Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पवित्रितं, व्यसनिपौरेरस्पृष्टं तीर्थवत् पावनमस्ति । तत्र ज्ञातवंश्य इक्ष्वाकुसन्तानो धर्मपरायणः सप्ततत्त्वज्ञो न्यायपरः पितेव प्रजानां पालको दीनानामुद्धारकः शरणागतवत्सलः क्षत्रियश्रेष्ठः सिद्धार्थो नाम नृपोऽस्ति । तस्य च सतीशिरोमणिः पवित्राशयोत्तमगुणसम्पन्ना मायारहिता निसर्गसरला सुगृहीतनामधेया त्रिशला नामाऽग्रमहिषी वर्त्तते । सा चेदानी गर्भवती वर्त्तते । तद्गर्भसञ्चारणाद् देवानन्दायास्त्रिशलायाश्च गर्भपरिवर्तनं मया विधेयम्" । एवं विचार्य शक्र: शीघ्रं सेनापति नैगमेषिणमाहूय गर्भपरिवर्त्तनं कर्तुमादिदेश । नैगमेषी च शक्राज्ञया तथा चकार । ___ तदानीं च देवानन्दा शयाना पूर्वदृष्टान् चतुर्दश महास्वप्नान् मुखाद् निर्गच्छतो ददर्श । ततः सोत्थाय वक्षस्ताडयन्ती विवर्णा ज्वरपीडिता 'केनाऽपि मे गर्भो हत' इति चिरं विललाप । आश्विनकृष्णत्रयोदश्यां चित्रास्थे चन्द्रे च नैगमेषी प्रभुं त्रिशलागर्भस्थं चकार । तदानीं च त्रिशला चतुर्दशमहास्वप्नान् मुखे प्रविशतो ददर्श । प्रातश्चैन्द्रैः स्वपतिना निमित्तज्ञैश्च स्वप्नफलं ज्ञात्वा सा नितराममोदत । अथ तदारभ्य च प्रसन्ना त्रिशला लीलागृहेष्वपि सावधानं विहरमाणा दिव्यं गर्भ बभार । गर्भस्थे प्रभौ चेन्द्राज्ञया जृम्भकदेवाः सिद्धार्थनृपगृहे पुन: पुनर्निधानानि निदधुः । गर्भस्थप्रभुप्रभावात् सर्वमेव ज्ञातकुलं प्रचुरधन-धान्यादिसमृद्धं जातम् । सिद्धार्थनृपस्याऽरिनृपाश्च स्वयमुपायनान्यादायाऽऽगत्य प्रणेमुः । प्रभुश्च मातुर्वेदना मा भूदिति गर्भे निष्परिस्पन्दमस्थात् । तथा प्रभोनिर्व्यापार गर्भेऽवस्थानाद् गर्भोऽस्ति न वेति माताऽपि निश्चेतुं न शशाक । दशमं पर्व - द्वितीयः सर्गः तेन च त्रिशला चिन्तयामास-"मम गर्भो गलित: केनाऽप्यपहृतो विनष्टः स्तम्भितो वा ? यद्येवं तर्हि जीवितेनाऽलम्" । एवमार्तध्यानवशात् सा विश्लथकेशाऽङ्गरागादिविरक्ता, करे कृतमुखपद्माऽऽभरणपरिहीणा, नि:श्वासं मुञ्चन्ती, सखीष्वपि विरतवाग्व्यापारा, भोजनं शयनं च तत्याज । तदुदन्तं विज्ञाय सिद्धार्थनृपस्तत्पुत्रो नन्दिवर्धनः, पुत्री सुदर्शना चाऽखिद्यन्त । ततः प्रभुः पित्रोस्तन्मनोदुःखं विज्ञाय गर्भज्ञानार्थमङ्गली चालयामास । ततस्त्रिशला मद्गर्भोऽक्षत इति विज्ञाय मुदिता सिद्धार्थनृपमपि गर्भस्पदनं निवेद्य मोदयामास । अथ गर्भस्थः प्रभुर्दथ्यौ-"अदृष्टेऽपि मयि पित्रोर्महान् स्नेहः, तद्यद्यनयोर्जीवतोतं ग्रहीष्यामि तदा नूनमेतौ स्नेहाख्यमोहादातध्यानमापन्नौ बह्वशुभं कर्मोपार्जयिष्यतः" । ततः सप्तमे मासि प्रभुः पित्रोर्जीवतोः प्रव्रज्यां न ग्रहीष्यामी'त्यभिग्रहं जग्राह । अथ त्रिशलादेवी सार्धाष्टमदिनाधिकेषु नवमु मासेषु व्यतीतेषु दिक्षु प्रसन्नासु ग्रहेषूच्चस्थेषु पवनेऽनुकूलं वाति जगत्यानन्दमग्ने शुभशकुनेषु सत्सु चैत्रशुक्लत्रयोदश्यां चित्रागते चन्द्रे सिंहलाञ्छनं स्वर्णवर्णं पुत्रं जनयामास । तदानीं न भोगङ्करादयः षट्पञ्चाशद्दिकुमार्यः समागत्य प्रभोस्तन्मातुश्च सूतिकर्माणि सम्पादयामासुः । शक्रोऽप्यासनकम्पेन प्रभोर्जन्म विज्ञाय सद्यः सपरिच्छदः समाजगाम । जिनं तन्मातरं च दूरत एव प्रणम्य समीपमागत्य देव्या अवस्वापनिकां दत्त्वा तत्पावें प्रभुबिम्ब निधाय पञ्चधाऽऽत्मानं विचक्रे । ततो यथा कल्पं भगवन्तमादाय मेरौ गत्वाऽतिपाण्डुकम्बलायां शिलायां प्रभुमके कृत्वा सिंहासनमधिष्ठितवान् । तथा तत्र प्रभु स्नपयितुमन्येऽपीन्द्राः समागताः ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147