Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः सदयैस्तैः पुनस्तत्र प्रवेशितः । स मुहूर्त्तेन गतशीतश्च पुनस्तथैवोवाच । ततस्तैः पुनस्तथैव नि:सारितस्तथैव प्रवेशितश्च । एवं ते क्रोधाऽनुकम्पाभ्यां तस्यैवं त्रिश्चक्रुः चतुर्थवारे च गोशालस्तानुवाच“यथार्थकथनेऽपि युष्माकं कः कोप: ? निजदुराचाराय किं न कोपं कुरुथ ? पुनः पुनश्च स्पष्टवादिने मह्यं द्रुह्यथ" । ५० ततस्तत्कुट्टनेच्छयोत्तिष्ठतो यूनो निवारयन्तो वृद्धा ऊचुः - अयं तपोराशेर्देवार्यस्योपासकः सेवको वा, अयं स्वेच्छया ब्रवीतु, अनेन सह भाषितेनाऽलं, यदि श्रोतुं न सहध्वे तर्हि वाद्यवादनं कुरुध्वम्" । ततस्तेऽपि तथैव चक्रुः । सूर्योदये जाते च प्रभुः श्रावस्तीं गत्वा प्रतिमया तस्थौ । अथ भोजनावसरे प्राप्ते गोशालो भिक्षार्थं प्रभुमाजुहाव । सिद्धार्थश्च पूर्ववदेव 'वयमुपोषिता' इत्युवाच । ततो गोशालो ममाऽद्य कीदृश आहार इत्यपृच्छत् । ततः सिद्धार्थ उवाच“मनुष्यमांसं भक्षयिष्यसि” । तच्छ्रुत्वा गोशाल उवाच - “अद्याऽत्र मांसगन्धोऽपि न भवेत् तत्र भोक्ष्ये" । ततो गोशालो भिक्षार्थं श्रावस्तीं प्राविशत् । इतश्च तस्यां पुरि पितृदत्तो गृहमेध्यासीत् । तत्पत्नी श्रीभद्रा च मृतवत्सा शिवदत्तं दैवज्ञं ममाऽपत्यं कथं जीवेदित्यपृच्छत् । ततः स उवाच - "जातमृतं शिशुं सासृक्पलं पिष्ट्वा क्षीरेण सर्पिर्मधुसहितं पायसीकृत्य धूलिधूसरितपादाय सुसाधवे भोक्तुं दत्ते चेत् तवाऽपत्यानि निश्चयेन जीविष्यति । तस्मिन् साधौ भुक्त्वा गते सति त्वया गृहद्वारमन्यथा कार्यं येन भोज्यं ज्ञात्वा स तव गृहं क्रोधाद् न दहेत्" । ततः सा पुत्रार्थिनी स्वं मृतबालं पायसीकृत्य समागताय गोशालाय भक्त्या ददौ। स च तत्पायसं भुक्त्वा गत्वा च 'चिराद् दशमं पर्व तृतीयः सर्गः भ्रान्तोऽसीति प्रभुमवोचत् । ततः सिद्धार्थेन तत् पायसं यथाकृतं तद् वर्णितम् । तच्छ्रुत्वा च गोशालो मुखेऽङ्गुलिं कृत्वा तद् ववाम। तत्र च नखाद्यवयवान् दृष्ट्वा क्रुद्धस्तद् गृहमन्वेष्टुं गतः । किन्तु द्वारस्याऽन्यथाकरणात् तद् गृहं नाऽज्ञासीत् । ततः स उवाच"यदि मद्गुरोस्तपस्तेजश्च तर्ह्येष सकलोऽपि प्रदेशो दह्यताम् " । ततस्तत्रत्याः सन्निहिता व्यन्तरदेवाः प्रभोर्माहात्म्यं मा हीयतामिति तं सर्वं प्रदेशमदहन् । अथ प्रभुस्तत्र किञ्चित् स्थित्वा हरिद्रुकं ग्रामं गत्वा बहिर्हरिद्रवृक्षतले प्रतिमयाऽस्थात् । तदानीं च तद्वृक्षतले श्रावस्तीं नगरीं गमिष्यन् महासार्थोऽपि न्यवात्सीत् । स च रात्रौ शीतभयादग्नि प्रज्वालयामास । प्रातश्चोत्थायाऽग्रे ययौ । प्रमादाच्चाऽविध्यापितः सोऽग्निः क्रमात् प्रसरन् वीरजिनमुपागतः । तद् दृष्ट्वा च गोशालो ‘भगवन् ! पलायस्व पलायस्व, एषोऽग्निरभ्येती'ति वदन् शीघ्रं काकनाशं नंष्ट्वाऽन्यत्र जगाम । प्रभुश्च तद्वचः श्रुत्वाऽपि तमग्नि ध्यानाग्निमिव कर्मदारुदाहाय चिन्तयन्नप्रकम्पोऽस्थात् । तेनाऽग्निना च प्रभोः पादौ श्यामलीकृतौ । अथ तस्मिन् वह्नावुपशान्ते प्रभुर्गोशालेन सहितो लाङ्गलाख्यं ग्रामं गत्वा विष्णुमन्दिरे प्रतिमया तस्थौ । गोशालश्च क्रीडया समागतान् ग्राम्यबालान् कौतुकात् प्रेतवद् विकृतं रूपं विधाय भीषयते स्म । भयाद् ग्रामं पलायितेषु बालेषु तत्पितर आगत्य गोशालं तथारूपं दृष्ट्वा 'किं बालांस्त्रासयसी'ति निर्भर्त्स्य भृशमकुट्टयन् । वृद्धाश्च प्रभुं दृष्ट्वा मुच्यतामयं देवार्यस्य सेवकः कोऽपि सम्भाव्यते' इति तान् निवारयामासुः । ततस्तैर्मुक्तो गोशाल उवाच- “प्रभो ! वज्रवद् निष्ठुरोऽसि यद् मां हन्यमानमुपेक्षसे" ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147