Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 35
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एवं विषण्णे पुष्पे शक्र: "प्रभुः कथं विहरती"ति दध्यौ । अवधिना च स्थूणाके प्रतिमास्थितं प्रभुं विषण्णं तं नैमित्तिकं पुष्पं च ज्ञात्वा शीघ्रमागत्य प्रभुं पुष्पस्य पश्यत एव प्रणम्य पुष्पमुवाच"शास्त्रं किं निन्दसि ? न हि शास्त्रकृतो मिथ्या वाचः । त्वं बाह्यान्येव लक्षणानि जानासि नाऽन्तराणि । प्रभोहि रक्तमवित्रं क्षीरधवलं, नि:श्वासः पङ्कजवदामोदी, वपुश्च निरामयं मलादिवर्जितं च । अयं जगत्पतिर्धर्मचक्री वीराख्य: सिद्धार्थपुत्रः । चतुष्पष्टिरपीन्द्रा अस्य प्रभोः सेवकाः । तव फलाशाविषयचक्री प्रभोः पुरतः कः ? असौ वार्षिकदानं दत्त्वा भवच्छेदमिच्छू राज्यं विहाय परिव्रज्यैवं विहरति । तच्छास्त्राणि संवदन्त्येव, विषादं मा गाः, तवाऽभीष्टं ददामि । यतः स्वामिदर्शनं न मोघं कस्याऽपि" । एवमुक्त्वा तस्येष्टं दत्त्वा प्रभुं प्रणम्य च शक्रः स्वस्थानं ययौ । दशमं पर्व - तृतीयः सर्गः राजगृहं प्राप स प्रभुणाऽलङ्कृते । शालाकोण एव तन्तुवायमनुज्ञाप्य सिंहसमीपे शृगाल इवाऽवात्सीत् । प्रभुरपि मासक्षपणपारणार्थं पाणिपात्रो विजयश्रेष्ठिनो गृहं प्राविशत् । सुमतिः श्रेष्ठी च परया भक्त्या स्वामिनं प्रत्यलाभयत् । तदानीं च देवा अहो दानं सुदानमित्याघोषयन्तस्तद्गृहे वसुधारादिकानि पञ्च दिव्यानि चक्रुः । गोशालस्तु तच्छ्रुत्वा दध्यौ-"अयं मुनिरसामान्यः, यतोऽस्याऽन्नदातुर्गुहे पञ्च दिव्यानि जातानि । तच्चित्रफलकं त्यक्त्वाऽस्य शिष्यो भवामि, ईदृशो हि गुरुरवश्यं फलदः" । तस्मिन्नेवं चिन्तयत्येव प्रभुः पारयित्वा तत्र शालायामेत्य प्रतिमया तस्थौ । गोशालश्च प्रभुं नत्वाऽवादीत्-"मौनिनस्तव प्रभावो मया नाऽज्ञायि, अहं तव शिष्यो भविष्यामि, त्वमेव मम शरणम्" । एवमुक्त्वा च स तथाचकार । प्रभुश्च मौनेनैवाऽस्थात् । गोशालश्च भिक्षोपजीवी प्रभोः शिष्यतां गतः कदाचिदपि प्रभुपार्वं नाऽमुञ्चत् । प्रभुश्च द्वितीयमासक्षपणे आनन्दस्य गृहं गतस्तेन भक्त-पानाद्यैर्भक्त्या प्रतिलम्भितः । तृतीयमासक्षपणे च प्रभुः सुनन्देन गृहमेधिना सर्वकामगुणाख्येनाऽऽहारेण प्रतिलम्भितः । गोशालकोऽपि च भिक्षयोदरं पूरयन् सदा प्रभुमसेवत । अथ कार्तिकपूर्णिमायां प्राप्तायां गोशालो दध्यौ-"अयं ज्ञानी श्रूयते, तदस्य ज्ञान परीक्षे" । एवं विचार्य स वीरप्रभु पप्रच्छ-"स्वामिन् ! प्रतिगृहं वार्षिकोत्सवे प्रवृत्तेऽहं भिक्षायां कि प्राप्स्यामि, तत् कथय" । तत: स्वामिसङ्कान्त: सिद्धार्थ उवाच"भद्र ! धान्याम्लकोद्रवकूरै जितो दक्षिणायामेकं कूटं रूपकं च प्राप्स्यसि" । तच्छ्रुत्वा च गोशालो दिनोदयादारभ्य विशिष्टभोजनाय अथ वीरप्रभुः कायोत्सर्ग पारयित्वा विहरन् राजगृहं पुरं प्राप । तस्य नगरस्य समीप एव नालन्दाया: पूर्वस्यां कस्यचित् तन्तुवायस्य विशालां शालां गत्वा प्रभुस्तं वर्षां वस्तुमनुज्ञाप्य तस्या एकदेशे मासक्षपणमाश्रितोऽस्थात् । इतश्च मङ्ख्यो मखलिर्बभूव । तस्य भार्या च भद्रा । तौ च चित्रपट्टिकां दधानौ भुवं विजहतुः । एकदा च शरवणग्रामं प्राप्य भद्रा गोबहुलस्य विप्रस्य गोशालायां सुतमसूत । गोशालाजातत्वाच्च स गोशालाख्यः प्राप्तयौवनो निजं मखशिल्पं शिक्षितवान् । स्वभावत: कलही, पित्राज्ञाविराधको, दुर्लक्षणः, कूटपण्डितः स पितृभ्यां कलहं कृत्वा चित्रपट्टिकामादाय भ्रमन् भिक्षयोपजीवन्

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147