुदेवायतनस्यैकस्मिन् कोणे प्रतिमाधरस्तस्थौ । गोशालश्च स्वभावादेव निर्लज्जो विष्णुप्रतिमां दूषयन् पूजकेनाऽऽगतेन दृष्टः । पूजकश्च तं दृष्ट्वा कोऽप्ययं पिशाचो वा ग्रहगृहीतो वा भवेदिति सम्भाव्याऽऽयतने प्रविवेश । ततश्चारु निरूप्य नग्नत्वाच्छ्रमणोऽयं कोऽपीत्युपलक्ष्य "मयाऽस्य हननेऽदोषो धार्मिकोऽर्चकेन हत' इति लोकापवादः स्यात् । एवं विचिन्त्य ग्रामं गत्वा तद्दर्शनाय जनानानयति स्म । चपेटाभिर्मुष्टिभिश्च ग्राम्यबालैर्हन्यमानः स वृद्धग्रहिलममुं हत्वाऽलमिति मोचितः । अथ प्रभुर्मर्दनाख्यं निवेशनं गत्वा बलदेवायतने प्रतिमाधरस्तस्थौ । गोशालश्च तत्राऽपि बलदेवप्रितमां दूषयन् पूर्ववदेव ग्राम्यैः कुट्टितो मोचितश्च वृद्धैः । ततो विहृत्य च प्रभुर्बहुशालाख्यं ग्रामं प्राप्य शालवनोद्याने प्रतिमया तस्थौ । तत्र च शालार्या नाम व्यन्तरी विनैव कारणं क्रुद्ध्वा प्रभोरुपसर्गानकरोत् । श्रान्ता च शान्तकोपा सा प्रभुं पूजयामास । दशमं पर्व - चतुर्थः सर्गः . ५२ प्रभुश्च ततो विहृत्य जितशत्रुनृपेण शासितं लोहार्गलपुरं प्राप । तदा च तस्य नृपस्याऽन्येन नृपेण विरोधोऽभूत् । गोशालेन सहाऽऽगच्छंश्च प्रभुर्मार्गे तत्पुरुषैर्दृष्टः पृष्टश्च प्रतिवचोऽददानो गुप्तचर इति नृपस्य समर्पितः । अस्थिकग्रामात् पूर्वमेवाऽऽगत उत्पलश्च प्रभु दृष्ट्वा वन्दित्वा च जितशत्रु निवेदयामास । ततो नृपोऽपि प्रभु भक्तितो ननाम । प्रभुश्च विहरन् पुरिमतालाख्यं नगरं प्राप । ____ अथ पुरिमताले नगरे पुरा वागुरः श्रेष्ठी तद्भार्या भद्रा चाऽऽस्ताम् । सा च वन्ध्या पुत्रार्थं दानं कुर्वती श्रान्ता । अन्यदा च तौ दम्पती शकटमुखोद्यानं गत्वा रममाणौ भ्रमन्तौ जीर्णं महदायतनं दृष्ट्वा प्रविष्टौ मल्लिनाथस्य प्रतिमां भक्त्या ववन्दाते । “यदि त्वत्प्रसादात् पुत्रः पुत्री वा भविष्यति, तदा त्वच्चैत्यमुद्धरिष्यावहे त्वद्भक्तौ च भविष्याव" इत्यूचतुश्च । ततस्तौ श्रेष्ठिनौ निजगृहं जग्मतुः । तत्राऽऽसन्नाया जिनभक्ताया व्यन्तर्याः प्रभावतश्च श्रेष्ठि विश्वासवर्धनो भद्राया गर्भोऽभवत् । वागुरश्च तत्प्रभृत्येव तद्देवकुलमुद्धा प्रारेभे । स वागुरोऽभिग्रहमादाय प्रत्यहं गत्वा त्रिसन्ध्यं मल्लिप्रतिमा पूजयामास । तं जिनभक्तं ज्ञात्वा च साधवः साध्व्यश्च विहारक्रमेणाऽऽयान्ति स्म । स वागुरोऽपि तान् पूजयति स्म । साधुसम्पर्काच्च तौ श्रेष्ठिदम्पती श्रावकत्वं जगृहतुर्विधि च बुबुधाते। प्रभुं च तत्र नगरस्य शकटमुखोद्यानस्याऽन्तरे प्रतिमया स्थितं वन्दितुमागत ईशानेन्द्रो वागुरं मल्लिप्रतिमा पूजयितुं गच्छन्तं दृष्ट्वा "प्रत्यक्षं जिनं विहाय तत्प्रतिमार्चनाय किं यासि ? अयं हि चरमस्तीर्थकृद् वीरप्रभुर्विहरनत्र छद्मस्थः प्रतिमया तिष्ठती"त्युवाच । ततो वागुरो लज्जया सङ्कचितगात्रो मिथ्यादुष्कृतमित्युक्त्वा

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147